औपनिषदधर्मस्य महत्वं संस्थापयितुं भारतीयसंस्कृतिं परिपोषयितुं च ज्ञनप्रदीपं प्रोज्वलयन् कश्चित् महानुभावः केरलदेशे कालटिग्रामे जनिमलभत । स एव दार्शनिकः जगद्गुरुः आदिशङ्करः ।
कर्मबहुले द्वात्रिंशद्वर्षपरिमिते स्वजीविते आसेतुहिमाचलं पद्भ्यामेव चरन् सः औपनिषदं धर्मं प्रचारयामास । गुरोः जीवितकालमधिकृत्य विभिन्नाः अभिप्रायाः वर्तन्ते । तथापि सो∫यं जगद्गुरुः क्रिस्तोः परं अष्टाशीत्यधिकसप्तशततमवर्षादारभ्य विंशत्यधिकाष्टशततमपर्यन्तं (७८०-८२०) जीवितं निनायेति इतिहासविदः वदन्ति ।
बाल्ये एव अनितरसाधारणीं धिषणां शास्त्रग्रहणनैपुणीं च प्रदर्शितवानयं बालः अष्टवर्षवयाः एव वेदवेदाङ्गपारङ्गतो∫भूत् । मातुरनुमत्या संन्यासं स्वीकृत्य प्रस्थितः शङ्करो∫यं नर्मदानदीतीरे गोविन्दगुरोः शिष्यत्वमलभत। तस्य अनुपमं बुद्धिवैभवं प्रत्यभिज्ञाय आचार्यः तं प्रस्थानत्रयस्य (ब्रह्मसूत्रम्, भगवद्गीता, उपनिषद्)भाष्यविरचनाय न्ययुङ्क्त।
ज्ञानवृद्धो∫यं बालसन्यासी वाराणस्यां आचार्यपदवीमविन्दत । सः षड्दर्शनेषु उत्तरमीमांसान्तर्गतं अद्वैतमेव मुख्यमिति व्यवस्थापयामास । पूर्वमीमांसकं मण्डनमिश्रं वादे विजित्य जगद्गुरुः इति प्रथामविन्दत । तं च सुरेश्वरनाम्ना स्वशिष्यं चाकरोत् । सर्वशास्त्रपारङ्गतः साहित्यरसिकश्चायं जगद्गुरुः पण्डितराजः, कविकुलचूडामणिः इति च गीयते । आचार्यरचिताः ग्रन्थाः भाष्यम् - प्रकरणम् - स्तोत्रम् इति त्रिधा विभक्ताः ।
चण्डालोस्तु स तु द्विजोस्तु गुरुरित्येषा मनीषा मम – इत्युद्घोषयन्नयं सङ्कुचितां जातिव्यवस्थां तिरश्चकार । सुरेश्वरादिभिः स्वशिष्यैः समं भारते सर्वत्र पर्यटन् प्रतिवादिनः पराजितान् कृत्वा काश्मीरेषु सर्वज्ञपीठम् आरुरोह । समाधौ प्रवेशात्पूर्वमेव आचार्यः अद्वैतसिद्धान्तस्य रहस्यं शिष्येभ्यः उपदिदेश – ब्रह्मसत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः - इति ।
आचार्यस्यास्य जीवनचरितं प्रकाशयन्तौ मुख्यग्रन्थौ भवतः माधवविद्यारण्यस्वामिनः श्रीशङ्करदिग्विजयः, वैद्यनाथ अग्निहोत्रि विरचितः आदिशङ्करश्च । शिवगुरोः आर्याम्बायाश्च सुतत्वेन लब्धजन्मनः अस्य जनुषा परिपूतः कालटिग्रामः केरलेषु एवेत्येतत् अस्माकमभिमानावहम् ।