roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Thursday, October 13, 2011

केरलीयकलारूपाणि ६. - कथाकेलिः

डो. विजय् कुमार् एम्.

देशे विदेशे च प्रसिद्धिमाप्ता कथाकेलिः केरलीयदृश्यकलाविशेषाणां मकुटायमाना विराजते । तौर्यत्रिकस्य सामञ्जस्यं मेलनमत्र दृश्यते । चेण्टा, मद्दलम्, इलत्तालम्, इटय्क्का, चेङ्ङिला, इत्यादयः वाद्यविशेषाः कथाकेल्याः अवतरणसमये उपयुज्यन्ते ।

अस्य कलारूपस्य परिष्कर्ता आसीत् वेट्टत्तु तम्पुरान् । कोट्टयत्तु तम्पुरान् महाभागोपि अस्याः कलायाः परिष्करणे बद्धश्रद्धः आसीत्। क्रिस्तोः परं सप्तदशे शतके कोट्टारक्करतम्पुरान् महाशयेन प्रारब्धं रामनाट्टमेव अस्य कलारूपस्य प्राग्रूपमिति पण्डिताः वदन्ति ।

कथाकेल्याः साहित्यम् आट्टक्कथा इति व्यवह्रियते कैरल्याम्। तत्र कथासन्दर्भाः श्लोकरूपेण सम्भाषणानि पदरूपेण कथांशसङ्ग्रहः दण्डकरूपेण च निबद्धाः दृश्यन्ते। मुख्यगायकः पोन्नानि इति अनुगायकः शिङ्किटी इति च व्यवह्रियते। गानानुसारं पदानामर्थान् मुद्राभिः, रसान् मुखोपाङ्गचलनैश्च आविष्करोति नटः ।

कथापात्राणां स्वभावानुसारमेव आहार्यता निर्णीता । तत्र पच्चा, कत्ति, ताटि, करि, मिनुक्क्, इत्येवमादयः, आहार्यविशेषाः स्वीकृताः सन्ति। तेषामपि पात्रानुसारं वैविध्यमस्ति । मुद्राणां हस्तलक्षणदीपिकायां निर्दिष्टाः आधारमुद्राः एव अवलम्ब्यन्ते। उण्णायिवार्यर्, कोट्टयत्तु तम्पुरान्, कोट्टारक्कर तम्पुरान्, इरयिम्मन् तम्पि इत्येवमादयः महात्मानः आट्टक्कथारचनायां प्रसिद्धाः। वैदेशिकाः अपि कलारूपस्यास्य पठने प्रचारे च सोत्सुकाः दृश्यन्ते ।

कथाकेल्याः वटक्कन् चिट्टा तेक्कन् चिट्टा इति प्रकारद्वयं वर्तते । तत्र वटक्कन् चिट्टा इत्यस्य कल्लटिक्कोटन् सम्प्रदायः इति तेक्कन् चिट्टा इत्यस्य कप्लिङ्ङाटन् सम्प्रदायः इति च नामान्तरम् ।

कथाकेल्यां प्राधान्येन () केली, () अरङ्ङुकेली, () तोटयम्, () वन्दनश्लोकः, () पुरप्पाट्, () मेळप्पदम्, () कथाभिनयम्, () धनाशि च सन्ति । कथाभिनयस्य चोल्लियाट्ट्म्, इळकियीट्टम् इति प्रकारद्वयमस्ति। गायकस्य गानक्रमानुसारं नटः प्रतिपदं मुद्राभिः अभिनयं करोति । अयं अभिनयप्रकारः चोल्लियाट्टम् इति कथ्यते । ततः पूर्वं, परं वा नटः स्वमनोधर्मानुसारम् अभिनयति । अस्यैव इळकियाट्टम् इति नाम ।

चतुर्विधाः अभिनयप्रकाराः सन्ति । आङ्गिकम्, वाचिकम्, आहार्यम्, सात्विकम् इति । अभिनयदर्पणे एवमुक्तं भवति -

यतो हस्तस्ततो दृष्टिः यतो दृष्टिस्ततो मनः ।

यतो मनस्ततो भावो यतो भावस्ततो रसः ।।

श्रृङ्गारः, करुणः, वीरः, रौद्रः, हासः, भयानकः, बीभत्सः, अद्भुतः, शान्तः, चेति नवरसाः भवन्ति । एषां रसानां स्थायिभावाः रतिः शोकः, उत्साहः, क्रोधः, हास्यं, भयं, जुगुप्सा, विस्मयः, निर्वेदः च भवन्ति । नवरसेषु श्रृङ्गारः रसराजः इति कीर्त्यते।

कथाकेल्यां धीरोदात्तनायकानामेव 'पच्च' इति वेषविशेषः कल्पितः (यथा नलः, अर्जुनः....) । रजोगुणयुक्तानां नायकानां 'कत्ति' (यथा रावणः, दुर्योधनः....),। तमोगुणप्रधानानामसुराणां मनुष्याणां च 'ताटि' (यथा बकः, दुःश्शासनः....) किरातानां 'करि' च । मुनीनां स्त्रीणाञ्च 'मिनुक्क्' च कल्पितः। इमे वेषप्रकाराः पूर्णतया परिपाल्यन्ते । 'कत्ति' इत्यस्य कथापात्राणां 'कुरुंकत्ति', 'नेटुंकत्ति' इति प्रकारभेदौ वर्तते। 'ताटि' इत्यस्य 'वेळुत्तताटि' (हनूमान्), 'करुत्तताटि' (कलिः), 'चुवन्नताटि' (दुश्शासनः) इति विभागत्रयं वर्तते । एवं 'करि' इत्यस्यापि भेदद्वयमस्ति । पुरुषाणां कृते स्त्रियः कृते च (यथा किरातः, शूर्पणखा च) ।नारदवसिष्ठादीनां मुनीनां महर्षिकेशः, चिबुकं च उपयुज्यते । स्त्रीकथापात्राणां 'मिनुक्क्' 'मण्णान्', भीरुः, विद्युज्जिह्वः, इत्यादि विलक्षणकथापात्राणि कथाकेल्याः आहार्यवैचित्र्यतां प्रस्फुटयन्ति ।