बालकथामञ्जरी ७
मेषपालबालकः
कस्मिंश्चित् ग्रामे कश्चित् मेषपालः आसीत् । सः प्रतिदिनं मेषाणां यूथं चारणाय वनमनयत् । कदाचित् सः स्वस्य पुत्रं मेषाणां चारणाय प्रैषयत् । चपलः सः बालः वनं गत्वा विनोदाय ''व्याघ्रः आगच्छति, व्याघ्रः आगच्छति'' इति उच्चैः आक्रोशत् । बालस्य शब्दमाकर्ण्य प्रातिवेशिकाः जनाः आयुधानि गृहीत्वा बालस्य समीपमधावन् । तत्र व्याघ्रः नासीत् । बालः आगतान् तान् दृष्ट्वा अहसत् । ''अयं बालः चपलः मुधा आक्रोशत्'' इत्युक्त्वा ते न्यवर्तन्त ।
अथ अपरेद्युः सत्यमेव व्याघ्रः आगच्छत् । भीतः बालः पूर्ववत् ''व्याघ्रः, व्याघ्रः'' इति आक्रोशत् । ''बालः अस्मान् वञ्चयितुमाक्रोशति'' इति मन्यमानाः जनाः नागच्छन् । व्याघ्रः कतिपयान् मेषान् अभक्षयत् । बालः भीत्वा दूरं पलायत ।
पश्यत ! असत्यवचनस्य फलम् । विनोदायापि असत्यं कदापि मा वदत । ''सत्यं वद धर्मं चर'' इति वेदः अस्मान् उपदिशति ।