roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Wednesday, October 5, 2011

निलानदी

निलानदी
डो. विजय् कुमार् एम्

केरलराज्यस्य चरित्रमण्डले एवं सांस्कृतिकमण्डले च नितरां प्रसिद्धा भवति निला। प्राचिनकाले मामाङ्कमहोत्सवः अस्याः तटे एव आघुष्यमाणः आसीत् । अत एव इयं नदी कविभिः बहुधा वर्णिता। अस्याः तीरे बहवः महात्मानः जनिमलभत । इयं नदी सुदीर्घा विस्तृता च भवति। न केवलं मनुष्याणां अपितु, तटे वर्तमानानां सर्वेषां जीवजालानां जीवनदायिका च भवति। अस्याः तीरे अनेकानि हरिताभानि सस्यक्षेत्राणि देवमन्दिराणि च विद्यते । स्वतः शान्ता इयं नदी वर्षकाले स्वीयं रौद्रभावं प्रकटयति । पश्यतु ....
नद्याः अयं रौद्रभावः केवलं वर्षकाले एव द्रष्टुं शक्यते । वर्षकालानन्तरं सा शान्तरूपापान्ना प्रवहति ।
वसन्ते, ग्रीष्मे च इयं नदी अत्यन्तं शुष्का भविष्यति । सेतुबन्धनेन तस्याः गतिः निरुद्धा । पुनः जलस्य दुरुपयोगेनापि सा शोषिता । जलपूर्णा सा इदानीं सिकतमया भवति । पश्यतु .....
अग्निशकटयात्रावेलायामपि निलानदी न दृश्यते किन्तु सिकतमेव ।
नद्याः अस्याः शोच्यावस्था उपग्रहचित्रेपि द्रष्टुं शक्यते ।






अस्मिन् चित्रे वयं द्रष्टुं शक्नुमः यत् नद्यादप्यधिकं सिकतमेवेति । तस्य सिकतस्यापि अपहरणेन नद्यामस्यां गर्तानि आविर्भूतानि । वननशीकरणेनापि सा शोषिता भवति । अस्याः नद्याः संरक्षणार्थं सर्वथा अस्माभिः प्रयत्नः कर्तव्यः।