श्री नारायणगुरुः
लोकचक्रे चलति कदाचिल्लब्धजन्मानो भवन्ति लोकोपकारिणो महान्तः । तेषामचिन्त्यहेतुकानि अलोकसामान्यानि धर्मव्यवस्थापकानि कर्माणि कैश्चिदेव सम्यगवगम्यन्ते ।
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्यय तदात्मानं सृजाम्यहम् ।।
इति भगवद्वचनमनुस्मारयन्तस्ते माहात्मानः अधर्ममुन्मूल्य धर्मसंस्थापनाय कृतावताराः कीर्त्यन्ते । कर्मणा स्वीयेनैव महत्तामुपगतास्ते महात्मानः कालान्तरे∫पि स्मर्यन्ते, आद्रियन्ते च । तादृशेषु नित्यस्मरणीयेषु आध्यात्मिकाचार्येषु जनहृदयन्यस्तपादः कश्चिदासीत् श्रीनारायणगुरुदेवः ।
तदात्वे अस्पृश्यत्वेनावर्ण्यत्वेनाधःकृतत्वेन वा परिगणिते कस्मिंश्चित् समाजे एकत्रिंशदधिकैकसहस्रतमे (१०३१) कोलम्बाब्दे श्रावणमासि श्रीनारायणो∫वतीर्णः । अनन्तपुर्यां नातिदूरस्थे चेम्पषन्तिग्रामे वयल्वारं भवनमस्य जन्मगृहम् । अस्य माता कुट्टियम्मा पिता च माटनाशान् इति प्रथितो विद्वांश्च ।
बालस्य नारायणस्य अक्षरविद्यासमारंभः चेम्पषन्तिमुत्तुप्पिल्ल इति विश्रुतेन पण्डितेन कारयामासे । ततः क्रमेण स निशातधिषणो बालः संस्कृतभाषां पठितुं नियुक्तः, मलयालम्, तमिल्, संस्कृतमिति भाषात्रये∫पि कालेनाल्पेनैव निष्णातो∫भवत्। ततः संस्कृतभाषायां शास्त्रार्थावगमार्थं कुमार एव सः मातुलेन कृष्णन् वैद्यन् नामकेन पुतुप्पल्लिवारणप्पल्लिनामकम् उदारशीलानां भवनमुपनीतः । तत्र चेरुवण्णूराचार्यस्य रामन्पिल्ल महाशयस्य अन्तेवासित्वेन कालं नयन्नसौ नारायणः बहूनि काव्यानि शास्त्राणि चाधीतवान् । अयं च पठनावसरेषु इतरान् सर्वानपि सतीर्थ्यान् स्वशेमुष्या अनायासमधरीचकार । कुमार एषासौ व्रतनिष्ठः विविक्तसंस्थश्चासीत् ।
पित्रोर्मृतयोः यदृच्छया कृतपरिणयो∫पि नैष्ठिकः सः गृहं हित्वा निर्जगाम । श्रीनारायणः स्वस्य एकोनत्रिंशे वयसि परिव्राजकत्वमापाद्यत । कदाचिदसौ कानिचिद्दिनानि पेरुनल्लि भवने संस्कृतग्रन्थनिरीक्षणार्थं वसन् परमभट्टारकश्रीविद्याधिराजस्य सौहृदमार्जितवान् । एतौ द्वावपि तपस्विनौ कञ्चित्कालं सन्ततसहवर्तिनावास्ताम् । तौ योगाचार्यं तैक्काट्टार्यनामानमुपेत्य हठादीर्योगविद्याः काश्चिद् अधीयतुः । शिष्टांश्च श्रीनारायणो मरुत्वाद्रिमेत्य तत्र स्वयं परिशीलितवान् । मरुत्वाद्रेरधित्यकायां पिल्लत्तटनामकमस्ति किमपि बिलम् । तत्र स दर्भास्तीर्यासनः तपस्तेपे । फलेन, पर्णेन, जलेन, वायुना च शरीरस्य स्थितिं कल्पयन् दिनान्यनयत् । अनन्तरं तपसो निवृत्तश्च दक्षिणभारते बहून् देशानटन् अवधूतो∫सौ अम्माळ् योगिन्या नागर्कोविल् देशस्थया आशीभिरनुगृहीतः । अवधूतत्वेन कालं यापयन्नसौ तदात्वे अधःकृतानामवशानाञ्च जनानां समाजेषु सञ्चरन् तेषां समुद्धरणोपायान् चिन्तयन्नासीत्। ऐस्लामिकाः क्रैसेतवाश्च तं बह्वमन्यन्त ।
नारायणावधुतः कदाचित् अरुविप्पुरं इति नाम्ना पश्चाद् विश्रुतं वनप्रदेशं प्राप । तं च पश्चात् शिवलिङ्गस्वामीति प्रथितः कश्चित्तपस्वी शिष्यतया प्रपेदे । क्रमेण बहवो जनाः सर्वतस्तत्र समागताः । एवम् अरुविप्पुरं किञ्चन तीर्थस्थानं समभवत्। यदद्ध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते । तत्र च श्रीनारायणगुरुदेवेन शिवलिङ्गाकारः शिलाखण्डः प्रतिष्ठापितः। तत्र शिवमन्दिरे लिखितमेतत् ।
जातिभेदं मतद्वेषं विना यत्र नराः समे ।
सोदरत्वेन तिष्ठन्ति मातृकास्थानमप्यदः ।।
श्रीनारायणगुरुदेवः कैरल्यां गैर्वाण्याञ्च स्तोत्राणि गीतानि च व्यरचयत् । तेष्वन्यतमं अतिविश्रुतं कुण्डलिनीगीतम् । दैवशतकम्, अद्वैतदीपिका, जननीनवरत्नमञ्जरी, आत्मोपदेशशतकम्, दर्शनमाला, मुनिचर्यापञ्चकम्, ब्रह्मविद्यापञ्चकम् इत्यादयश्च मुख्याः अस्य कृतयः । धर्मचिन्तकः आदर्शवादी अवशसमाजोद्धारकः समुदायपरिष्कर्ता समदर्शी च गरुदेवः आलुवानामके स्थाने अद्वैताश्रमं स्थापयामास । किञ्च श्रीनारायणधर्मसंघनामकं समाजं चातनोत् । एका जातिः एको धर्मः एकोदेवः सर्वेषामिति मानवानामित्ययं गुरुदेवस्य सिद्धान्तः । विद्यया प्रबुद्ध्यत्वम्, संघटिताः शक्ता भवत, उद्योगेन संपद्यध्वम्, - इत्ययं गुरूपदेशः अधःकृतानामुद्धारणमन्त्रः दिशि दिशि प्रतिध्वनितो बभूव। जातिवर्णभेदध्वंसको धर्मस्थापकश्च श्रीनारायणपरमहंसः आन्त्ररोगेणातुरः बहुमार्गकैः भिषग्भिः चिकित्सितो∫पि स्वास्थ्यं न लेभे । किञ्च कोलम्बाब्दे चतुरधिकैकादशशततमे (११०४) कन्यायां मासि पञ्चमे दिने सः परमं पदं प्रपेदे ।