roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Wednesday, October 5, 2011

महच्चरितमाला २. - स्वामि विवेकानन्दः

डो. विजय् कुमार् एम्
स्वामि विवेकानन्दः

कोल्कत्तायाम् एकस्मिन् समुन्नतकुले त्रिषष्ट्युत्तर अष्टादशशततमे १८६३ क्रिस्त्वब्दे विवेकान्द इति पश्चात् प्रसिद्धः नरेन्द्रनाथः जनिमलभत । पिता विश्वनाथदत्तः माता भुवनेश्वरीदेवी चासीत् । पितुः राज्यस्नेहः मातुः आध्यात्मिकचिन्ता च शैशवे एव नरेन्द्रे समिमिलति स्म । बालो नरेन्द्रः सर्वेषु विषयेषु प्रवीणः आसीत् । आध्यात्मिककार्येषु संशयग्रस्तः नरेन्द्रः श्रीरामकृष्णपरमहंसस्य शिष्यत्वं स्वीचकार । षडशीत्यधिकाष्टादशशततमे (१८८६) क्रैस्ताब्दे श्रीरामकृष्णः समाधिं प्राप । तदनन्तरं नरेन्द्रः सुहृद्भिः सह सन्यासं स्वीकृत्य स्वामि विवेकानन्दः इति नाम स्वीचकार । अतः परं विवेकानन्दः भारते सर्वत्र पर्यटति स्म । अस्मिन् समये केरलदेशे श्रीनारायणगुरिचट्टम्पिस्वामिप्रभृतिभिः आध्यात्मिकाचार्यैः सह तस्य मेलनमपि अभवत्। सर्वधर्मसमन्वयादेव मानवमैत्री इति विवेकानन्दस्य सन्देशः । द्युत्तरनवशताधिकसहस्रतमे वर्षो सोयं भारतस्य सुपुत्रः समाधिं प्राप ।

त्रिनवत्यधिकाष्टादशशततमे (१८९३) क्रिस्ताब्दे चिक्कागो नगरे प्रचलिते सर्वधर्मसमेमलने सिवामिना कृतं प्रभाषणं विश्वविख्यातमेव । सन्तोषस्यावसरोयं यत् स्वामिनः विश्वविख्यातचिक्कागोप्रभाषणस्य शब्दरेखा इदानीमपि उपलभ्यत इति। अपूर्वामिमां शब्दरेखां शृणोतु, भारतस्य सांस्कारिकपैतृके अभिमानिनः च भवन्तु ।

स्वामि विवेकानन्दस्य चिक्कगोप्रभाषणस्य शब्दरेखा

उत्तिष्ठत, जाग्रत, प्राप्यवरान्निबोधत इति जनान् उदबोधयत् अयं युगप्रभावः ।

(प्राचीनहस्तपुस्तकादुद्धृतोयं गद्यांशः)