roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Wednesday, October 5, 2011

महच्चरितमाला ३. - भगत्सिंहः

डो. विजय् कुमार् एम्
भगत्सिंहः


भरतस्य स्वातन्त्र्यसमरनायकेषु बहवः सेनान्यो येन केनापि हेतुना मृता वा मारिता वा अभवन् । तथा भारतस्वातन्त्र्याय नीतसमरेषु वीरपुरुषेषु अत एवाङ्गलाधिकृतैर्मारितेषु प्रथमगणनीयः आसीद् भगत्सिंहः । ''विप्लवो विजयताम्'' इति मुद्रावाक्यमपि प्रथमतः भारते भगत्सिंहेनैव उच्चारितम् ।

भगत्सिंहः सप्ताधिकैकोनविंशतिशततमे (१९०७) क्रिस्त्वब्दे पञ्चाबदेशे समजायत । अस्य पिता तु राष्ट्रीयवृत्तिः आसीत् । माता विद्यावती च । पुत्रस्य जन्मवेलायां पिता कृष्णसिंहः कारायां बद्धः आसीत् । भगत्सिंहः बाल्ये कृशः शान्तश्चासीत् ।

आडंबरविमुखोयं बालः आर्यसमाजस्य पाठशालायां ततो लाहोरस्थायां राष्ट्रीयमहाविद्याशालायां च क्रमशः अपठत् । असौ पञ्चदशवर्षदेशीयः एव आङ्गलेभ्यो मातृभूमिं रक्षितुम् ऐच्छत् । स विविधदेशसंबन्धिनः क्रान्तिसाहित्यप्रातिपदिकान् ग्रन्थान् सञ्चित्य पठन् क्रमेण कश्चित् महान् विप्लवकारी समपद्यत । राष्ट्रीयप्रस्थानात्पुत्रं निवर्तयितुकामः पिता बहुधा कृतप्रयत्नोपि कृतार्थतां नाप ।

स्वातन्त्र्यसमरप्रयुक्तानां यूनां कापि सभा षड्विंशत्यैकोनविंशतिशततमे (१९२६) क्रिस्त्वब्दे काण्पूरदेशे प्रावर्तत । तत्र युवभिः भगत्सिंहो नेतृत्वेन अङ्गीकृतः । स विविधेषु जनपदेषु प्रवर्तमानान् आङ्गलविरोधिनः संयोज्य स्वीयां प्रतिरोधशक्तिं पुपोष । एतस्मिन्नवसरे चन्द्रशेखरआसादादिभिः विप्लवकारिभिः सह मैत्रीं च बबन्ध । भारतसमाजवादिगणतन्त्रसभा इति कस्याश्चन परिषदः आविर्भावोपि विप्लवकारिणां बलं पोषयामास ।

अथ पञ्चाबदेशे भगत्सिंहः कैश्चित्तरुणैः साकं नवयुवकभारतसभाम् अतनोत् । आङ्गलानभियोद्धुमायुधं ग्रहीतुमपि सभैषा निश्चिकाय । भगत्सिंहस्य प्रभाषणनैपुण्यम्, असाधारणी त्यागशीलता च जनानाचकर्ष । सैमण् कम्मीषन् नामकाङ्गलसङ्घम् अभियोद्धुकामानां जनानां नेता लाला लज्पत् रायी नामकः रक्षिपुरुषाणां ताडनेन मृतः । सान्डेसन् नामको मर्दननिर्देशकः रक्षिपुरुषनायकः भगत्सिंहेन तदैव प्रत्यभिज्ञातः पश्चान्नालिकाशस्त्रेणैव निहतः । आङ्गलाधिकृताः भगत्सिंहादीन् विप्लवकारिणः वैतानिकांश्च जनान् युगपत् पीडयितुं बम्भ्रम्यमाणरक्षिदलं कमपि सेवननियमं च आविश्चक्रुः । केन्द्रीयनियमनिर्माणसभायां नियमाङ्गीकारसमय एव बोम्बस्फोटनं सञ्जातं, प्रसारिता च काचिल्लघुलेखा उद्घुष्टं च ''विप्लवो विजयताम्'' इति मुद्रावाक्यम्

तदानीमेवापराद्धत्वेन गृहीतो भगत्सिंहः कारायां निक्षिप्तः । व्यवहारानन्तरं प्रड्विवाकेनासौ आयुःपर्यन्तं द्वीपान्तरवासाय दण्डनं लब्धः । व्यवहारे च अन्यस्मिन्नयं मृत्युदण्डमेव प्रापितः । एवं एकोनत्रिंशदधिकैकोनविंशतिशततमे (१९३१) क्रिस्त्वब्दे मार्च् मासि त्रयोविंशे दिने भगत्सिंहः आङ्गलाधिकृतैः उद्बन्धनेन मारितः । कथेयं भारतीयानां हृदयं सदा पर्याकुलयत्येव ।

भगत्सिंहमधिकृत्य कृताः वीरगाथातल्लजाः उत्तरभारतग्रामान् नगराणि च अद्यापि मुखरयन्ति ।

भगत्सिंहस्य मरणानन्तरं प्रसिद्धीकृतम् वृत्तान्तपत्रम्

(प्राचीनपाठपुस्तकादुद्धृतोयं गद्यांशः)