roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Wednesday, October 5, 2011

महच्चरितमाला ८. - वर्धमानमहावीरः

डो. विजय् कुमार् एम्

वर्धमानमहावीरः

अहिंसां परमं धर्मं मन्वते जैनाः । जैनधर्मस्य स्थापकाः तीर्थङ्कराः इत्युच्यन्ते । चतुर्विंशति तीर्थङ्कराः आसन्निति जैनानां विश्वासः । तेष्वन्तिमो वर्धमानमहावीरः मगधेषु वैशालीनगरप्रान्ते कुण्डग्रामे सिद्धार्थनाम्नः पितुः जन्म लेभे । मातास्य त्रिशाला नाम क्षत्रियाणी । वर्धमानस्य बाल्यमधिकृत्य किमपि न ज्ञायते । यशोदां नाम राजकन्यकां परिणीय त्रिंशे वयसि गृहस्थाश्रमं त्यक्त्वा परिवव्राज । नग्नो भूत्वा द्वादशसंवत्सरांस्तीव्रं तपस्तेपे । त्रयोदशे वर्षे ऋजुबालुकानद्या उत्तरे तीरे जृम्भिकाग्रामे स केवलज्ञानमलभत । तदा प्रभृति केवली इति जिन इति च तस्य नामनी अजायेताम् । अनन्तरं त्रिंशतं वर्षान् स्वोपज्ञं धर्मं प्रचारयामास । द्विसप्ततितमे वयसि क्रिस्तोः पूर्वं ५२७ तमे वर्षे कार्तिकमासे अमावास्यां रात्रौ निर्वाणमलभत च।

वर्धमानमहाविरस्य अनुयायिनः जैनाः इति निर्ग्रन्था इति च उच्यन्ते । श्वेतांबराः इति दिगंबरा इति द्वौ विभागौ जैनानाम् । दिगम्बराः मनयः नग्नाश्चरन्ति । श्वेतांबरास्तु श्वेतं वस्त्रं धृत्वा । अहिंसा, सत्यं, अस्तेयः, ब्रह्मचर्यं, अपरिग्रहश्च जैनैराद्रियन्ते । अपरिग्रहस्यैव परा काष्ठा वस्त्रत्यागः । सम्यक् विश्वासेन, सम्यक् ज्ञानेन, सम्यक् कर्मणा च मनुष्याः संसाराद्विमुक्ताः भवन्ति । त्रीणीमानि रत्नत्रयमित्युच्यन्ते । जैनधर्मो रत्नत्रये प्रतिष्ठितः ।

(प्राचीनपाठपुस्तकादुद्धृतः अयं भागः)