बालकथामञ्जरी - १
दुष्टसंगतिः
एकदा द्वौ बालौ विद्यालयम् अगच्छताम् । तयोः एकः आसीत् माधवः । सः सुगुणः आसीत् । अपरः आसीत् शेखरः। स तु दुर्गुणः । मार्गे तौ कमपि पथिकम् अपश्यताम् । दुर्गुणः शेखरः पथिकं दृष्ट्वा एवम् अचिन्तयत् - ''अहं पथिकस्य उपरि पाषाणखण्डं क्षिपामि ।ततः शीघ्रं पलाये'' इति ।
एवं विचिन्त्य सः पाषाणघण्डेन पथिकं प्राहरत् । ततः सः पलायत । पाषाणेन प्रहृतः पथिकः झटिति मुखं परावर्तयत्। तदा सः सुगुणं माधवं एव अपश्यत् । शेखरः कुत्रचित् निलीनः आसीत् ।
माधवः एव पाषाणम् अक्षिपत् इति पथिकः अमन्यत । अतः क्रुद्धः सः निरपराधं माधवम् अताडयत् । एवं माधवः दुष्टस्य शेखरस्य संसर्गेण दण्डम् अलभत । अत एव उच्यते -
।। न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित् ।।