roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Friday, October 28, 2011

पम्पानदी - संस्कृतह्रस्वचित्रम्

निर्माणम्

डि. . एम्. यु. पि. एस्. काञ्ञिरप्पळ्ळी

आमुखम्, अन्तर्जालोपारोपणञ्च

डो. विजय् कुमार् एम्.

केरलेषु स्यन्दमाना पुण्यपुरातनी नदी भवति पम्पा । इटुक्कि जिल्लायां वर्तमानात् पीरुमेट् इति स्थानात् उद्भूतानि त्रीणि जलस्रोतांसि मिलित्वा नदीयं संभवति । अनेकैः पोषकनदीभिः युक्ता इयं प्रतीच्यां दिशं प्रति प्रसृता सति बहुभिः शाखाभिः पृथक्कृता भवति । तासु प्रधाना शाखा कुट्टनाट् प्रदेशात् उत्तरस्यां दिशं प्रति प्रस्थिता सति वेम्पनाट्ट् इति प्रसिद्धे अम्बुचत्वरे (तटाके) लीयते। पम्पायाः बहुभिः शाखाभिः युक्ता भवति 'केरलस्य नेल्लरा' इति प्रसिद्धः कुट्टनाट् देशः । शबरिगिरेः अधित्यकां परिवृत्य स्यन्दमानायाः अस्याः तीरे बहूनि शास्ताक्षेत्राणि सन्ति । नदीयं पापनाशिनी इत्यपि प्रथिता भवति । हैन्दवधर्मानुसारिणां पुण्यनदी भवति इयम् । सीतामन्विष्य प्रस्थितयोः रामलक्ष्मणयोः आतिथ्यं कृतवत्याः शबर्याः आश्रमः अस्याः तीरे आसीदिति प्रसिद्धिः । प्रतिवर्षं शबरिगिरीशं वन्दितुं प्रस्थिताः अनेककोटिभक्ताः अस्यां नद्यां स्नात्वा एव दर्शनं कुर्वन्ति ।

कोट्टयम् जिल्लायां काञ्ञिरप्पळ्ळि देशे वर्तमान मुट्टप्पळ्ळि डि. . एम्. यु. पि. एस् छात्रैः अध्यापकैः च पम्पानदीमधिकृत्य निर्मितं ह्रस्वचित्रं अत्र आस्वादकानां संस्कृतपिपठिषूणां च पुरतः दीयते । पम्पायाः सौन्दर्यं, तस्याः निर्मलता, तस्याः तटे वर्तमानानि देवालयानि, मतसम्मेलनानि, भूप्रकृतयः इत्यादीनां सर्वेषामास्वादनाय अनुवाचकान् सादरं आमन्त्रयामि । अस्य ह्रस्वचित्रस्य निर्माणार्थं प्रयत्नं कृतवद्भ्यः डि. . एम्. यु. पि. एस् अध्यापकेभ्यः छात्रेभ्यश्च संस्कृतलोकस्य सादरधन्यवादाः ।

प्रथमो भागः

द्वितीयो भागः

तृतीयो भागः

चतुर्थो भागः

पञ्चमो भागः


षष्ठो भागः



सप्तमो भागः



अष्टमो भागः



नवमो भागः

Monday, October 24, 2011

संस्थाः ध्येयवाक्यानि च

डो. विजय् कुमार् एम्
भारतीयवायुसेनायाः ध्येयवाक्यं भवति नभः स्पृशं दीप्तम् इति भगवद्गीतायां एकादशेध्याये चतुर्विंशतितमाच्छ्लोकाद् उद्धृतमिदं वाक्यम् द्युः स्पर्शं प्रज्वलितम् इत्यर्थः





बृहदारण्यकोपनिषदि वर्तमानः मन्त्रः भवति असतो मा सद्गमय (. . २८) इति । सि. बि. एस्. सि. संस्थायाः ध्येयवाक्यं भवति अयं मन्त्रः।




तैत्तिरीयोपनिषदि
वर्तमानः मन्त्रः भवति शं नो वरुण
(, , ) इति वरुणः अस्मभ्यं मङ्गलं प्रददातु इत्यर्थः


भारतीयजीवन्बीमानिगमस्य ध्येयवाक्यं भवति योगक्षेमं वहाम्यहम् इत्येतत् । भगवद्गीतायां नवमेध्याये द्वाविंशतितमे श्लोके वर्तते योगक्षेमं वहाम्यहं इति वचनम् । भगवद्भक्तानां योगक्षेमं भगवानेव करोति इति श्लोकस्यार्थः ।






सत्यमेव जयते इति मन्त्रः मुण्डकोपनिषदि तृतीयाध्यये प्रथमखण्डे वर्तते (. . )।सत्यस्य महिमा एव अनेन प्रस्तूयते ।







Saturday, October 15, 2011

दिशानिर्णयः - जियोजिब्राद्वारा

डो. विजय् कुमार् एम्.

वर्गे ऐ. सि. टि साध्यतायाः उपयोगः सम्यक् कर्तुं शक्यः पाठभागः भवति दिशानिर्णयः । प्रथमं तावत् जियोजिब्रा नाम गणितजालकं उन्मीलयितव्यम् । तदर्थं मार्गः एवं भवति - Applications – education – Geogebra. एवं कृते सति अधो दत्तं जालकं उन्मीलितं भवेत् -











अस्मिन् जालके अधोनिर्दिष्टे षष्ठोपजालके क्लिक् करणीयम् ।










तदा बहवः निर्देशाः अधोधः आगच्छेत्। तेषु
circle with centre radious इति निर्देशे क्लिक् कर्तव्यम् । तदनन्तरं कार्यपत्रे (work sheet) यत्रकुत्रापि क्लिक् कर्तव्यम् । तदानीं अधोनिर्दिष्टं समादेशपेटकं (command box) आगच्छेत् ।











तस्मिन् वृत्तस्य आरं कियन्मात्रमावश्यकम् इति टंकयतु यदि इति निर्देशः दीयते तर्हि एतादृशमेकं वृत्तं द्रष्टुं शक्यते।

चाक्यार्कूत्त् - अवतरणशैली

डो. विजय् कुमार् एम्.

चाक्यार्कूत्त् कलारुपे चाक्यारः संस्कृतश्लोकानामर्थं सरसया रीत्या कैरल्यां विवृणोति । तत्तु न केवलं अन्वयार्थप्रकाशनमेव अथवा वाच्यार्थप्रकाशनमेव अपि तु विस्तृतया, ललितया, सुव्यक्ततया च रीत्या कथाकथनमेव । चाक्यारेण वक्ष्यमाणानि कथासन्दर्भानि अस्माकं पुरतः एव संभूयते इति प्रतीतिम् इदं कलारूपं जनयति ।अत्र मेल्पुत्तूर् नारायणभट्टपादविरचितात् कौन्तेयाष्टकम् अथवा पात्रचरितं नामक प्रबन्धात् उद्धृतः प्रथमः श्लोकः उदाहरणत्वेन दीयते ।
എങ്കിലോ പണ്ട് ഭക്തവത്സലനായിരിക്കുന്ന ഭഗവാന്‍ ശ്രീകൃഷ്ണന്റെ പരമഭക്തന്മാരായിരിക്കുന്ന പാണ്ഡവന്മാര്‍ കള്ളച്ചൂതില്‍ പരാജിതന്മാരായി വനവാസത്തിനായിക്കൊണ്ടു പുറപ്പെട്ട സമയത്ത് ഒരുമിച്ചു പുറപ്പെട്ടിരിക്കുന്ന സ്നാതകബ്രാഹ്മണന്മാരോടും ഋഷീശ്വരന്മാരോടുംകൂടെ പുറപ്പെട്ട് വനപ്രദേശത്തില്‍ സഞ്ചരിക്കുന്ന സമയത്ത് ധര്‍മപുത്രര് ഒരുമിച്ചുപോന്നിരിക്കുന്ന ബ്രാഹ്മണന്മാര് ക്ഷുത്പിപാസാര്‍ദ്ദിതന്മാരായി കണ്ട സമയത്തിങ്കല്‍ ആദിത്യനെ സേവിച്ച സമയത്തിങ്കല്‍ ആദിത്യന്‍ പ്രസാദിച്ചുകൊടുത്തിരിക്കുന്ന അദ്ഭുതപാത്രത്തില്‍നിന്ന് അദ്ഭുതങ്ങളായിരിക്കുന്ന അദ്ഭുതപാദാര്‍ഥങ്ങളെ അനുഭവിച്ച് സുഖമായിട്ടധിവസിക്കുന്ന കാലത്ത് ഹസ്തിനപുരിയില്‍ ദുര്യോധനന്റെ അവസ്ഥയാകട്ടെ -

കൌന്തേയാനവബുദ്ധ്യ സിദ്ധ്യദശനോപായാന്‍ കുരൂണാം പതിഃ
ശ്രീദുര്‍വാസസമേകദാ കുടിലധീരാമന്ത്ര്യ നാഗാഹ്വയേ.
ശിഷ്യാണാമയുതേന സാര്‍ദ്ധമധികപ്രാജ്യൈഃ സഭോജ്യാദിഭിഃ
പൂജ്യം തം സമഭീഭവത് സ ച മുനിസ്തുഷ്ടോ വരം പൃഷ്ടവാന്‍.

കുടിലധീഃ കുരൂണാം പതിഃ - കുടിലധീയായിരിക്കുന്ന കുരുക്കളുടെ പതിയാകട്ടെ, മഹാരാജാവ് ദുര്യോധനനാകട്ടെ, കൌന്തേയാന്‍ സിദ്ധ്യദശനോപായാന്‍ അവബുദ്ധ്യ – കൌന്തേയന്മാരെ സിദ്ധ്യത്തായിരിക്കുന്ന അശനോപായന്മാരായിട്ട് അറിഞ്ഞു. ഈ പാണ്ഡവന്മാര് വനവാസത്തിന് പോയതിനുശേഷം അവരുടെ പരമാര്‍ഥം അറിയുവാന്‍ ചാരന്മാരെ അയച്ച് അവര്‍പറഞ്ഞറിഞ്ഞു - പാണ്ഡവന്മാര്‍ വനപ്രദേശത്തില്‍ ചെന്നതിനുശേഷം ധര്‍മപുത്രര് ആദിത്യനെ സേവിച്ചു. ആദിത്യന്‍ പ്രസാദിച്ച് ഒരു പാത്രം കൊടുത്തു. അതില്‍നിന്ന് ഭക്ഷണസാധനങ്ങള്‍ എന്നുതന്നെയല്ല എന്തുസാധനം വേണമെങ്കിലും ലഭിക്കും. പാഞ്ചാലിയുടെ ഭക്ഷണം കഴിഞ്ഞാല്‍ പിന്നെ അന്ന് ഒന്നുമുണ്ടാവുകയില്ല എന്ന് ആദിത്യന്‍ അനുഗ്രഹിച്ചപ്പോള്‍ തന്നെ പറഞ്ഞിട്ടുണ്ടെന്നും ചാരന്മാര്‍ വഴി അറിഞ്ഞു. എന്നിട്ടും വിശ്വാസം വരാഞ്ഞ് അഗ്രശാലയില്‍ ചെന്ന് അവിടെ കൂടിയിരിക്കുന്ന ബ്രാഹ്മണന്മാരില്‍നിന്നും അറിഞ്ഞപ്പോള്‍ അത് നശിപ്പിക്കുവാന്‍ എന്താണ് മാര്‍ഗ്ഗമെന്നാലോചിച്ച് ശകുനിയുടെ സമീപത്തില്‍ ചെന്നു.

Friday, October 14, 2011

महच्चरितमाला १०. - शङ्कराचार्यः


औपनिषदधर्मस्य महत्वं संस्थापयितुं भारतीयसंस्कृतिं परिपोषयितुं च ज्ञनप्रदीपं प्रोज्वलयन् कश्चित् महानुभावः केरलदेशे कालटिग्रामे जनिमलभत । स एव दार्शनिकः जगद्गुरुः आदिशङ्करः ।
कर्मबहुले द्वात्रिंशद्वर्षपरिमिते स्वजीविते आसेतुहिमाचलं पद्भ्यामेव चरन् सः औपनिषदं धर्मं प्रचारयामास । गुरोः जीवितकालमधिकृत्य विभिन्नाः अभिप्रायाः वर्तन्ते । तथापि सोयं जगद्गुरुः क्रिस्तोः परं अष्टाशीत्यधिकसप्तशततमवर्षादारभ्य विंशत्यधिकाष्टशततमपर्यन्तं (७८०-८२०) जीवितं निनायेति इतिहासविदः वदन्ति ।
बाल्ये एव अनितरसाधारणीं धिषणां शास्त्रग्रहणनैपुणीं च प्रदर्शितवानयं बालः अष्टवर्षवयाः एव वेदवेदाङ्गपारङ्गतोभूत् । मातुरनुमत्या संन्यासं स्वीकृत्य प्रस्थितः शङ्करोयं नर्मदानदीतीरे गोविन्दगुरोः शिष्यत्वमलभत। तस्य अनुपमं बुद्धिवैभवं प्रत्यभिज्ञाय आचार्यः तं प्रस्थानत्रयस्य (ब्रह्मसूत्रम्, भगवद्गीता, उपनिषद्)भाष्यविरचनाय न्ययुङ्क्त।
ज्ञानवृद्धोयं बालसन्यासी वाराणस्यां आचार्यपदवीमविन्दत । सः षड्दर्शनेषु उत्तरमीमांसान्तर्गतं अद्वैतमेव मुख्यमिति व्यवस्थापयामास । पूर्वमीमांसकं मण्डनमिश्रं वादे विजित्य जगद्गुरुः इति प्रथामविन्दत । तं च सुरेश्वरनाम्ना स्वशिष्यं चाकरोत् । सर्वशास्त्रपारङ्गतः साहित्यरसिकश्चायं जगद्गुरुः पण्डितराजः, कविकुलचूडामणिः इति च गीयते । आचार्यरचिताः ग्रन्थाः भाष्यम् - प्रकरणम् - स्तोत्रम् इति त्रिधा विभक्ताः ।

महच्चरितमाला ९. - महाकवि वळ्ळत्तोळ्


कैरळीसाहित्यमण्डले आधुनिककवित्रयं इति प्रथिता भवन्ति उळ्ळूर्, आशान्, वळ्ळत्तोळ् महाभागाः । तेषु अन्यतमः स्वातन्त्र्यसमरसेनानीः सांस्कारिकनायकश्चासीत् महाकविः वळ्ळत्तोळ् नारायणमेनोन् महाशयाः ।सः पोन्नानी समीपस्थे चेन्नरग्रामे साहितीसपर्यापरे वळ्ळत्तोळ् गृहे १८७८ तमे क्रिस्त्वब्दे लब्धजन्माभूत्। मल्लिश्शेरि दामोदरन् इळयत् तथा कोण्टयूर् कुट्टिप्पारु अम्मा च तस्य पितरौ । संस्कृतपण्डितात् स्वमातुलादेव सः प्राथमिकशिक्षां अधिगतवान् । तर्कशास्त्रे पण्डितवरेण्यः कैक्कुळङ्ङर रामवार्यर् तथा पारक्कुळं सुब्रह्मण्यशास्त्री च तस्य गुरवौ ।
द्वादशे वयसि एव किरातशतकं नाम कश्चन मणिप्रवाळग्रन्थः अनेन विरचितः । महाकविना कुञ्ञिक्कुट्टन् तम्पुरान् महाभागेन सह परिचयमधिगतवान् सः त्रिश्शिवपुरे मङ्गलोदयं मासिक्याः प्रवर्तकः अभवत् । तत्रैव वसन् वाल्मीकिरामायणं कैरळ्यां अनूदितवान् । अस्मिन्नवसरे हन्त ! सः महानुभावः बधिरः सञ्जातः । अस्य बधिरविलापम् इति काव्यं स्वानुभवप्रतिपादकम् अतिरमणीयं च भवति। अनेकान् संस्कृतग्रन्थतल्लजानपि अनूदितवानयम् ।

Thursday, October 13, 2011

केरलीयकलारूपाणि ११. - कलरिप्पयट्ट्

आयोधनप्रधानं कलारूपं भवति कलरिप्पयट्ट् अस्य अनुष्ठानेन मानसिकं शारीरिकं आरोग्यं वर्धयितुं शक्यते खळूरि इति संस्कृतपदस्य तद्भवं भवति कलरि इति कलरिप्पयट्ट् एकं प्राचीनं तथा प्रसिद्धं आयोधनकलारूपं भवति अस्यां पद्धत्याम् ईषद्विशेषेण विविधाः विभागाः दृश्यन्ते कालीस्तवरूपेषु कालिप्पाट्ट् गानेषु कलरिकलारूपाण्यधिकृत्य सूचनाः उपलभ्यन्ते कलरिप्पयट्ट् केवलं आयोधनप्रधानम् अपि तु कलाप्रधानं अस्याः कलायाः प्रभावः कोल्कलि, पूरक्कलि इत्येवमादिषु कलारूपेषु अपि द्रष्टुं शक्यते अस्याः कलायाः प्राधान्यं सर्वैरङ्गीक्रियते

केरलीयकलारूपाणि १०. - मार्गंकली

केरलेषु सुरियानिविभागस्थानां क्रैस्तवानां मध्ये प्रचुरप्रचारमाप्तं नृत्तरूपं भवति मार्गं कली । क्रिस्तोः मार्गस्य (क्रिस्तुधर्मस्य) प्राचारणाय भारतमागतस्य तोमाश्लाहामहाभागस्य भारतप्रवेशः प्रवर्तनानि चात्र प्रस्तूयन्ते । प्रज्वलितं दीपं परितः मण्डलाकारेण स्थित्वा द्वादशस्त्रियः पुरुषाः वा गानपुरस्सरं नृत्यन्ति । स्त्रीपुरुषाः तस्मिन्नवसरे क्रैस्तवानां परम्परागतवेषं धरन्ति च ।


केरलीयकलारूपाणि ९. - कैकोट्टिक्कली

केरलस्त्रीणां मध्ये प्रचलितं प्राचीनं नृत्तरूपं भवति कैकोट्टिक्कली । अङ्कणे स्त्रियः भद्रदीपं परितः मण्डलाकारेण स्थित्वा पुराणकथापात्राण्यधिकृत्य रचितानि गानानि आलपन्त्यः सहस्तताडनं नृत्यन्ति। प्रथमं गणपतेः सरस्वत्याश्च स्तोत्राणि आलपन्ति। ततः अन्यानि गानानि च । कुम्मि अपि प्रस्तावमर्हति । इरयिम्मन् तम्पि महाशयेन रचितं 'वीर वीराट कुमार विभो' इति पदं अस्मिन् कलारूपे उपयुज्यमानं सुप्रसिद्धं भवति ।


केरलीयकलारूपाणि ८. - मोहिनियाट्टम्

केरलेषु पुरातनकालादारभ्य मोहिनियाट्टनामकस्य नृत्तविशेषस्य प्राचुर्यं दृश्यते पूर्वकाले देवालयेषु प्रचालितं दासियाट्टमपिमोहिनियाट्टस्य प्रकारभेद इति श्रूयते अस्मिन् नर्तकी पदानामर्थान् भावस्फुरणैः हस्तमुद्राभिः विशदीकृत्य अभिनयपूर्वंनृत्यति इदानीन्तनकालेपि मोहिनियाट्टस्य प्राचुर्यं दृश्यते समीपकालं यावत् मोहिन्याट्टे केवलं श्रृङ्गारस्य भक्तिरसस्य प्रामुख्यमासीत् किन्त्वधुना नवरसानामपि प्रामुख्यं वर्तते

वञ्चिराजवंशे १८१३ तमे वर्षे जातः गर्भश्रीमानिति प्रसिद्धिमाप्तः स्वातिमहाराजः अस्याः कलायाः प्रचारणविषये तत्परःआसीत् तेन विरचितानि पदानि मोहिनियाट्टवेदिकासु मुखरिताः वर्तन्ते महाकविः वल्लत्तोळ्, कलामण्डलंकल्याणिक्कुट्टियम्मा अस्य कलारूपस्य आधुनिकपरिष्कर्तारौ भवतः

केरलीयकलारूपाणि ७. - पूरक्कलि

उत्तरकेरले प्रचुरप्रचारमाप्तं कलारूपं भवति पूरक्कलिः । तस्मिन् इष्टदेवतावन्दनं, दीपवन्दनं, च प्रचलन्ति । विविधजातिस्थानां, जनानां पूरक्कलिमध्ये स्थानमस्ति । रम्भादिभिः देवकन्यकाभिः देवलोके, अहल्यादिपञ्चकन्याभिः भूमौ, भूदेव्यादिभिः षड्भिः नारीभिः पाताललोके च कृतायाः वसन्तपूजायाः मधुरमङ्गलस्मरणमेव पूरक्कली इत्यस्य प्रामाण्यमिति केचिद्वदन्ति । पुरुषाणामायोधनकलापाटवं प्रदर्शयितुमपि अत्र अवसरः अस्ति ।

मानसोल्लासद्वारा बुद्धिविकासं जनयति पूरक्कलिः । सरागालापनैः सतालनर्तनैश्च इयं कला प्रेक्षकान् नितरां रञ्जयति । पूरक्कलिः अनुष्ठानपरा नृत्यप्रधाना च भवति ।कलारूपोयं उत्तरकेरलेषु 'काव्' इति भगतीमन्दिरेषु प्रदर्श्यते ।इदानीं युवजनोत्सववद्यामपि अविभायज्यघटकत्वेन इदं कलारूपं अवतार्यते ।

केरलीयकलारूपाणि ६. - कथाकेलिः

डो. विजय् कुमार् एम्.

देशे विदेशे च प्रसिद्धिमाप्ता कथाकेलिः केरलीयदृश्यकलाविशेषाणां मकुटायमाना विराजते । तौर्यत्रिकस्य सामञ्जस्यं मेलनमत्र दृश्यते । चेण्टा, मद्दलम्, इलत्तालम्, इटय्क्का, चेङ्ङिला, इत्यादयः वाद्यविशेषाः कथाकेल्याः अवतरणसमये उपयुज्यन्ते ।

अस्य कलारूपस्य परिष्कर्ता आसीत् वेट्टत्तु तम्पुरान् । कोट्टयत्तु तम्पुरान् महाभागोपि अस्याः कलायाः परिष्करणे बद्धश्रद्धः आसीत्। क्रिस्तोः परं सप्तदशे शतके कोट्टारक्करतम्पुरान् महाशयेन प्रारब्धं रामनाट्टमेव अस्य कलारूपस्य प्राग्रूपमिति पण्डिताः वदन्ति ।

कथाकेल्याः साहित्यम् आट्टक्कथा इति व्यवह्रियते कैरल्याम्। तत्र कथासन्दर्भाः श्लोकरूपेण सम्भाषणानि पदरूपेण कथांशसङ्ग्रहः दण्डकरूपेण च निबद्धाः दृश्यन्ते। मुख्यगायकः पोन्नानि इति अनुगायकः शिङ्किटी इति च व्यवह्रियते। गानानुसारं पदानामर्थान् मुद्राभिः, रसान् मुखोपाङ्गचलनैश्च आविष्करोति नटः ।

कथापात्राणां स्वभावानुसारमेव आहार्यता निर्णीता । तत्र पच्चा, कत्ति, ताटि, करि, मिनुक्क्, इत्येवमादयः, आहार्यविशेषाः स्वीकृताः सन्ति। तेषामपि पात्रानुसारं वैविध्यमस्ति । मुद्राणां हस्तलक्षणदीपिकायां निर्दिष्टाः आधारमुद्राः एव अवलम्ब्यन्ते। उण्णायिवार्यर्, कोट्टयत्तु तम्पुरान्, कोट्टारक्कर तम्पुरान्, इरयिम्मन् तम्पि इत्येवमादयः महात्मानः आट्टक्कथारचनायां प्रसिद्धाः। वैदेशिकाः अपि कलारूपस्यास्य पठने प्रचारे च सोत्सुकाः दृश्यन्ते ।

कथाकेल्याः वटक्कन् चिट्टा तेक्कन् चिट्टा इति प्रकारद्वयं वर्तते । तत्र वटक्कन् चिट्टा इत्यस्य कल्लटिक्कोटन् सम्प्रदायः इति तेक्कन् चिट्टा इत्यस्य कप्लिङ्ङाटन् सम्प्रदायः इति च नामान्तरम् ।

कथाकेल्यां प्राधान्येन () केली, () अरङ्ङुकेली, () तोटयम्, () वन्दनश्लोकः, () पुरप्पाट्, () मेळप्पदम्, () कथाभिनयम्, () धनाशि च सन्ति । कथाभिनयस्य चोल्लियाट्ट्म्, इळकियीट्टम् इति प्रकारद्वयमस्ति। गायकस्य गानक्रमानुसारं नटः प्रतिपदं मुद्राभिः अभिनयं करोति । अयं अभिनयप्रकारः चोल्लियाट्टम् इति कथ्यते । ततः पूर्वं, परं वा नटः स्वमनोधर्मानुसारम् अभिनयति । अस्यैव इळकियाट्टम् इति नाम ।

चतुर्विधाः अभिनयप्रकाराः सन्ति । आङ्गिकम्, वाचिकम्, आहार्यम्, सात्विकम् इति । अभिनयदर्पणे एवमुक्तं भवति -

यतो हस्तस्ततो दृष्टिः यतो दृष्टिस्ततो मनः ।

यतो मनस्ततो भावो यतो भावस्ततो रसः ।।

श्रृङ्गारः, करुणः, वीरः, रौद्रः, हासः, भयानकः, बीभत्सः, अद्भुतः, शान्तः, चेति नवरसाः भवन्ति । एषां रसानां स्थायिभावाः रतिः शोकः, उत्साहः, क्रोधः, हास्यं, भयं, जुगुप्सा, विस्मयः, निर्वेदः च भवन्ति । नवरसेषु श्रृङ्गारः रसराजः इति कीर्त्यते।

कथाकेल्यां धीरोदात्तनायकानामेव 'पच्च' इति वेषविशेषः कल्पितः (यथा नलः, अर्जुनः....) । रजोगुणयुक्तानां नायकानां 'कत्ति' (यथा रावणः, दुर्योधनः....),। तमोगुणप्रधानानामसुराणां मनुष्याणां च 'ताटि' (यथा बकः, दुःश्शासनः....) किरातानां 'करि' च । मुनीनां स्त्रीणाञ्च 'मिनुक्क्' च कल्पितः। इमे वेषप्रकाराः पूर्णतया परिपाल्यन्ते । 'कत्ति' इत्यस्य कथापात्राणां 'कुरुंकत्ति', 'नेटुंकत्ति' इति प्रकारभेदौ वर्तते। 'ताटि' इत्यस्य 'वेळुत्तताटि' (हनूमान्), 'करुत्तताटि' (कलिः), 'चुवन्नताटि' (दुश्शासनः) इति विभागत्रयं वर्तते । एवं 'करि' इत्यस्यापि भेदद्वयमस्ति । पुरुषाणां कृते स्त्रियः कृते च (यथा किरातः, शूर्पणखा च) ।नारदवसिष्ठादीनां मुनीनां महर्षिकेशः, चिबुकं च उपयुज्यते । स्त्रीकथापात्राणां 'मिनुक्क्' 'मण्णान्', भीरुः, विद्युज्जिह्वः, इत्यादि विलक्षणकथापात्राणि कथाकेल्याः आहार्यवैचित्र्यतां प्रस्फुटयन्ति ।

केरलीयकलारूपणि ५. - कूटियाट्टम्


कूटियाट्टम् नामकं कलारूपं संस्कृतनाटकाभिनयस्य प्रकारभेदः एव । चाक्यारः, नङ्ङ्यार् च कथापात्राणां वेषं धृत्वा सभामध्ये नाटकाभिनयं कुरुतः इत्यतः अस्य कूटियाट्टम् इति नाम कैरल्यां समजनि इति केचिद्वदन्ति। मिलित्वा (കൂടി) नटनं (ആട്ടം) भवति कूटियाट्टम् इत्यर्थः । सात्विकः, आङ्गिकः, वाचिकः, आहार्यः इति चतुर्विधानामभिनयानां मेलनेन कूटियाट्टमिति व्यवहारः इति अन्ये वदन्ति। मिषाव्, तालम्, इटय्क्का, शङ्घः, कोम्प्, कुषल् इत्यादयः वाद्यविशेषाः अस्मिन् तालप्रघोषणाय प्रयुज्यन्ते । कुलशेखरवर्मणः कालादारभ्य प्रचुरप्रचारमाप्तमिदं कलारूपं इदानीं युवजनोत्सववेदिकास्वपि द्रष्टुं शक्यते।

केरलीयकलारूपाणि ४. - पाठकम्

डो. विजय् कुमार् एम्.

चाक्यार्कूत्त् नामकस्य कलारूस्य संवादरूपोयं (അനുകരണം) पाठकं नाम आराधनालयकालारूपम् । अस्य प्रयोक्तारः नम्प्यार् समुदायस्थाः । किन्तु इदानीं कलामेनां सर्वे अवतारयन्ति । पाठके, चाक्यार्कूत्त् कलारूपे विद्यमानं परिहासवचनं , तर्जनवचनं (മറ്റൊരാളുടെ നേര്‍ക്ക് വിരല്‍ ചൂണ്ടി പറയല്‍) च न विद्यते । अस्मिन् कलारूपे नटस्य वेषः अतीव सरलं भवति । ललाटमङ्कयित्वा (കുറിതൊട്ട്) , शिरसि पाटलसुवेष्टं धृत्वा (ചുവന്ന മുടി ധരിച്ച്), कण्ठे मालां धृत्वा, कटिप्रदेशे पाटलाम्बरं च धृत्वा (അരയില്‍ ചുവന്ന പട്ട് ധരിച്ച്) नटः वेद्यां प्रविशति । मानवानां स्वभावसंस्करणमेव कलारूपस्यास्य उद्देश्यः ।


केरलीयकलारूपाणि ३. - चाक्यार्कूत्त्

कैरल्यां कूत्त् इति पदं कर्दनम् (ശബ്ദിക്കല്‍) इति संस्कृतपदस्य तद्भवं भवतीति पण्डिताः वदन्ति । एवं चाक्यार् इति कैरलीपदस्य श्लाघ्यवाक् (നല്ല വാക്ക് ഉച്ചരിക്കുന്നവന്‍) इत्यर्थः । पुराणेतिहासादिषु विद्यमानाः कथाः सविस्तरं प्रतिपादयति चाक्यारः । वाचिकाभिनयप्रधानं कलारूपं भवति कूत्त् । सभायामुपस्थितान् प्रेक्षकानपि कथापात्रत्वेन परिकल्प्य मनुष्यसाधारणानि दौर्बल्यानि समकालिकजीवितेषु दृश्यमानान् प्रश्नान् च सरसया रीत्या सः प्रतिपादयति । तस्य हास्यप्रयोगसामर्थ्यं विशेषतः प्रस्तावमर्हति ।

दीपालङ्कृतं रङ्गं प्राप्य नम्प्यार् 'मिषाव्' इति वाद्ये प्रथमं तालक्रममाचरति ततः चाक्यारः प्रविश्य चारि इति विश्रुतं नृत्तमाचरति। पुनश्च पीठिकायाः अवतारणानन्तरं चम्पूग्रन्थेभ्यः अथवा प्रबन्धेभ्यः स्वीकृतान् श्लोकान् सविशेषया रीत्या आलपति द्वितीयपादस्य चतुर्थपादस्य आलापनानन्तरं मिषाव् इत्यस्मिन् तालं वादयति नम्प्यारः तदनन्तरं श्लोकार्थम् अन्वयक्रमेण विवृण्वन् चाक्यारः स्वपाटवं प्रदर्शयति

(प्राचीनपाठपुस्तकाद् उद्धृतः अयं भागः)

Thursday, October 6, 2011

दिशानिर्णयः

दिशानिर्णयः
डो. विजय् कुमार् एम्

गृहनिर्माणार्थं समीकृते भूमौ शङ्कुस्थापनानन्तरं (a) शङ्कुदैर्घ्ययुगलसम्मितं आरं कृत्वा वृत्तमारचयेत् ।
വീട്പണിയുന്നതിനായി നിരപ്പാക്കിയ ഭൂമിയില്‍ കുറ്റിയടിച്ച് (a) ആ കുറ്റിയുടെ ഇരട്ടി ആരത്തില്‍ ഒരു വൃത്തം വരയ്ക്കുക.








प्राह्नान्ते शङ्कुच्छाया यदा यत्र वृत्तरेखायां पतति तदा तत्र अङ्कनं कुर्यात्
(B)।एवं अपराह्ने∫पि (C)
രാവിലെ കുറ്റിയുടെ നിഴലിന്റെ അഗ്രഭാഗം എപ്പോഴാണോ വൃത്തത്തില്‍ മുട്ടുന്നത് അപ്പോള്‍ അവിടെ അടയാളമിടുക(B). ഇതുപോലെ വൈകുന്നേരവും അടയാളമിടുക (C).

प्राणायामः

।। प्राणायामः ।।

डो. विजय् कुमार्. एम्

योगपरिशीलनपद्धतिः अष्टाङ्गैः युक्ता भवति । अष्टाङ्गानि तावत् यम, नियम, आसन, प्राणायाम, प्रत्याहर, धारणा, ध्यान, समाधिश्च। एतेषु अष्टाङ्गेषु चतुर्थः भवति प्राणायामः । पातञ्जलयोगसूत्रे प्राणायामस्य लक्षणं एवमुक्तं भवति -
''तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः'' (साधनापादः, सूत्रं ४९) इति।
तस्मिन् सति - आसनसिद्धेरनन्तरं, श्वासोच्छ्वासयोः गतिविच्छेदः - प्रतिषेधः अथवा स्तब्धीकरणं प्राणायामः इत्युच्यते ।प्राणानामायामः प्राणायामः । आ – समन्तात्, यामः - नियमनं (नियन्त्रणं) प्राणायामः इत्यर्थः ।

Wednesday, October 5, 2011

निलानदी

निलानदी
डो. विजय् कुमार् एम्

केरलराज्यस्य चरित्रमण्डले एवं सांस्कृतिकमण्डले च नितरां प्रसिद्धा भवति निला। प्राचिनकाले मामाङ्कमहोत्सवः अस्याः तटे एव आघुष्यमाणः आसीत् । अत एव इयं नदी कविभिः बहुधा वर्णिता। अस्याः तीरे बहवः महात्मानः जनिमलभत । इयं नदी सुदीर्घा विस्तृता च भवति। न केवलं मनुष्याणां अपितु, तटे वर्तमानानां सर्वेषां जीवजालानां जीवनदायिका च भवति। अस्याः तीरे अनेकानि हरिताभानि सस्यक्षेत्राणि देवमन्दिराणि च विद्यते । स्वतः शान्ता इयं नदी वर्षकाले स्वीयं रौद्रभावं प्रकटयति । पश्यतु ....
नद्याः अयं रौद्रभावः केवलं वर्षकाले एव द्रष्टुं शक्यते । वर्षकालानन्तरं सा शान्तरूपापान्ना प्रवहति ।
वसन्ते, ग्रीष्मे च इयं नदी अत्यन्तं शुष्का भविष्यति । सेतुबन्धनेन तस्याः गतिः निरुद्धा । पुनः जलस्य दुरुपयोगेनापि सा शोषिता । जलपूर्णा सा इदानीं सिकतमया भवति । पश्यतु .....

महच्चरितमाला ८. - वर्धमानमहावीरः

डो. विजय् कुमार् एम्

वर्धमानमहावीरः

अहिंसां परमं धर्मं मन्वते जैनाः । जैनधर्मस्य स्थापकाः तीर्थङ्कराः इत्युच्यन्ते । चतुर्विंशति तीर्थङ्कराः आसन्निति जैनानां विश्वासः । तेष्वन्तिमो वर्धमानमहावीरः मगधेषु वैशालीनगरप्रान्ते कुण्डग्रामे सिद्धार्थनाम्नः पितुः जन्म लेभे । मातास्य त्रिशाला नाम क्षत्रियाणी । वर्धमानस्य बाल्यमधिकृत्य किमपि न ज्ञायते । यशोदां नाम राजकन्यकां परिणीय त्रिंशे वयसि गृहस्थाश्रमं त्यक्त्वा परिवव्राज । नग्नो भूत्वा द्वादशसंवत्सरांस्तीव्रं तपस्तेपे । त्रयोदशे वर्षे ऋजुबालुकानद्या उत्तरे तीरे जृम्भिकाग्रामे स केवलज्ञानमलभत । तदा प्रभृति केवली इति जिन इति च तस्य नामनी अजायेताम् । अनन्तरं त्रिंशतं वर्षान् स्वोपज्ञं धर्मं प्रचारयामास । द्विसप्ततितमे वयसि क्रिस्तोः पूर्वं ५२७ तमे वर्षे कार्तिकमासे अमावास्यां रात्रौ निर्वाणमलभत च।

वर्धमानमहाविरस्य अनुयायिनः जैनाः इति निर्ग्रन्था इति च उच्यन्ते । श्वेतांबराः इति दिगंबरा इति द्वौ विभागौ जैनानाम् । दिगम्बराः मनयः नग्नाश्चरन्ति । श्वेतांबरास्तु श्वेतं वस्त्रं धृत्वा । अहिंसा, सत्यं, अस्तेयः, ब्रह्मचर्यं, अपरिग्रहश्च जैनैराद्रियन्ते । अपरिग्रहस्यैव परा काष्ठा वस्त्रत्यागः । सम्यक् विश्वासेन, सम्यक् ज्ञानेन, सम्यक् कर्मणा च मनुष्याः संसाराद्विमुक्ताः भवन्ति । त्रीणीमानि रत्नत्रयमित्युच्यन्ते । जैनधर्मो रत्नत्रये प्रतिष्ठितः ।

(प्राचीनपाठपुस्तकादुद्धृतः अयं भागः)

महच्चरितमाला ७. - पतञ्जलिः


डो. विजय् कुमार् एम्

पतञ्जलिः

सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः ।

स्वमतानि च वर्ण्यन्ते भष्यं भाष्यविदो विदुः ।।

पाणिनिकृतं शब्दानुशासनं, तस्मिन् कात्यायनेन कृतं परिष्कारं च अवलम्ब्य यः प्रसन्नगम्भीरं महाम्भोधिसमं महाभाष्यं व्यलेखि स एव महर्षिः पतञ्जलिः । महाभ्ष्यस्य गद्यशैली ह्रस्वसमासयुक्ता सरला च भवति । पुरातनकाले सर्वत्र जनपदेषु संस्कृतमाश्रित्यैव पामरसाधारणजनाः व्यवाहारः कृतवन्तः इत्यत्र महाभाष्यमेव निदानं भवति । पाणिनिकात्यायनपतञ्जलिषु यथोत्तरं मुनीनां प्रामाण्यम् इति सुविदितं वचनं पतञ्जलेः प्रामाण्यपारम्यं प्रकाशयति ।

महाभाष्ये वर्तमान, गोनर्दीय इति अभिधानात् गोनर्दः अस्य जन्मग्राम इत्यवगम्यते । गोणिकापुत्र इति निर्देशात् तस्य मातुः मान गोणिका इत्यपि ऊह्यते । चिदंबरे पुत्रकाम्यया श्रीशङ्करं भजन्त्या गोणिकाया अञ्जलिपुटे एकदा अल्पप्राणः सर्पशिशुः द्युतलादापातयत् ।योयं शङ्करभूषणः फणी गोणिकया पुत्रत्वेनाङ्गीकृतः पतञ्जलिरिति प्रथां भेजे इत्यस्ति ऐतिह्यम् । पण्डिताः क्रिस्तोः पुर्वं द्वितीयं शतकं कलयन्ति पतञ्जलेः जीवितकालम् । पतञ्जलिप्रणीतं ग्रन्थत्रयं समुपलभ्यते, व्याकरणमहाभाष्यम्, निदानसूत्रम्, योगसूत्रं च । अतएवोच्यते -

योगेन चित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन ।

योपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोस्मि ।।

(प्राचीन पुस्तकादुद्धृतः)

महच्चरितमाला ६. - वररुचिः (कात्यायनः)


डो. विजय् कुमार् एम्.

वररुचिः (कात्यायनः)

वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् ।

पाणिनिं सूत्रकारं च प्रणतोस्मि मुनित्रयम् ।।

पाणिनीयसूत्राणाम् उक्तानुक्तदुरुक्तचिन्तापराणि वार्तिकानि वररुचिना विरचितानि । ज्योतिर्वेत्ता, स्मृतिकारः, काव्यकर्ता चायं वररुचिः याज्ञवल्क्यमुनेस्तनयः इति केचिद्वदन्ति । अस्य वररुचेः अपरमभिधानं भवति कात्ययन इति । अयं क्रिस्तोः पूर्वं तृतीये शतके लब्धजन्माभूदिति श्रूयते । कण्ठाभरणम्, वसन्ततिलकम्, स्वर्गारोहणमित्येतेषु काव्येषु स्वीयं कविकौशलं प्रकाशयन् अयं कात्यायनः सुत्रपरिष्करणपरैः स्ववार्तिकैः कियतीं शोभां पाणिनीये पुपोष इति शब्दतत्त्वविदः एव जानन्ति ।

न केवलं व्याकरणं पुपोष दाक्षीसुतस्येरितवार्तिकैर्यः ।

काव्येपि भूयोनुचकार तं वै कात्यायनोसौ कविकर्मदक्षः



प्राचीनपुस्तकस्थः भागः ।



महच्चरितमाला ५. - महर्षिः पाणिनिः


डो. विजय् कुमार् एम्

महर्षिः पाणिनिः

येनाक्षरसमाम्नायमधिगम्य मुनीश्वरात् ।

कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ।।

विपुलस्य संस्कृतवाङ्मयस्य महदाधारभूतं यदस्ति समग्रमेकं व्याकरणं तस्य प्रणेता भगवान् पाणिनिरिति सुविदितमेव विदुषाम् । षण्णामपि वेदाङ्गानां मध्ये मुख्यतया प्रस्तूयमानं, अत एव वेदानां वदनम्, वाग्देवीसदनं च भवति इदं व्याकरणम् । अत एव तदनधीतवद्भिः काणादे, वेदान्ते, भाषाशास्त्रे, शास्त्रान्तरे वा प्रवेशो दुरधिगमः । पाणिनिप्रोक्तं व्याकरणं सर्वशास्त्रेपकारकमित्यतः सर्वैरङ्गीकृतम् च।

शाकटायनापिशालीप्रभृतयः पूर्वसूरयः वैदिकस्य लौकिकस्य च संस्कृतस्य व्याकरणं कृतवन्तः, प्रातःस्मरणीयाश्च भवन्ति । तथापि पाणिनिरिति नामैव वैयाकरणानाम् इतरेषां च रसनाग्रे सदा नृत्यति । कुतः इति चेत् मुनिरयं वितत्य स्थितं व्याकरणं तत्पिपठिषूणाम् उपकाराय यथाविभागं संजिघृक्ष । सूत्रैः शास्त्रमिदं लघुतरं चकार । इमानि सूत्राणि घटनावैचित्र्येण पठतां श्रृण्वतामपि बुद्धौ विनाविलम्बं प्रतिष्ठां लभन्ते । वृक्षस्य बीजः इव सूत्रेषु शास्त्रतत्त्वानां गुम्फनं मनीषिणां मोदाय भवन्ति ।

तथा चोक्तम् -

अल्पाक्षरमसन्दिग्धं सारवत् विश्वतोमुखम् ।

अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ।।

अविकलं शब्दशास्त्रं चिकीर्षुः पाणिनिः प्रथमं महेश्वरमुपासाञ्चक्रे । प्रीतश्च नटराजः नृत्तावसाने स्वीयां ठक्कां नवपञ्चवारं ननाद । डमरुनिःसृता माहेश्वरसूत्राख्या नादपरम्परा मुनेर्मनीषामुदमीलयत् । एतानि माहेश्वरसूत्राणि आधारीकृत्य पाणिनिः सूत्रपाठं निर्ममे इति किल वैयाकरणानां विश्वासः । अचिरादेव अस्य शास्त्रस्य विद्वज्जनसम्मतिः समजनि ।

गान्धारेषु सिन्धुकुमानद्योः सङ्गमसमीपस्थिते शालातुरग्रामे लब्धजन्मायं महात्मा पणिगोत्रजः । क्रिस्तोः पूर्वं पञ्चमे शतके अयं वैयाकरणाग्रणीः जीवितमधारयदिति पण्डिताः मन्यन्ते । जाम्बवतीजयम् इत्येकं काव्यं पाणिनिप्रणीतं गणयन्ति गवेषकाः ।

महच्चरितमाला ४. - श्रीनारायणगुरुः

डो. विजय् कुमार् एम्

श्री नारायणगुरुः

लोकचक्रे चलति कदाचिल्लब्धजन्मानो भवन्ति लोकोपकारिणो महान्तः । तेषामचिन्त्यहेतुकानि अलोकसामान्यानि धर्मव्यवस्थापकानि कर्माणि कैश्चिदेव सम्यगवगम्यन्ते ।

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।

अभ्युत्थानमधर्मस्यय तदात्मानं सृजाम्यहम् ।।

इति भगवद्वचनमनुस्मारयन्तस्ते माहात्मानः अधर्ममुन्मूल्य धर्मसंस्थापनाय कृतावताराः कीर्त्यन्ते । कर्मणा स्वीयेनैव महत्तामुपगतास्ते महात्मानः कालान्तरेपि स्मर्यन्ते, आद्रियन्ते च । तादृशेषु नित्यस्मरणीयेषु आध्यात्मिकाचार्येषु जनहृदयन्यस्तपादः कश्चिदासीत् श्रीनारायणगुरुदेवः ।

तदात्वे अस्पृश्यत्वेनावर्ण्यत्वेनाधःकृतत्वेन वा परिगणिते कस्मिंश्चित् समाजे एकत्रिंशदधिकैकसहस्रतमे (१०३१) कोलम्बाब्दे श्रावणमासि श्रीनारायणोवतीर्णः । अनन्तपुर्यां नातिदूरस्थे चेम्पषन्तिग्रामे वयल्वारं भवनमस्य जन्मगृहम् । अस्य माता कुट्टियम्मा पिता च माटनाशान् इति प्रथितो विद्वांश्च ।

बालस्य नारायणस्य अक्षरविद्यासमारंभः चेम्पषन्तिमुत्तुप्पिल्ल इति विश्रुतेन पण्डितेन कारयामासे । ततः क्रमेण स निशातधिषणो बालः संस्कृतभाषां पठितुं नियुक्तः, मलयालम्, तमिल्, संस्कृतमिति भाषात्रयेपि कालेनाल्पेनैव निष्णातोभवत्। ततः संस्कृतभाषायां शास्त्रार्थावगमार्थं कुमार एव सः मातुलेन कृष्णन् वैद्यन् नामकेन पुतुप्पल्लिवारणप्पल्लिनामकम् उदारशीलानां भवनमुपनीतः । तत्र चेरुवण्णूराचार्यस्य रामन्पिल्ल महाशयस्य अन्तेवासित्वेन कालं नयन्नसौ नारायणः बहूनि काव्यानि शास्त्राणि चाधीतवान् । अयं च पठनावसरेषु इतरान् सर्वानपि सतीर्थ्यान् स्वशेमुष्या अनायासमधरीचकार । कुमार एषासौ व्रतनिष्ठः विविक्तसंस्थश्चासीत् ।

पित्रोर्मृतयोः यदृच्छया कृतपरिणयोपि नैष्ठिकः सः गृहं हित्वा निर्जगाम । श्रीनारायणः स्वस्य एकोनत्रिंशे वयसि परिव्राजकत्वमापाद्यत । कदाचिदसौ कानिचिद्दिनानि पेरुनल्लि भवने संस्कृतग्रन्थनिरीक्षणार्थं वसन् परमभट्टारकश्रीविद्याधिराजस्य सौहृदमार्जितवान् । एतौ द्वावपि तपस्विनौ कञ्चित्कालं सन्ततसहवर्तिनावास्ताम् । तौ योगाचार्यं तैक्काट्टार्यनामानमुपेत्य हठादीर्योगविद्याः काश्चिद् अधीयतुः । शिष्टांश्च श्रीनारायणो मरुत्वाद्रिमेत्य तत्र स्वयं परिशीलितवान् । मरुत्वाद्रेरधित्यकायां पिल्लत्तटनामकमस्ति किमपि बिलम् । तत्र स दर्भास्तीर्यासनः तपस्तेपे । फलेन, पर्णेन, जलेन, वायुना च शरीरस्य स्थितिं कल्पयन् दिनान्यनयत् । अनन्तरं तपसो निवृत्तश्च दक्षिणभारते बहून् देशानटन् अवधूतोसौ अम्माळ् योगिन्या नागर्कोविल् देशस्थया आशीभिरनुगृहीतः । अवधूतत्वेन कालं यापयन्नसौ तदात्वे अधःकृतानामवशानाञ्च जनानां समाजेषु सञ्चरन् तेषां समुद्धरणोपायान् चिन्तयन्नासीत्। ऐस्लामिकाः क्रैसेतवाश्च तं बह्वमन्यन्त ।

नारायणावधुतः कदाचित् अरुविप्पुरं इति नाम्ना पश्चाद् विश्रुतं वनप्रदेशं प्राप । तं च पश्चात् शिवलिङ्गस्वामीति प्रथितः कश्चित्तपस्वी शिष्यतया प्रपेदे । क्रमेण बहवो जनाः सर्वतस्तत्र समागताः । एवम् अरुविप्पुरं किञ्चन तीर्थस्थानं समभवत्। यदद्ध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते । तत्र च श्रीनारायणगुरुदेवेन शिवलिङ्गाकारः शिलाखण्डः प्रतिष्ठापितः। तत्र शिवमन्दिरे लिखितमेतत् ।

जातिभेदं मतद्वेषं विना यत्र नराः समे ।

सोदरत्वेन तिष्ठन्ति मातृकास्थानमप्यदः ।।

श्रीनारायणगुरुदेवः कैरल्यां गैर्वाण्याञ्च स्तोत्राणि गीतानि च व्यरचयत् । तेष्वन्यतमं अतिविश्रुतं कुण्डलिनीगीतम् । दैवशतकम्, अद्वैतदीपिका, जननीनवरत्नमञ्जरी, आत्मोपदेशशतकम्, दर्शनमाला, मुनिचर्यापञ्चकम्, ब्रह्मविद्यापञ्चकम् इत्यादयश्च मुख्याः अस्य कृतयः । धर्मचिन्तकः आदर्शवादी अवशसमाजोद्धारकः समुदायपरिष्कर्ता समदर्शी च गरुदेवः आलुवानामके स्थाने अद्वैताश्रमं स्थापयामास । किञ्च श्रीनारायणधर्मसंघनामकं समाजं चातनोत् । एका जातिः एको धर्मः एकोदेवः सर्वेषामिति मानवानामित्ययं गुरुदेवस्य सिद्धान्तः । विद्यया प्रबुद्ध्यत्वम्, संघटिताः शक्ता भवत, उद्योगेन संपद्यध्वम्, - इत्ययं गुरूपदेशः अधःकृतानामुद्धारणमन्त्रः दिशि दिशि प्रतिध्वनितो बभूव। जातिवर्णभेदध्वंसको धर्मस्थापकश्च श्रीनारायणपरमहंसः आन्त्ररोगेणातुरः बहुमार्गकैः भिषग्भिः चिकित्सितोपि स्वास्थ्यं न लेभे । किञ्च कोलम्बाब्दे चतुरधिकैकादशशततमे (११०४) कन्यायां मासि पञ्चमे दिने सः परमं पदं प्रपेदे ।

महच्चरितमाला ३. - भगत्सिंहः

डो. विजय् कुमार् एम्
भगत्सिंहः


भरतस्य स्वातन्त्र्यसमरनायकेषु बहवः सेनान्यो येन केनापि हेतुना मृता वा मारिता वा अभवन् । तथा भारतस्वातन्त्र्याय नीतसमरेषु वीरपुरुषेषु अत एवाङ्गलाधिकृतैर्मारितेषु प्रथमगणनीयः आसीद् भगत्सिंहः । ''विप्लवो विजयताम्'' इति मुद्रावाक्यमपि प्रथमतः भारते भगत्सिंहेनैव उच्चारितम् ।

भगत्सिंहः सप्ताधिकैकोनविंशतिशततमे (१९०७) क्रिस्त्वब्दे पञ्चाबदेशे समजायत । अस्य पिता तु राष्ट्रीयवृत्तिः आसीत् । माता विद्यावती च । पुत्रस्य जन्मवेलायां पिता कृष्णसिंहः कारायां बद्धः आसीत् । भगत्सिंहः बाल्ये कृशः शान्तश्चासीत् ।

आडंबरविमुखोयं बालः आर्यसमाजस्य पाठशालायां ततो लाहोरस्थायां राष्ट्रीयमहाविद्याशालायां च क्रमशः अपठत् । असौ पञ्चदशवर्षदेशीयः एव आङ्गलेभ्यो मातृभूमिं रक्षितुम् ऐच्छत् । स विविधदेशसंबन्धिनः क्रान्तिसाहित्यप्रातिपदिकान् ग्रन्थान् सञ्चित्य पठन् क्रमेण कश्चित् महान् विप्लवकारी समपद्यत । राष्ट्रीयप्रस्थानात्पुत्रं निवर्तयितुकामः पिता बहुधा कृतप्रयत्नोपि कृतार्थतां नाप ।

स्वातन्त्र्यसमरप्रयुक्तानां यूनां कापि सभा षड्विंशत्यैकोनविंशतिशततमे (१९२६) क्रिस्त्वब्दे काण्पूरदेशे प्रावर्तत । तत्र युवभिः भगत्सिंहो नेतृत्वेन अङ्गीकृतः । स विविधेषु जनपदेषु प्रवर्तमानान् आङ्गलविरोधिनः संयोज्य स्वीयां प्रतिरोधशक्तिं पुपोष । एतस्मिन्नवसरे चन्द्रशेखरआसादादिभिः विप्लवकारिभिः सह मैत्रीं च बबन्ध । भारतसमाजवादिगणतन्त्रसभा इति कस्याश्चन परिषदः आविर्भावोपि विप्लवकारिणां बलं पोषयामास ।

अथ पञ्चाबदेशे भगत्सिंहः कैश्चित्तरुणैः साकं नवयुवकभारतसभाम् अतनोत् । आङ्गलानभियोद्धुमायुधं ग्रहीतुमपि सभैषा निश्चिकाय । भगत्सिंहस्य प्रभाषणनैपुण्यम्, असाधारणी त्यागशीलता च जनानाचकर्ष । सैमण् कम्मीषन् नामकाङ्गलसङ्घम् अभियोद्धुकामानां जनानां नेता लाला लज्पत् रायी नामकः रक्षिपुरुषाणां ताडनेन मृतः । सान्डेसन् नामको मर्दननिर्देशकः रक्षिपुरुषनायकः भगत्सिंहेन तदैव प्रत्यभिज्ञातः पश्चान्नालिकाशस्त्रेणैव निहतः । आङ्गलाधिकृताः भगत्सिंहादीन् विप्लवकारिणः वैतानिकांश्च जनान् युगपत् पीडयितुं बम्भ्रम्यमाणरक्षिदलं कमपि सेवननियमं च आविश्चक्रुः । केन्द्रीयनियमनिर्माणसभायां नियमाङ्गीकारसमय एव बोम्बस्फोटनं सञ्जातं, प्रसारिता च काचिल्लघुलेखा उद्घुष्टं च ''विप्लवो विजयताम्'' इति मुद्रावाक्यम्

तदानीमेवापराद्धत्वेन गृहीतो भगत्सिंहः कारायां निक्षिप्तः । व्यवहारानन्तरं प्रड्विवाकेनासौ आयुःपर्यन्तं द्वीपान्तरवासाय दण्डनं लब्धः । व्यवहारे च अन्यस्मिन्नयं मृत्युदण्डमेव प्रापितः । एवं एकोनत्रिंशदधिकैकोनविंशतिशततमे (१९३१) क्रिस्त्वब्दे मार्च् मासि त्रयोविंशे दिने भगत्सिंहः आङ्गलाधिकृतैः उद्बन्धनेन मारितः । कथेयं भारतीयानां हृदयं सदा पर्याकुलयत्येव ।

भगत्सिंहमधिकृत्य कृताः वीरगाथातल्लजाः उत्तरभारतग्रामान् नगराणि च अद्यापि मुखरयन्ति ।

भगत्सिंहस्य मरणानन्तरं प्रसिद्धीकृतम् वृत्तान्तपत्रम्

(प्राचीनपाठपुस्तकादुद्धृतोयं गद्यांशः)

महच्चरितमाला २. - स्वामि विवेकानन्दः

डो. विजय् कुमार् एम्
स्वामि विवेकानन्दः

कोल्कत्तायाम् एकस्मिन् समुन्नतकुले त्रिषष्ट्युत्तर अष्टादशशततमे १८६३ क्रिस्त्वब्दे विवेकान्द इति पश्चात् प्रसिद्धः नरेन्द्रनाथः जनिमलभत । पिता विश्वनाथदत्तः माता भुवनेश्वरीदेवी चासीत् । पितुः राज्यस्नेहः मातुः आध्यात्मिकचिन्ता च शैशवे एव नरेन्द्रे समिमिलति स्म । बालो नरेन्द्रः सर्वेषु विषयेषु प्रवीणः आसीत् । आध्यात्मिककार्येषु संशयग्रस्तः नरेन्द्रः श्रीरामकृष्णपरमहंसस्य शिष्यत्वं स्वीचकार । षडशीत्यधिकाष्टादशशततमे (१८८६) क्रैस्ताब्दे श्रीरामकृष्णः समाधिं प्राप । तदनन्तरं नरेन्द्रः सुहृद्भिः सह सन्यासं स्वीकृत्य स्वामि विवेकानन्दः इति नाम स्वीचकार । अतः परं विवेकानन्दः भारते सर्वत्र पर्यटति स्म । अस्मिन् समये केरलदेशे श्रीनारायणगुरिचट्टम्पिस्वामिप्रभृतिभिः आध्यात्मिकाचार्यैः सह तस्य मेलनमपि अभवत्। सर्वधर्मसमन्वयादेव मानवमैत्री इति विवेकानन्दस्य सन्देशः । द्युत्तरनवशताधिकसहस्रतमे वर्षो सोयं भारतस्य सुपुत्रः समाधिं प्राप ।

त्रिनवत्यधिकाष्टादशशततमे (१८९३) क्रिस्ताब्दे चिक्कागो नगरे प्रचलिते सर्वधर्मसमेमलने सिवामिना कृतं प्रभाषणं विश्वविख्यातमेव । सन्तोषस्यावसरोयं यत् स्वामिनः विश्वविख्यातचिक्कागोप्रभाषणस्य शब्दरेखा इदानीमपि उपलभ्यत इति। अपूर्वामिमां शब्दरेखां शृणोतु, भारतस्य सांस्कारिकपैतृके अभिमानिनः च भवन्तु ।

स्वामि विवेकानन्दस्य चिक्कगोप्रभाषणस्य शब्दरेखा

उत्तिष्ठत, जाग्रत, प्राप्यवरान्निबोधत इति जनान् उदबोधयत् अयं युगप्रभावः ।

(प्राचीनहस्तपुस्तकादुद्धृतोयं गद्यांशः)