कूटियाट्टम् नामकं कलारूपं संस्कृतनाटकाभिनयस्य प्रकारभेदः एव । चाक्यारः, नङ्ङ्यार् च कथापात्राणां वेषं धृत्वा सभामध्ये नाटकाभिनयं कुरुतः इत्यतः अस्य कूटियाट्टम् इति नाम कैरल्यां समजनि इति केचिद्वदन्ति। मिलित्वा (കൂടി) नटनं (ആട്ടം) भवति कूटियाट्टम् इत्यर्थः । सात्विकः, आङ्गिकः, वाचिकः, आहार्यः इति चतुर्विधानामभिनयानां मेलनेन कूटियाट्टमिति व्यवहारः इति अन्ये वदन्ति। मिषाव्, तालम्, इटय्क्का, शङ्घः, कोम्प्, कुषल् इत्यादयः वाद्यविशेषाः अस्मिन् तालप्रघोषणाय प्रयुज्यन्ते । कुलशेखरवर्मणः कालादारभ्य प्रचुरप्रचारमाप्तमिदं कलारूपं इदानीं युवजनोत्सववेदिकास्वपि द्रष्टुं शक्यते।
नम्ब्यारः निषाव् उपयुज्य कूटियाट्ट्स्य अभिनयार्थं पूर्वमेव रङ्गप्रसाधनं करोति । यथा - पर्णानि कुसुमानि रम्भादीनि कौशेयवस्त्राणि चोपयुज्य रङ्गमण्डपम् अलङ्करोति । प्रज्वलितस्य दीपस्य पुरतः स्थित्वा अभिनयन्ति नटाः ।दीपस्य त्रिषु भागेष्वपि त्रिमूर्तीः कल्पयित्वा अग्निं ज्वालयति । रङ्गे उपवेशनार्थं पीठानि उपयुज्यन्ते।
कूटियाट्टस्य परिष्कर्ता आसीत् कुलशेखरवर्ममहाराजः । तदर्थं तोलः नाम कविः तस्य साहाय्यमकरोदित्यैतिह्यम् । प्राचीनकालेषु तलिप्परम्प् नामकः प्रदेशः कूटियाट्टस्य प्रचालनविषये मुख्यं केन्द्रमासीदिति श्रूयते।
सामान्येन कूटियाट्टे कुलशेखरवर्मणः सुभद्राधनञ्जयं, तपतीसंवरणम्, शक्तिभद्रस्य आश्चर्यचूडामणिः, श्रीहर्षस्य नागानन्दं, भासस्य प्रतिमानाटकं, प्रतिज्ञायौगन्धरायणं, स्वप्नवासवदत्तम् इत्येवमादीनां नाटकानां प्रसक्तभागाः रङ्गप्रयोगार्थम् उपयुज्यन्ते।
कथाकल्याः रूपवत्करणे मार्गदर्शकमाप्तमिदं कलारूपम् ऐक्यराष्ट्र शिक्षा - शास्त्र – सांस्कृतिक – संस्थायाः (UNESCO) अङ्गीकारमलभत इतीदं कलारसिकानां केरलीयानामस्माकम् अभिमानावहमेव ।