भरतस्य नाम्ना सह नेह्रू महोदयस्य नाम अविच्छिन्नरूपेण संबद्धः विद्यते । स्वतन्त्रभारतस्य प्रथमः प्रधानमन्त्री आसीत् नेह्रू महोदयाः । विश्वराजनीतेः रङ्गमञ्चे∫पि नेह्रू महोदयस्य स्थानं गौरवमयं भवति ।
प्रयागस्थमीरगञ्जमुहल्लानिवासिनः प्रख्यातनाम्नः वाक्कीलस्य योग्यपितुः श्री मोतीलाल्नेह्रूमहोदयस्यायं योग्यपुत्रः एकोननवत्युत्तरेष्टादशशततमे ईशवीये वर्षे (१८८९) जन्म लेभे । पितुः श्री मोतीलाल् महोदयस्य समृद्धतयास्य बाल्यकालः राजकुमार इव महता प्रमोदेन व्यतीतः । अस्मिन् संस्कृतेथ गुणसम्पन्ने च वातावरणे समुत्पन्नस्य जवहर्लालस्य मनसि बाल्यकालादेव महान्तः संस्काराः पदं चक्रिरे ।
तस्य प्रारम्भिकी शिक्षा गृहे एव वैदेशिकशिक्षाशास्त्रिणां तत्त्वावधाने प्रारभ्यत, येनाल्पेनैव कालेनास्य ज्ञानवृद्धिः जाता। श्री एनीबसन्ट् महाभागायाः सम्पर्केणास्य रुचिः 'थियोसफि'नामनि आध्यात्मिकप्रस्थाने सञ्जाता ।
यदायं पञ्चदशवर्षीयस्तदासौ इङ्गण्डेध्ययनाय पित्रा प्रेषितः । तत्र हैरोस्कुलात् विद्यालयपरीक्षायामुत्तीर्य कैम्ब्रिड्ज् विश्वविद्यालयान्तर्गते ट्रिनिटि महाविद्यालये प्राविशत् । ततः १९१० तमे ईशवीयाब्दे एम्. ए. परीक्षायामुदतरत् । तदनन्तरं स लण्डननगर्यां विधानपरीक्षामपि उत्तीर्य लब्धोपाधिर्भारतं प्रत्ययौ । पितुर्विशालो न्यायव्यवसायस्तस्मै नारोचत । 'भारतजननी विदेशबन्धनैः कथं विमुक्ता भवेदिति' समस्याहर्निशं तस्य शिरोवेदनामकरोत् ।
फलतः महानुभावो∫यं राष्ट्रीयान्दोळने भागं ग्रहीतुमारब्धवान् । गोखलेमहोदयस्य सभापत्ये पाट्नाकांग्रेसाधिवेशने भागं गृहीतवान्। तदानीन्तने 'होम् रूल्' संज्ञके आन्दोलनेप्ययं भागमनयत् तथा भारतीयानां सहायतायै आफ्रिकायां महातेमना गान्धिमहोदयेन प्रवर्तमानमान्दोलनं बलवत्तरं कर्तुं संगृह्यार्धलक्षमितं धनकोषं तत्र प्रेषितवान्, येनास्य प्रभावः नितरामवर्धत ।
राष्ट्रीयान्दोलने भागं गृह्णन्नप्ययं विधिव्यवसायमप्यकरोत् ।किन्तु देशभक्तिवशीकृतहृदयो∫यं विधिव्यवसायं सर्वात्मना कर्तुं नापारयत्, पश्चात्तु स व्यवसायस्त्यक्तो∫पि ।
१९१६ तमे ईशवीयाब्दे श्रीमती कमलादेवी अस्यार्धाङ्गिनीपदमभूषयत् । तस्यैव पाणिग्रहणस्यावसरे∫यं काश्मीरेषु भ्रमणं कृतवान्। अत्रैव वर्षे लख्नऊकांग्रेसावसरे महात्मना गान्धी महोदयेन सहास्य साक्षात्परिचयो जातः । एतदनन्तरं देशे तास्ताः 'जालियन् वाला बाग्' 'मार्शल् ला' प्रभृतयो घटनाः जाताः, याः अस्य गतिविधिं सर्वधा क्रान्तिमयीमकुर्वन् ।
तदैव प्रथममहायुद्धावसरे ब्रिटीश् सर्वकारः 'रौलत् आक्ट्' नाम दमनकारि विधानं भारतीयानां पुरस्तात् प्रास्तौत् । तद्विरोधाय श्री गान्धीमहोदयोसहयोगसत्याग्रहमारभत । तस्मिन् स्वपित्रा सह जवहर्लालोप्यकूर्दत । एवं च वैभवस्यामोदकरं मनोमोहनं चाकर्षणं शाश्वतकालं यावत् परित्यज्य देशस्यायं महान् पुत्रः राष्ट्रसेवायामात्मानं नियोजयामास । मोतीलाल्नेह्रूमहोदयः प्राक् तस्य विचारधारायः प्रबलविरोधी आसीत् । परं कियत्कालानन्तरं सो∫पि पूर्णं सहयोगमददात् । १९२१ तमे ईशवीयाब्दे सम्राट्कुमारस्य स्वागतं विरुन्धन् अयं कारावासदण्डं लब्धवान् । तदनन्तरं त्वयं कारावासमसकृत् प्राप्तम् ।
१९२६ तमे ईशवीयाब्दे रुग्णायाः स्वधर्मपत्न्याः चिकित्सार्थमयं पुनर्विदेशं गतः, यत्र विदेशीयविशेषज्ञैः सहास्य विशेषविमर्शो जातः । अत्रैव यात्रायामयं समाजवाद-नासीवादप्रभृतिविचारधाराणां गम्भीरमध्ययनं कृतवान् ।
अयमेव सर्वप्रथमं १९३० तमे ईशवीयाब्दे जनवर्याः षड्विंशे दिवसे इरावत्यास्तटे लवपुरे स्वातन्त्रस्य महतीं घोषणामकरोत् । स्वतन्त्रतायाश्चिह्नं त्रिवर्णध्वजं तत्र निचखान । १९३२ तमे ईशवीयाब्दे पुनरयं किसान आन्दोलनस्य सम्बन्धे कारावासं भेजे । कारागारस्थितेनानेन 'डिस्कवरी आफ् इण्डिया' प्रभृतीनि स्वीयानि प्रसिद्धानि पुस्तकानि प्रणीतानि। कारावासस्थितस्यैवास्य प्रिया भार्याधिकास्वस्था भूत्वा विदेशं गता, यत्र सा पतिसाहचर्यं प्राप्याल्पेनैव कालेन मृता ।
१९४२ तमे ईशवीयब्दे भारतत्यागान्दोलनेप्ययं प्रधानतमो योद्धा आसीत् । कारावासस्थितो∫यं स्वाध्यायलेखनयोः समयमनैषीत् । तत्रैव प्रणीताः 'विश्वेतिहासदर्शनम्', 'आत्मकथा' प्रभृति ग्रन्थाः महान्तं रचयितारमेनं विश्वलेखकरूपेण प्रतिष्ठापितवन्तः । एवं स्वातन्त्र्यानन्तरं भारतस्य प्रथं प्रधानमन्त्रिपदेप्ययम् आरूढितवान् ।