निर्माणम्
डि. ए. एम्. यु. पि. एस्. काञ्ञिरप्पळ्ळी
आमुखम्, अन्तर्जालोपारोपणञ्च
डो. विजय् कुमार् एम्.
केरलेषु स्यन्दमाना पुण्यपुरातनी नदी भवति पम्पा । इटुक्कि जिल्लायां वर्तमानात् पीरुमेट् इति स्थानात् उद्भूतानि त्रीणि जलस्रोतांसि मिलित्वा नदीयं संभवति । अनेकैः पोषकनदीभिः युक्ता इयं प्रतीच्यां दिशं प्रति प्रसृता सति बहुभिः शाखाभिः पृथक्कृता भवति । तासु प्रधाना शाखा कुट्टनाट् प्रदेशात् उत्तरस्यां दिशं प्रति प्रस्थिता सति वेम्पनाट्ट् इति प्रसिद्धे अम्बुचत्वरे (तटाके) लीयते। पम्पायाः बहुभिः शाखाभिः युक्ता भवति 'केरलस्य नेल्लरा' इति प्रसिद्धः कुट्टनाट् देशः । शबरिगिरेः अधित्यकां परिवृत्य स्यन्दमानायाः अस्याः तीरे बहूनि शास्ताक्षेत्राणि सन्ति । नदीयं पापनाशिनी इत्यपि प्रथिता भवति । हैन्दवधर्मानुसारिणां पुण्यनदी भवति इयम् । सीतामन्विष्य प्रस्थितयोः रामलक्ष्मणयोः आतिथ्यं कृतवत्याः शबर्याः आश्रमः अस्याः तीरे आसीदिति प्रसिद्धिः । प्रतिवर्षं शबरिगिरीशं वन्दितुं प्रस्थिताः अनेककोटिभक्ताः अस्यां नद्यां स्नात्वा एव दर्शनं कुर्वन्ति ।
कोट्टयम् जिल्लायां काञ्ञिरप्पळ्ळि देशे वर्तमान मुट्टप्पळ्ळि डि. ए. एम्. यु. पि. एस् छात्रैः अध्यापकैः च पम्पानदीमधिकृत्य निर्मितं ह्रस्वचित्रं अत्र आस्वादकानां संस्कृतपिपठिषूणां च पुरतः दीयते । पम्पायाः सौन्दर्यं, तस्याः निर्मलता, तस्याः तटे वर्तमानानि देवालयानि, मतसम्मेलनानि, भूप्रकृतयः इत्यादीनां सर्वेषामास्वादनाय अनुवाचकान् सादरं आमन्त्रयामि । अस्य ह्रस्वचित्रस्य निर्माणार्थं प्रयत्नं कृतवद्भ्यः डि. ए. एम्. यु. पि. एस् अध्यापकेभ्यः छात्रेभ्यश्च संस्कृतलोकस्य सादरधन्यवादाः ।
प्रथमो भागः
द्वितीयो भागः
तृतीयो भागः
चतुर्थो भागः
पञ्चमो भागः
सप्तमो भागः
अष्टमो भागः
नवमो भागः