वररुचिः (कात्यायनः)
वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् ।
पाणिनिं सूत्रकारं च प्रणतो∫स्मि मुनित्रयम् ।।
पाणिनीयसूत्राणाम् उक्तानुक्तदुरुक्तचिन्तापराणि वार्तिकानि वररुचिना विरचितानि । ज्योतिर्वेत्ता, स्मृतिकारः, काव्यकर्ता चायं वररुचिः याज्ञवल्क्यमुनेस्तनयः इति केचिद्वदन्ति । अस्य वररुचेः अपरमभिधानं भवति कात्ययन इति । अयं क्रिस्तोः पूर्वं तृतीये शतके लब्धजन्माभूदिति श्रूयते । कण्ठाभरणम्, वसन्ततिलकम्, स्वर्गारोहणमित्येतेषु काव्येषु स्वीयं कविकौशलं प्रकाशयन् अयं कात्यायनः सुत्रपरिष्करणपरैः स्ववार्तिकैः कियतीं शोभां पाणिनीये पुपोष इति शब्दतत्त्वविदः एव जानन्ति ।
न केवलं व्याकरणं पुपोष दाक्षीसुतस्येरितवार्तिकैर्यः ।
काव्ये∫पि भूयोनुचकार तं वै कात्यायनो∫सौ कविकर्मदक्षः
प्राचीनपुस्तकस्थः भागः ।