पतञ्जलिः
सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः ।
स्वमतानि च वर्ण्यन्ते भष्यं भाष्यविदो विदुः ।।
पाणिनिकृतं शब्दानुशासनं, तस्मिन् कात्यायनेन कृतं परिष्कारं च अवलम्ब्य यः प्रसन्नगम्भीरं महाम्भोधिसमं महाभाष्यं व्यलेखि स एव महर्षिः पतञ्जलिः । महाभ्ष्यस्य गद्यशैली ह्रस्वसमासयुक्ता सरला च भवति । पुरातनकाले सर्वत्र जनपदेषु संस्कृतमाश्रित्यैव पामरसाधारणजनाः व्यवाहारः कृतवन्तः इत्यत्र महाभाष्यमेव निदानं भवति । पाणिनिकात्यायनपतञ्जलिषु यथोत्तरं मुनीनां प्रामाण्यम् इति सुविदितं वचनं पतञ्जलेः प्रामाण्यपारम्यं प्रकाशयति ।
महाभाष्ये वर्तमान, गोनर्दीय इति अभिधानात् गोनर्दः अस्य जन्मग्राम इत्यवगम्यते । गोणिकापुत्र इति निर्देशात् तस्य मातुः मान गोणिका इत्यपि ऊह्यते । चिदंबरे पुत्रकाम्यया श्रीशङ्करं भजन्त्या गोणिकाया अञ्जलिपुटे एकदा अल्पप्राणः सर्पशिशुः द्युतलादापातयत् ।यो∫यं शङ्करभूषणः फणी गोणिकया पुत्रत्वेनाङ्गीकृतः पतञ्जलिरिति प्रथां भेजे इत्यस्ति ऐतिह्यम् । पण्डिताः क्रिस्तोः पुर्वं द्वितीयं शतकं कलयन्ति पतञ्जलेः जीवितकालम् । पतञ्जलिप्रणीतं ग्रन्थत्रयं समुपलभ्यते, व्याकरणमहाभाष्यम्, निदानसूत्रम्, योगसूत्रं च । अतएवोच्यते -
योगेन चित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन ।
यो∫पाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतो∫स्मि ।।
(प्राचीन पुस्तकादुद्धृतः)