बालकथामञ्जरी ५
जम्बुकः जम्बुकः एव ।
कदाचित् कश्चन सिंहः आहाराय वने अभ्रमत् ।परन्तु सः एकमपि मृगं नालभत ।अन्ते सः कमपि जम्बुकशिशुम् अपश्यत् ।सः तं स्वस्य गुहामनयत् । ततः प्रियतमां सिंहीम् अवदत् - '' प्रिये अयं जम्बुकशिशुः अद्य तव आहारो भविष्यति '' इति । तं शिशुं विलोक्य सा अकथयत् - '' नाथ, अहमिमां शिशुं हन्तुं न इच्छामि । मम पुत्राभ्यां सह एनं पालयिष्यामि । अयं तयोः अग्रजो भविष्यति ।एषः ताभ्यां सह क्रीडतु '' इति।
ते त्रयः शिशवः क्रमेण अवर्धन्त । सहैव ते व्यहरन् । अयं जात्या जम्बुकः इति सिंहशिशू न अवगच्छताम् ।
एकदा वने कमपि गजं दृष्ट्वा तौ सिंहबालौ अवदताम् - ''अयं गजः अस्माकं शत्रुः । इमं मारयिष्यामः '' इति ।परन्तु जम्बुकबालकः गजं दृष्ट्वा भीतः पलायत ।गृहं गत्वा सिंहबालौ मात्रे न्यवेदयतताम् - '' मातः, अयमावयोः अग्रजः भीरुः । गजं दृष्ट्वा भीतः गृहं प्रति अधावत् '' इति ।जम्बुकबालः अनुजयोः निन्दया क्रुद्धः ताभ्यां द्रोग्धुं उद्युक्तः अभवत् ।तदा सिंही तमेकान्ते आहूय अवदत् - '' त्वं ताभ्यां सह कलहं मा कुरु ।तौ सिंहबालौ त्वं शृगालबालः ।कलहे तौ त्वं मारयिष्यतः '' इति ।तदाकर्ण्य जम्बुकबालः तूष्णीम् अतिष्ठत् । यथावसरं पलाय्य शृगालयूथम् एव प्राविशत् च ।
जम्बुकः जम्बुकः एव । सः कदापि सिंहः न भवति ।