roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Saturday, October 15, 2011

दिशानिर्णयः - जियोजिब्राद्वारा

डो. विजय् कुमार् एम्.

वर्गे ऐ. सि. टि साध्यतायाः उपयोगः सम्यक् कर्तुं शक्यः पाठभागः भवति दिशानिर्णयः । प्रथमं तावत् जियोजिब्रा नाम गणितजालकं उन्मीलयितव्यम् । तदर्थं मार्गः एवं भवति - Applications – education – Geogebra. एवं कृते सति अधो दत्तं जालकं उन्मीलितं भवेत् -











अस्मिन् जालके अधोनिर्दिष्टे षष्ठोपजालके क्लिक् करणीयम् ।










तदा बहवः निर्देशाः अधोधः आगच्छेत्। तेषु
circle with centre radious इति निर्देशे क्लिक् कर्तव्यम् । तदनन्तरं कार्यपत्रे (work sheet) यत्रकुत्रापि क्लिक् कर्तव्यम् । तदानीं अधोनिर्दिष्टं समादेशपेटकं (command box) आगच्छेत् ।











तस्मिन् वृत्तस्य आरं कियन्मात्रमावश्यकम् इति टंकयतु यदि इति निर्देशः दीयते तर्हि एतादृशमेकं वृत्तं द्रष्टुं शक्यते।










तस्मिन् वृत्ते प्राह्नान्तापराह्नान्तयोः संभूतं बिन्दुद्वयं आरचयेत् । तदर्थं द्वितीयोपजालकस्थ
new point इत्यस्मिन् क्लिक् करणीयम् । अनन्तरं बिन्दुद्वयस्य अङ्कनं कुर्यात् (B, C)। यथा -










तदनन्तरं द्वितीयदिनस्थबिन्द्वोः अपि अङ्कनं कुर्यात्
(D)। पुनः प्राह्नान्ते लब्धम् अङ्कनद्वयं त्रिधा विभक्तव्यम् । तदर्थं तयोः मध्ये बिन्दुद्वयं (E, F) अङ्कनीयम् ।










एवं भूतेषु त्रिषु भागेषु यः प्रथमदिनबिन्दोः समीपमागच्छति तं प्रथमदिनापराह्नबिन्दुना सह योजयित्वा रेखां विरचयेत् । तदर्थं
line through two points इति तृतीयोपजालकस्य उन्मीलनं कर्तव्यम् । तस्मिन् वर्तमाने line through two points इति निर्देशे क्लिक् कर्तव्यम् । एवं कृत्वा मूषिकं C इति बिन्दौ स्थापयित्वा क्लिक् कर्तव्यम् । तदा एका रेखा जायेत । तां रेखां D इति बिन्दौ स्थापयित्वा क्लिक् कर्तव्यम्। तदा एषा रेखा स्थिरा भवति । सा रेखा पूर्वपश्चिमरेखा भवति ।










पुनः पूर्वपश्चिमरेखायां यत्र कुत्रापि पूर्वोक्त
circle with centre radious इति निर्देशेन वृत्तद्वयम् आलेखनीयम् (G, H) वृत्तद्वयस्य (ते स्थूलः सूक्ष्मः वा भवतु परस्परं खण्डनीयौ) निर्माणानन्तरं तयोः मध्यभागे मत्स्याकृतिः जायेत ।










तस्मिन् वृत्तद्वयं यत्र यत्र सम्मिलति तत्र तत्र अङ्कनं (I, J) कर्तव्यम् ।










तदनन्तरं पूर्ववत् line through two points इति तृतीयोपजालकस्य उद्घाटनं कृत्वा तस्मिन् वर्तमाने line through two pointsइति निर्देशे क्लिक् कर्तव्यम् । तदनन्तरं मूषिकं I इति बिन्दौ स्थापयित्वा क्लिक् कृत्वा पुनः J इति बिन्दौ क्लिक् कर्तव्यम् ।










एवं समुद्भूता रेखा दक्षिणोत्तरा भवति।