ज्ञान - विज्ञान मण्डलेषु संस्कृतभाषायाः योगदानं कियन्मात्रमिति सर्वान् बोधयितुमुद्दिश्य संस्कृत अध्यापकानां संरम्भः।
Saturday, December 17, 2011
TRANSFER LIST AWAILABLE @ DOWNLOADS
Friday, October 28, 2011
पम्पानदी - संस्कृतह्रस्वचित्रम्
निर्माणम्
डि. ए. एम्. यु. पि. एस्. काञ्ञिरप्पळ्ळी
आमुखम्, अन्तर्जालोपारोपणञ्च
डो. विजय् कुमार् एम्.
केरलेषु स्यन्दमाना पुण्यपुरातनी नदी भवति पम्पा । इटुक्कि जिल्लायां वर्तमानात् पीरुमेट् इति स्थानात् उद्भूतानि त्रीणि जलस्रोतांसि मिलित्वा नदीयं संभवति । अनेकैः पोषकनदीभिः युक्ता इयं प्रतीच्यां दिशं प्रति प्रसृता सति बहुभिः शाखाभिः पृथक्कृता भवति । तासु प्रधाना शाखा कुट्टनाट् प्रदेशात् उत्तरस्यां दिशं प्रति प्रस्थिता सति वेम्पनाट्ट् इति प्रसिद्धे अम्बुचत्वरे (तटाके) लीयते। पम्पायाः बहुभिः शाखाभिः युक्ता भवति 'केरलस्य नेल्लरा' इति प्रसिद्धः कुट्टनाट् देशः । शबरिगिरेः अधित्यकां परिवृत्य स्यन्दमानायाः अस्याः तीरे बहूनि शास्ताक्षेत्राणि सन्ति । नदीयं पापनाशिनी इत्यपि प्रथिता भवति । हैन्दवधर्मानुसारिणां पुण्यनदी भवति इयम् । सीतामन्विष्य प्रस्थितयोः रामलक्ष्मणयोः आतिथ्यं कृतवत्याः शबर्याः आश्रमः अस्याः तीरे आसीदिति प्रसिद्धिः । प्रतिवर्षं शबरिगिरीशं वन्दितुं प्रस्थिताः अनेककोटिभक्ताः अस्यां नद्यां स्नात्वा एव दर्शनं कुर्वन्ति ।
कोट्टयम् जिल्लायां काञ्ञिरप्पळ्ळि देशे वर्तमान मुट्टप्पळ्ळि डि. ए. एम्. यु. पि. एस् छात्रैः अध्यापकैः च पम्पानदीमधिकृत्य निर्मितं ह्रस्वचित्रं अत्र आस्वादकानां संस्कृतपिपठिषूणां च पुरतः दीयते । पम्पायाः सौन्दर्यं, तस्याः निर्मलता, तस्याः तटे वर्तमानानि देवालयानि, मतसम्मेलनानि, भूप्रकृतयः इत्यादीनां सर्वेषामास्वादनाय अनुवाचकान् सादरं आमन्त्रयामि । अस्य ह्रस्वचित्रस्य निर्माणार्थं प्रयत्नं कृतवद्भ्यः डि. ए. एम्. यु. पि. एस् अध्यापकेभ्यः छात्रेभ्यश्च संस्कृतलोकस्य सादरधन्यवादाः ।
प्रथमो भागः
द्वितीयो भागः
तृतीयो भागः
चतुर्थो भागः
पञ्चमो भागः
सप्तमो भागः
अष्टमो भागः
नवमो भागः
Monday, October 24, 2011
संस्थाः ध्येयवाक्यानि च


तैत्तिरीयोपनिषदि वर्तमानः मन्त्रः भवति शं नो वरुण (१, १, १) इति । वरुणः अस्मभ्यं मङ्गलं प्रददातु इत्यर्थः


सत्यमेव जयते इति मन्त्रः मुण्डकोपनिषदि तृतीयाध्यये प्रथमखण्डे वर्तते (३. १. ६)।सत्यस्य महिमा एव अनेन प्रस्तूयते ।
Saturday, October 15, 2011
दिशानिर्णयः - जियोजिब्राद्वारा

अस्मिन् जालके अधोनिर्दिष्टे षष्ठोपजालके क्लिक् करणीयम् ।
तदा बहवः निर्देशाः अधोधः आगच्छेत्। तेषु circle with centre radious इति निर्देशे क्लिक् कर्तव्यम् । तदनन्तरं कार्यपत्रे (work sheet) यत्रकुत्रापि क्लिक् कर्तव्यम् । तदानीं अधोनिर्दिष्टं समादेशपेटकं (command box) आगच्छेत् ।

तस्मिन् वृत्तस्य आरं कियन्मात्रमावश्यकम् इति टंकयतु । यदि २ इति निर्देशः दीयते तर्हि एतादृशमेकं वृत्तं द्रष्टुं शक्यते।
चाक्यार्कूत्त् - अवतरणशैली
Friday, October 14, 2011
महच्चरितमाला १०. - शङ्कराचार्यः

महच्चरितमाला ९. - महाकवि वळ्ळत्तोळ्
Thursday, October 13, 2011
केरलीयकलारूपाणि ११. - कलरिप्पयट्ट्
केरलीयकलारूपाणि १०. - मार्गंकली
केरलेषु सुरियानिविभागस्थानां क्रैस्तवानां मध्ये प्रचुरप्रचारमाप्तं नृत्तरूपं भवति मार्गं कली । क्रिस्तोः मार्गस्य (क्रिस्तुधर्मस्य) प्राचारणाय भारतमागतस्य तोमाश्लाहामहाभागस्य भारतप्रवेशः प्रवर्तनानि चात्र प्रस्तूयन्ते । प्रज्वलितं दीपं परितः मण्डलाकारेण स्थित्वा द्वादशस्त्रियः पुरुषाः वा गानपुरस्सरं नृत्यन्ति । स्त्रीपुरुषाः तस्मिन्नवसरे क्रैस्तवानां परम्परागतवेषं धरन्ति च ।
केरलीयकलारूपाणि ९. - कैकोट्टिक्कली
केरलस्त्रीणां मध्ये प्रचलितं प्राचीनं नृत्तरूपं भवति कैकोट्टिक्कली । अङ्कणे स्त्रियः भद्रदीपं परितः मण्डलाकारेण स्थित्वा पुराणकथापात्राण्यधिकृत्य रचितानि गानानि आलपन्त्यः सहस्तताडनं नृत्यन्ति। प्रथमं गणपतेः सरस्वत्याश्च स्तोत्राणि आलपन्ति। ततः अन्यानि गानानि च । कुम्मि अपि प्रस्तावमर्हति । इरयिम्मन् तम्पि महाशयेन रचितं 'वीर वीराट कुमार विभो' इति पदं अस्मिन् कलारूपे उपयुज्यमानं सुप्रसिद्धं भवति ।
केरलीयकलारूपाणि ८. - मोहिनियाट्टम्
केरलीयकलारूपाणि ७. - पूरक्कलि
उत्तरकेरले प्रचुरप्रचारमाप्तं कलारूपं भवति पूरक्कलिः । तस्मिन् इष्टदेवतावन्दनं, दीपवन्दनं, च प्रचलन्ति । विविधजातिस्थानां, जनानां पूरक्कलिमध्ये स्थानमस्ति । रम्भादिभिः देवकन्यकाभिः देवलोके, अहल्यादिपञ्चकन्याभिः भूमौ, भूदेव्यादिभिः षड्भिः नारीभिः पाताललोके च कृतायाः वसन्तपूजायाः मधुरमङ्गलस्मरणमेव पूरक्कली इत्यस्य प्रामाण्यमिति केचिद्वदन्ति । पुरुषाणामायोधनकलापाटवं प्रदर्शयितुमपि अत्र अवसरः अस्ति ।
मानसोल्लासद्वारा बुद्धिविकासं जनयति पूरक्कलिः । सरागालापनैः सतालनर्तनैश्च इयं कला प्रेक्षकान् नितरां रञ्जयति । पूरक्कलिः अनुष्ठानपरा नृत्यप्रधाना च भवति ।कलारूपो∫यं उत्तरकेरलेषु 'काव्' इति भगतीमन्दिरेषु प्रदर्श्यते ।इदानीं युवजनोत्सववद्यामपि अविभायज्यघटकत्वेन इदं कलारूपं अवतार्यते ।
केरलीयकलारूपाणि ६. - कथाकेलिः
डो. विजय् कुमार् एम्.
देशे विदेशे च प्रसिद्धिमाप्ता कथाकेलिः केरलीयदृश्यकलाविशेषाणां मकुटायमाना विराजते । तौर्यत्रिकस्य सामञ्जस्यं मेलनमत्र दृश्यते । चेण्टा, मद्दलम्, इलत्तालम्, इटय्क्का, चेङ्ङिला, इत्यादयः वाद्यविशेषाः कथाकेल्याः अवतरणसमये उपयुज्यन्ते ।
अस्य कलारूपस्य परिष्कर्ता आसीत् वेट्टत्तु तम्पुरान् । कोट्टयत्तु तम्पुरान् महाभागो∫पि अस्याः कलायाः परिष्करणे बद्धश्रद्धः आसीत्। क्रिस्तोः परं सप्तदशे शतके कोट्टारक्करतम्पुरान् महाशयेन प्रारब्धं रामनाट्टमेव अस्य कलारूपस्य प्राग्रूपमिति पण्डिताः वदन्ति ।
कथाकेल्याः साहित्यम् आट्टक्कथा इति व्यवह्रियते कैरल्याम्। तत्र कथासन्दर्भाः श्लोकरूपेण सम्भाषणानि पदरूपेण कथांशसङ्ग्रहः दण्डकरूपेण च निबद्धाः दृश्यन्ते। मुख्यगायकः पोन्नानि इति अनुगायकः शिङ्किटी इति च व्यवह्रियते। गानानुसारं पदानामर्थान् मुद्राभिः, रसान् मुखोपाङ्गचलनैश्च आविष्करोति नटः ।
कथापात्राणां स्वभावानुसारमेव आहार्यता निर्णीता । तत्र पच्चा, कत्ति, ताटि, करि, मिनुक्क्, इत्येवमादयः, आहार्यविशेषाः स्वीकृताः सन्ति। तेषामपि पात्रानुसारं वैविध्यमस्ति । मुद्राणां हस्तलक्षणदीपिकायां निर्दिष्टाः आधारमुद्राः एव अवलम्ब्यन्ते। उण्णायिवार्यर्, कोट्टयत्तु तम्पुरान्, कोट्टारक्कर तम्पुरान्, इरयिम्मन् तम्पि इत्येवमादयः महात्मानः आट्टक्कथारचनायां प्रसिद्धाः। वैदेशिकाः अपि कलारूपस्यास्य पठने प्रचारे च सोत्सुकाः दृश्यन्ते ।
कथाकेल्याः वटक्कन् चिट्टा तेक्कन् चिट्टा इति प्रकारद्वयं वर्तते । तत्र वटक्कन् चिट्टा इत्यस्य कल्लटिक्कोटन् सम्प्रदायः इति तेक्कन् चिट्टा इत्यस्य कप्लिङ्ङाटन् सम्प्रदायः इति च नामान्तरम् ।
कथाकेल्यां प्राधान्येन (१) केली, (२) अरङ्ङुकेली, (३) तोटयम्, (४) वन्दनश्लोकः, (५) पुरप्पाट्, (६) मेळप्पदम्, (७) कथाभिनयम्, (८) धनाशि च सन्ति । कथाभिनयस्य चोल्लियाट्ट्म्, इळकियीट्टम् इति प्रकारद्वयमस्ति। गायकस्य गानक्रमानुसारं नटः प्रतिपदं मुद्राभिः अभिनयं करोति । अयं अभिनयप्रकारः चोल्लियाट्टम् इति कथ्यते । ततः पूर्वं, परं वा नटः स्वमनोधर्मानुसारम् अभिनयति । अस्यैव इळकियाट्टम् इति नाम ।
चतुर्विधाः अभिनयप्रकाराः सन्ति । आङ्गिकम्, वाचिकम्, आहार्यम्, सात्विकम् इति । अभिनयदर्पणे एवमुक्तं भवति -
यतो हस्तस्ततो दृष्टिः यतो दृष्टिस्ततो मनः ।
यतो मनस्ततो भावो यतो भावस्ततो रसः ।।
श्रृङ्गारः, करुणः, वीरः, रौद्रः, हासः, भयानकः, बीभत्सः, अद्भुतः, शान्तः, चेति नवरसाः भवन्ति । एषां रसानां स्थायिभावाः रतिः शोकः, उत्साहः, क्रोधः, हास्यं, भयं, जुगुप्सा, विस्मयः, निर्वेदः च भवन्ति । नवरसेषु श्रृङ्गारः रसराजः इति कीर्त्यते।
कथाकेल्यां धीरोदात्तनायकानामेव 'पच्च' इति वेषविशेषः कल्पितः (यथा नलः, अर्जुनः....) । रजोगुणयुक्तानां नायकानां 'कत्ति' (यथा रावणः, दुर्योधनः....),। तमोगुणप्रधानानामसुराणां मनुष्याणां च 'ताटि' (यथा बकः, दुःश्शासनः....) किरातानां 'करि' च । मुनीनां स्त्रीणाञ्च 'मिनुक्क्' च कल्पितः। इमे वेषप्रकाराः पूर्णतया परिपाल्यन्ते । 'कत्ति' इत्यस्य कथापात्राणां 'कुरुंकत्ति', 'नेटुंकत्ति' इति प्रकारभेदौ वर्तते। 'ताटि' इत्यस्य 'वेळुत्तताटि' (हनूमान्), 'करुत्तताटि' (कलिः), 'चुवन्नताटि' (दुश्शासनः) इति विभागत्रयं वर्तते । एवं 'करि' इत्यस्यापि भेदद्वयमस्ति । पुरुषाणां कृते स्त्रियः कृते च (यथा किरातः, शूर्पणखा च) ।नारदवसिष्ठादीनां मुनीनां महर्षिकेशः, चिबुकं च उपयुज्यते । स्त्रीकथापात्राणां 'मिनुक्क्' । 'मण्णान्', भीरुः, विद्युज्जिह्वः, इत्यादि विलक्षणकथापात्राणि कथाकेल्याः आहार्यवैचित्र्यतां प्रस्फुटयन्ति ।
केरलीयकलारूपणि ५. - कूटियाट्टम्
केरलीयकलारूपाणि ४. - पाठकम्
डो. विजय् कुमार् एम्.
चाक्यार्कूत्त् नामकस्य कलारूस्य संवादरूपो∫यं (അനുകരണം) पाठकं नाम आराधनालयकालारूपम् । अस्य प्रयोक्तारः नम्प्यार् समुदायस्थाः । किन्तु इदानीं कलामेनां सर्वे अवतारयन्ति । पाठके, चाक्यार्कूत्त् कलारूपे विद्यमानं परिहासवचनं , तर्जनवचनं (മറ്റൊരാളുടെ നേര്ക്ക് വിരല് ചൂണ്ടി പറയല്) च न विद्यते । अस्मिन् कलारूपे नटस्य वेषः अतीव सरलं भवति । ललाटमङ्कयित्वा (കുറിതൊട്ട്) , शिरसि पाटलसुवेष्टं धृत्वा (ചുവന്ന മുടി ധരിച്ച്), कण्ठे मालां धृत्वा, कटिप्रदेशे पाटलाम्बरं च धृत्वा (അരയില് ചുവന്ന പട്ട് ധരിച്ച്) नटः वेद्यां प्रविशति । मानवानां स्वभावसंस्करणमेव कलारूपस्यास्य उद्देश्यः ।
केरलीयकलारूपाणि ३. - चाक्यार्कूत्त्
कैरल्यां कूत्त् इति पदं कर्दनम् (ശബ്ദിക്കല്) इति संस्कृतपदस्य तद्भवं भवतीति पण्डिताः वदन्ति । एवं चाक्यार् इति कैरलीपदस्य श्लाघ्यवाक् (നല്ല വാക്ക് ഉച്ചരിക്കുന്നവന്) इत्यर्थः । पुराणेतिहासादिषु विद्यमानाः कथाः सविस्तरं प्रतिपादयति चाक्यारः । वाचिकाभिनयप्रधानं कलारूपं भवति कूत्त् । सभायामुपस्थितान् प्रेक्षकानपि कथापात्रत्वेन परिकल्प्य मनुष्यसाधारणानि दौर्बल्यानि समकालिकजीवितेषु दृश्यमानान् प्रश्नान् च सरसया रीत्या सः प्रतिपादयति । तस्य हास्यप्रयोगसामर्थ्यं विशेषतः प्रस्तावमर्हति ।
दीपालङ्कृतं रङ्गं प्राप्य नम्प्यार् 'मिषाव्' इति वाद्ये प्रथमं तालक्रममाचरति । ततः चाक्यारः प्रविश्य चारि इति विश्रुतं नृत्तमाचरति। पुनश्च पीठिकायाः अवतारणानन्तरं चम्पूग्रन्थेभ्यः अथवा प्रबन्धेभ्यः स्वीकृतान् श्लोकान् सविशेषया रीत्या आलपति । द्वितीयपादस्य चतुर्थपादस्य च आलापनानन्तरं मिषाव् इत्यस्मिन् तालं वादयति नम्प्यारः तदनन्तरं श्लोकार्थम् अन्वयक्रमेण विवृण्वन् चाक्यारः स्वपाटवं प्रदर्शयति ।
(प्राचीनपाठपुस्तकाद् उद्धृतः अयं भागः)
Thursday, October 6, 2011
दिशानिर्णयः
प्राह्नान्ते शङ्कुच्छाया यदा यत्र वृत्तरेखायां पतति तदा तत्र अङ्कनं कुर्यात् (B)।एवं अपराह्ने∫पि (C)।
प्राणायामः
Wednesday, October 5, 2011
निलानदी
महच्चरितमाला ८. - वर्धमानमहावीरः
वर्धमानमहावीरः
अहिंसां परमं धर्मं मन्वते जैनाः । जैनधर्मस्य स्थापकाः तीर्थङ्कराः इत्युच्यन्ते । चतुर्विंशति तीर्थङ्कराः आसन्निति जैनानां विश्वासः । तेष्वन्तिमो वर्धमानमहावीरः मगधेषु वैशालीनगरप्रान्ते कुण्डग्रामे सिद्धार्थनाम्नः पितुः जन्म लेभे । मातास्य त्रिशाला नाम क्षत्रियाणी । वर्धमानस्य बाल्यमधिकृत्य किमपि न ज्ञायते । यशोदां नाम राजकन्यकां परिणीय त्रिंशे वयसि गृहस्थाश्रमं त्यक्त्वा परिवव्राज । नग्नो भूत्वा द्वादशसंवत्सरांस्तीव्रं तपस्तेपे । त्रयोदशे वर्षे ऋजुबालुकानद्या उत्तरे तीरे जृम्भिकाग्रामे स केवलज्ञानमलभत । तदा प्रभृति केवली इति जिन इति च तस्य नामनी अजायेताम् । अनन्तरं त्रिंशतं वर्षान् स्वोपज्ञं धर्मं प्रचारयामास । द्विसप्ततितमे वयसि क्रिस्तोः पूर्वं ५२७ तमे वर्षे कार्तिकमासे अमावास्यां रात्रौ निर्वाणमलभत च।
वर्धमानमहाविरस्य अनुयायिनः जैनाः इति निर्ग्रन्था इति च उच्यन्ते । श्वेतांबराः इति दिगंबरा इति द्वौ विभागौ जैनानाम् । दिगम्बराः मनयः नग्नाश्चरन्ति । श्वेतांबरास्तु श्वेतं वस्त्रं धृत्वा । अहिंसा, सत्यं, अस्तेयः, ब्रह्मचर्यं, अपरिग्रहश्च जैनैराद्रियन्ते । अपरिग्रहस्यैव परा काष्ठा वस्त्रत्यागः । सम्यक् विश्वासेन, सम्यक् ज्ञानेन, सम्यक् कर्मणा च मनुष्याः संसाराद्विमुक्ताः भवन्ति । त्रीणीमानि रत्नत्रयमित्युच्यन्ते । जैनधर्मो रत्नत्रये प्रतिष्ठितः ।
(प्राचीनपाठपुस्तकादुद्धृतः अयं भागः)
महच्चरितमाला ७. - पतञ्जलिः
पतञ्जलिः
सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः ।
स्वमतानि च वर्ण्यन्ते भष्यं भाष्यविदो विदुः ।।
पाणिनिकृतं शब्दानुशासनं, तस्मिन् कात्यायनेन कृतं परिष्कारं च अवलम्ब्य यः प्रसन्नगम्भीरं महाम्भोधिसमं महाभाष्यं व्यलेखि स एव महर्षिः पतञ्जलिः । महाभ्ष्यस्य गद्यशैली ह्रस्वसमासयुक्ता सरला च भवति । पुरातनकाले सर्वत्र जनपदेषु संस्कृतमाश्रित्यैव पामरसाधारणजनाः व्यवाहारः कृतवन्तः इत्यत्र महाभाष्यमेव निदानं भवति । पाणिनिकात्यायनपतञ्जलिषु यथोत्तरं मुनीनां प्रामाण्यम् इति सुविदितं वचनं पतञ्जलेः प्रामाण्यपारम्यं प्रकाशयति ।
महाभाष्ये वर्तमान, गोनर्दीय इति अभिधानात् गोनर्दः अस्य जन्मग्राम इत्यवगम्यते । गोणिकापुत्र इति निर्देशात् तस्य मातुः मान गोणिका इत्यपि ऊह्यते । चिदंबरे पुत्रकाम्यया श्रीशङ्करं भजन्त्या गोणिकाया अञ्जलिपुटे एकदा अल्पप्राणः सर्पशिशुः द्युतलादापातयत् ।यो∫यं शङ्करभूषणः फणी गोणिकया पुत्रत्वेनाङ्गीकृतः पतञ्जलिरिति प्रथां भेजे इत्यस्ति ऐतिह्यम् । पण्डिताः क्रिस्तोः पुर्वं द्वितीयं शतकं कलयन्ति पतञ्जलेः जीवितकालम् । पतञ्जलिप्रणीतं ग्रन्थत्रयं समुपलभ्यते, व्याकरणमहाभाष्यम्, निदानसूत्रम्, योगसूत्रं च । अतएवोच्यते -
योगेन चित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन ।
यो∫पाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतो∫स्मि ।।
(प्राचीन पुस्तकादुद्धृतः)
महच्चरितमाला ६. - वररुचिः (कात्यायनः)
वररुचिः (कात्यायनः)
वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् ।
पाणिनिं सूत्रकारं च प्रणतो∫स्मि मुनित्रयम् ।।
पाणिनीयसूत्राणाम् उक्तानुक्तदुरुक्तचिन्तापराणि वार्तिकानि वररुचिना विरचितानि । ज्योतिर्वेत्ता, स्मृतिकारः, काव्यकर्ता चायं वररुचिः याज्ञवल्क्यमुनेस्तनयः इति केचिद्वदन्ति । अस्य वररुचेः अपरमभिधानं भवति कात्ययन इति । अयं क्रिस्तोः पूर्वं तृतीये शतके लब्धजन्माभूदिति श्रूयते । कण्ठाभरणम्, वसन्ततिलकम्, स्वर्गारोहणमित्येतेषु काव्येषु स्वीयं कविकौशलं प्रकाशयन् अयं कात्यायनः सुत्रपरिष्करणपरैः स्ववार्तिकैः कियतीं शोभां पाणिनीये पुपोष इति शब्दतत्त्वविदः एव जानन्ति ।
न केवलं व्याकरणं पुपोष दाक्षीसुतस्येरितवार्तिकैर्यः ।
काव्ये∫पि भूयोनुचकार तं वै कात्यायनो∫सौ कविकर्मदक्षः
प्राचीनपुस्तकस्थः भागः ।
महच्चरितमाला ५. - महर्षिः पाणिनिः
महर्षिः पाणिनिः
येनाक्षरसमाम्नायमधिगम्य मुनीश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ।।
विपुलस्य संस्कृतवाङ्मयस्य महदाधारभूतं यदस्ति समग्रमेकं व्याकरणं तस्य प्रणेता भगवान् पाणिनिरिति सुविदितमेव विदुषाम् । षण्णामपि वेदाङ्गानां मध्ये मुख्यतया प्रस्तूयमानं, अत एव वेदानां वदनम्, वाग्देवीसदनं च भवति इदं व्याकरणम् । अत एव तदनधीतवद्भिः काणादे, वेदान्ते, भाषाशास्त्रे, शास्त्रान्तरे वा प्रवेशो दुरधिगमः । पाणिनिप्रोक्तं व्याकरणं सर्वशास्त्रेपकारकमित्यतः सर्वैरङ्गीकृतम् च।
शाकटायनापिशालीप्रभृतयः पूर्वसूरयः वैदिकस्य लौकिकस्य च संस्कृतस्य व्याकरणं कृतवन्तः, प्रातःस्मरणीयाश्च भवन्ति । तथापि पाणिनिरिति नामैव वैयाकरणानाम् इतरेषां च रसनाग्रे सदा नृत्यति । कुतः इति चेत् मुनिरयं वितत्य स्थितं व्याकरणं तत्पिपठिषूणाम् उपकाराय यथाविभागं संजिघृक्ष । सूत्रैः शास्त्रमिदं लघुतरं चकार । इमानि सूत्राणि घटनावैचित्र्येण पठतां श्रृण्वतामपि बुद्धौ विनाविलम्बं प्रतिष्ठां लभन्ते । वृक्षस्य बीजः इव सूत्रेषु शास्त्रतत्त्वानां गुम्फनं मनीषिणां मोदाय भवन्ति ।
तथा चोक्तम् -
अल्पाक्षरमसन्दिग्धं सारवत् विश्वतोमुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ।।
अविकलं शब्दशास्त्रं चिकीर्षुः पाणिनिः प्रथमं महेश्वरमुपासाञ्चक्रे । प्रीतश्च नटराजः नृत्तावसाने स्वीयां ठक्कां नवपञ्चवारं ननाद । डमरुनिःसृता माहेश्वरसूत्राख्या नादपरम्परा मुनेर्मनीषामुदमीलयत् । एतानि माहेश्वरसूत्राणि आधारीकृत्य पाणिनिः सूत्रपाठं निर्ममे इति किल वैयाकरणानां विश्वासः । अचिरादेव अस्य शास्त्रस्य विद्वज्जनसम्मतिः समजनि ।
गान्धारेषु सिन्धुकुमानद्योः सङ्गमसमीपस्थिते शालातुरग्रामे लब्धजन्मायं महात्मा पणिगोत्रजः । क्रिस्तोः पूर्वं पञ्चमे शतके अयं वैयाकरणाग्रणीः जीवितमधारयदिति पण्डिताः मन्यन्ते । जाम्बवतीजयम् इत्येकं काव्यं पाणिनिप्रणीतं गणयन्ति गवेषकाः ।
महच्चरितमाला ४. - श्रीनारायणगुरुः
श्री नारायणगुरुः
लोकचक्रे चलति कदाचिल्लब्धजन्मानो भवन्ति लोकोपकारिणो महान्तः । तेषामचिन्त्यहेतुकानि अलोकसामान्यानि धर्मव्यवस्थापकानि कर्माणि कैश्चिदेव सम्यगवगम्यन्ते ।
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्यय तदात्मानं सृजाम्यहम् ।।
इति भगवद्वचनमनुस्मारयन्तस्ते माहात्मानः अधर्ममुन्मूल्य धर्मसंस्थापनाय कृतावताराः कीर्त्यन्ते । कर्मणा स्वीयेनैव महत्तामुपगतास्ते महात्मानः कालान्तरे∫पि स्मर्यन्ते, आद्रियन्ते च । तादृशेषु नित्यस्मरणीयेषु आध्यात्मिकाचार्येषु जनहृदयन्यस्तपादः कश्चिदासीत् श्रीनारायणगुरुदेवः ।
तदात्वे अस्पृश्यत्वेनावर्ण्यत्वेनाधःकृतत्वेन वा परिगणिते कस्मिंश्चित् समाजे एकत्रिंशदधिकैकसहस्रतमे (१०३१) कोलम्बाब्दे श्रावणमासि श्रीनारायणो∫वतीर्णः । अनन्तपुर्यां नातिदूरस्थे चेम्पषन्तिग्रामे वयल्वारं भवनमस्य जन्मगृहम् । अस्य माता कुट्टियम्मा पिता च माटनाशान् इति प्रथितो विद्वांश्च ।
बालस्य नारायणस्य अक्षरविद्यासमारंभः चेम्पषन्तिमुत्तुप्पिल्ल इति विश्रुतेन पण्डितेन कारयामासे । ततः क्रमेण स निशातधिषणो बालः संस्कृतभाषां पठितुं नियुक्तः, मलयालम्, तमिल्, संस्कृतमिति भाषात्रये∫पि कालेनाल्पेनैव निष्णातो∫भवत्। ततः संस्कृतभाषायां शास्त्रार्थावगमार्थं कुमार एव सः मातुलेन कृष्णन् वैद्यन् नामकेन पुतुप्पल्लिवारणप्पल्लिनामकम् उदारशीलानां भवनमुपनीतः । तत्र चेरुवण्णूराचार्यस्य रामन्पिल्ल महाशयस्य अन्तेवासित्वेन कालं नयन्नसौ नारायणः बहूनि काव्यानि शास्त्राणि चाधीतवान् । अयं च पठनावसरेषु इतरान् सर्वानपि सतीर्थ्यान् स्वशेमुष्या अनायासमधरीचकार । कुमार एषासौ व्रतनिष्ठः विविक्तसंस्थश्चासीत् ।
पित्रोर्मृतयोः यदृच्छया कृतपरिणयो∫पि नैष्ठिकः सः गृहं हित्वा निर्जगाम । श्रीनारायणः स्वस्य एकोनत्रिंशे वयसि परिव्राजकत्वमापाद्यत । कदाचिदसौ कानिचिद्दिनानि पेरुनल्लि भवने संस्कृतग्रन्थनिरीक्षणार्थं वसन् परमभट्टारकश्रीविद्याधिराजस्य सौहृदमार्जितवान् । एतौ द्वावपि तपस्विनौ कञ्चित्कालं सन्ततसहवर्तिनावास्ताम् । तौ योगाचार्यं तैक्काट्टार्यनामानमुपेत्य हठादीर्योगविद्याः काश्चिद् अधीयतुः । शिष्टांश्च श्रीनारायणो मरुत्वाद्रिमेत्य तत्र स्वयं परिशीलितवान् । मरुत्वाद्रेरधित्यकायां पिल्लत्तटनामकमस्ति किमपि बिलम् । तत्र स दर्भास्तीर्यासनः तपस्तेपे । फलेन, पर्णेन, जलेन, वायुना च शरीरस्य स्थितिं कल्पयन् दिनान्यनयत् । अनन्तरं तपसो निवृत्तश्च दक्षिणभारते बहून् देशानटन् अवधूतो∫सौ अम्माळ् योगिन्या नागर्कोविल् देशस्थया आशीभिरनुगृहीतः । अवधूतत्वेन कालं यापयन्नसौ तदात्वे अधःकृतानामवशानाञ्च जनानां समाजेषु सञ्चरन् तेषां समुद्धरणोपायान् चिन्तयन्नासीत्। ऐस्लामिकाः क्रैसेतवाश्च तं बह्वमन्यन्त ।
नारायणावधुतः कदाचित् अरुविप्पुरं इति नाम्ना पश्चाद् विश्रुतं वनप्रदेशं प्राप । तं च पश्चात् शिवलिङ्गस्वामीति प्रथितः कश्चित्तपस्वी शिष्यतया प्रपेदे । क्रमेण बहवो जनाः सर्वतस्तत्र समागताः । एवम् अरुविप्पुरं किञ्चन तीर्थस्थानं समभवत्। यदद्ध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते । तत्र च श्रीनारायणगुरुदेवेन शिवलिङ्गाकारः शिलाखण्डः प्रतिष्ठापितः। तत्र शिवमन्दिरे लिखितमेतत् ।
जातिभेदं मतद्वेषं विना यत्र नराः समे ।
सोदरत्वेन तिष्ठन्ति मातृकास्थानमप्यदः ।।
श्रीनारायणगुरुदेवः कैरल्यां गैर्वाण्याञ्च स्तोत्राणि गीतानि च व्यरचयत् । तेष्वन्यतमं अतिविश्रुतं कुण्डलिनीगीतम् । दैवशतकम्, अद्वैतदीपिका, जननीनवरत्नमञ्जरी, आत्मोपदेशशतकम्, दर्शनमाला, मुनिचर्यापञ्चकम्, ब्रह्मविद्यापञ्चकम् इत्यादयश्च मुख्याः अस्य कृतयः । धर्मचिन्तकः आदर्शवादी अवशसमाजोद्धारकः समुदायपरिष्कर्ता समदर्शी च गरुदेवः आलुवानामके स्थाने अद्वैताश्रमं स्थापयामास । किञ्च श्रीनारायणधर्मसंघनामकं समाजं चातनोत् । एका जातिः एको धर्मः एकोदेवः सर्वेषामिति मानवानामित्ययं गुरुदेवस्य सिद्धान्तः । विद्यया प्रबुद्ध्यत्वम्, संघटिताः शक्ता भवत, उद्योगेन संपद्यध्वम्, - इत्ययं गुरूपदेशः अधःकृतानामुद्धारणमन्त्रः दिशि दिशि प्रतिध्वनितो बभूव। जातिवर्णभेदध्वंसको धर्मस्थापकश्च श्रीनारायणपरमहंसः आन्त्ररोगेणातुरः बहुमार्गकैः भिषग्भिः चिकित्सितो∫पि स्वास्थ्यं न लेभे । किञ्च कोलम्बाब्दे चतुरधिकैकादशशततमे (११०४) कन्यायां मासि पञ्चमे दिने सः परमं पदं प्रपेदे ।
महच्चरितमाला ३. - भगत्सिंहः
भरतस्य स्वातन्त्र्यसमरनायकेषु बहवः सेनान्यो येन केनापि हेतुना मृता वा मारिता वा अभवन् । तथा भारतस्वातन्त्र्याय नीतसमरेषु वीरपुरुषेषु अत एवाङ्गलाधिकृतैर्मारितेषु प्रथमगणनीयः आसीद् भगत्सिंहः । ''विप्लवो विजयताम्'' इति मुद्रावाक्यमपि प्रथमतः भारते भगत्सिंहेनैव उच्चारितम् ।
भगत्सिंहः सप्ताधिकैकोनविंशतिशततमे (१९०७) क्रिस्त्वब्दे पञ्चाबदेशे समजायत । अस्य पिता तु राष्ट्रीयवृत्तिः आसीत् । माता विद्यावती च । पुत्रस्य जन्मवेलायां पिता कृष्णसिंहः कारायां बद्धः आसीत् । भगत्सिंहः बाल्ये कृशः शान्तश्चासीत् ।
आडंबरविमुखो∫यं बालः आर्यसमाजस्य पाठशालायां ततो लाहोरस्थायां राष्ट्रीयमहाविद्याशालायां च क्रमशः अपठत् । असौ पञ्चदशवर्षदेशीयः एव आङ्गलेभ्यो मातृभूमिं रक्षितुम् ऐच्छत् । स विविधदेशसंबन्धिनः क्रान्तिसाहित्यप्रातिपदिकान् ग्रन्थान् सञ्चित्य पठन् क्रमेण कश्चित् महान् विप्लवकारी समपद्यत । राष्ट्रीयप्रस्थानात्पुत्रं निवर्तयितुकामः पिता बहुधा कृतप्रयत्नो∫पि कृतार्थतां नाप ।
स्वातन्त्र्यसमरप्रयुक्तानां यूनां कापि सभा षड्विंशत्यैकोनविंशतिशततमे (१९२६) क्रिस्त्वब्दे काण्पूरदेशे प्रावर्तत । तत्र युवभिः भगत्सिंहो नेतृत्वेन अङ्गीकृतः । स विविधेषु जनपदेषु प्रवर्तमानान् आङ्गलविरोधिनः संयोज्य स्वीयां प्रतिरोधशक्तिं पुपोष । एतस्मिन्नवसरे चन्द्रशेखरआसादादिभिः विप्लवकारिभिः सह मैत्रीं च बबन्ध । भारतसमाजवादिगणतन्त्रसभा इति कस्याश्चन परिषदः आविर्भावो∫पि विप्लवकारिणां बलं पोषयामास ।
अथ पञ्चाबदेशे भगत्सिंहः कैश्चित्तरुणैः साकं नवयुवकभारतसभाम् अतनोत् । आङ्गलानभियोद्धुमायुधं ग्रहीतुमपि सभैषा निश्चिकाय । भगत्सिंहस्य प्रभाषणनैपुण्यम्, असाधारणी त्यागशीलता च जनानाचकर्ष । सैमण् कम्मीषन् नामकाङ्गलसङ्घम् अभियोद्धुकामानां जनानां नेता लाला लज्पत् रायी नामकः रक्षिपुरुषाणां ताडनेन मृतः । सान्डेसन् नामको मर्दननिर्देशकः रक्षिपुरुषनायकः भगत्सिंहेन तदैव प्रत्यभिज्ञातः पश्चान्नालिकाशस्त्रेणैव निहतः । आङ्गलाधिकृताः भगत्सिंहादीन् विप्लवकारिणः वैतानिकांश्च जनान् युगपत् पीडयितुं बम्भ्रम्यमाणरक्षिदलं कमपि सेवननियमं च आविश्चक्रुः । केन्द्रीयनियमनिर्माणसभायां नियमाङ्गीकारसमय एव बोम्बस्फोटनं सञ्जातं, प्रसारिता च काचिल्लघुलेखा उद्घुष्टं च ''विप्लवो विजयताम्'' इति मुद्रावाक्यम्
तदानीमेवापराद्धत्वेन गृहीतो भगत्सिंहः कारायां निक्षिप्तः । व्यवहारानन्तरं प्रड्विवाकेनासौ आयुःपर्यन्तं द्वीपान्तरवासाय दण्डनं लब्धः । व्यवहारे च अन्यस्मिन्नयं मृत्युदण्डमेव प्रापितः । एवं एकोनत्रिंशदधिकैकोनविंशतिशततमे (१९३१) क्रिस्त्वब्दे मार्च् मासि त्रयोविंशे दिने भगत्सिंहः आङ्गलाधिकृतैः उद्बन्धनेन मारितः । कथेयं भारतीयानां हृदयं सदा पर्याकुलयत्येव ।
भगत्सिंहमधिकृत्य कृताः वीरगाथातल्लजाः उत्तरभारतग्रामान् नगराणि च अद्यापि मुखरयन्ति ।
भगत्सिंहस्य मरणानन्तरं प्रसिद्धीकृतम् वृत्तान्तपत्रम्
(प्राचीनपाठपुस्तकादुद्धृतोयं गद्यांशः)