।। प्राणायामः ।।
डो. विजय् कुमार्. एम्
प्राणवायोः शरीरस्यान्तः प्रवेशः श्वास इति बहिर्गमः प्रश्वास इति च कथ्यते । तयोः रोधः एव प्राणायामः । प्राणायामः पूरक , कुम्भक, रेचकादि त्रिभिः अङ्गैः युक्तं भवति । नासिकाद्वारा बाह्यवायोः स्वीकरणमेव रेचकमित्युच्यते। स्वीकृतस्य वायोः अन्तः स्तंभनं कुंभक इति, स्तंभितस्य वायोः बहिर्निस्सारणं पूरकमिति च कथ्यते। अङ्गुलिभिः नासिकाद्वारं पिधाय प्राणायामः क्रियते । तत्र अङ्गुलिनियमः ज्ञानार्णवे एवमुक्तः -
मूर्च्छाप्राणायामः
शीत्कारी प्राणायामः
भ्रमरी नाम प्राणायामः
योगपरिशीलनपद्धतिः अष्टाङ्गैः युक्ता भवति । अष्टाङ्गानि तावत् यम, नियम, आसन, प्राणायाम, प्रत्याहर, धारणा, ध्यान, समाधिश्च। एतेषु अष्टाङ्गेषु चतुर्थः भवति प्राणायामः । पातञ्जलयोगसूत्रे प्राणायामस्य लक्षणं एवमुक्तं भवति -
''तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः'' (साधनापादः, सूत्रं ४९) इति।
तस्मिन् सति - आसनसिद्धेरनन्तरं, श्वासोच्छ्वासयोः गतिविच्छेदः - प्रतिषेधः अथवा स्तब्धीकरणं प्राणायामः इत्युच्यते ।प्राणानामायामः प्राणायामः । आ – समन्तात्, यामः - नियमनं (नियन्त्रणं) प्राणायामः इत्यर्थः ।
शरीरान्तः सञ्चारी वायुः भवति प्राणः । स च स्थानभेदात् प्राणः, अपानः, उदानः, समानः, व्यानः इति पञ्चधा विभक्ताः । तेषां स्थानानि अधो दत्तानि -
प्राणवायोः शरीरस्यान्तः प्रवेशः श्वास इति बहिर्गमः प्रश्वास इति च कथ्यते । तयोः रोधः एव प्राणायामः । प्राणायामः पूरक , कुम्भक, रेचकादि त्रिभिः अङ्गैः युक्तं भवति । नासिकाद्वारा बाह्यवायोः स्वीकरणमेव रेचकमित्युच्यते। स्वीकृतस्य वायोः अन्तः स्तंभनं कुंभक इति, स्तंभितस्य वायोः बहिर्निस्सारणं पूरकमिति च कथ्यते। अङ्गुलिभिः नासिकाद्वारं पिधाय प्राणायामः क्रियते । तत्र अङ्गुलिनियमः ज्ञानार्णवे एवमुक्तः -
कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् ।
प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ।।
कनिष्ठिकया (ചെറുവിരല്), अनामिकया (മോതിരവിരല്), अङ्गुष्ठेन (തള്ളവിരല്) चायं प्राणायामः निवर्तते। अयं अनुलोमविलोम प्राणायामः इत्युच्यते । तस्य निर्वहणं कथमिति पश्यतु -
भक्षणात् अर्धघण्टात् पूर्वं प्राणायामं कर्तुं युक्तमेव । एवं भक्षणादनन्तरं सार्धचतुरघण्टानन्तरमपि प्राणायामं कर्तुं शक्यते । तथापि समयनिष्ठा आवश्यकी । प्रतिदिनं निश्चितसमये एव अस्य परिशिलनं कर्तव्यम् । तत्तु प्रभाते सायाह्ने वा परिशिलयितुं शक्यते। तथापि स्थिरता अनुवृत्तिः च पालनीयौ ।
प्राणायामाः तावत् उज्जयी, मूर्च्छा, भस्त्रिका, ॐकारः, शीत्कारी, भ्रमरीत्यादिभेदेन बहुविधाः।
उज्जयी नाम प्राणायामः
मूर्च्छाप्राणायामः
भस्त्रिका
ॐकारः
शीत्कारी प्राणायामः
भ्रमरी नाम प्राणायामः
प्राणायामपरिशीलनेन श्वासकोशानां शक्तिः वर्धते । एवं सम्पूर्णारोग्यलाभार्थं, अन्तर्लीनानां सूक्ष्मचलनानां मनसः च नियन्त्रणेन आत्मसाक्षात्कारार्थमपि उपयुज्यते प्राणायामस्य परिशीलनम् ।