बालकथामञ्जरी ४
बुद्धिर्यस्य बलं तस्य
कस्मिंश्चन अरण्ये भासुरको नाम सिंहः आसीत् । सः प्रतिदिनं बहून् मृगान् हत्वा अभक्षयत् । एकदा सर्वे मृगाः सिहस्य समीपं गत्वा अकथयन् - '' मृगराज, प्रतिदिनमेको मृगः त्वामुपगमिष्यति । तथा त्वं क्लेशेन विना भक्षणं लप्स्यसे ।'' इति । सिंहः प्रत्यवदत् - '' एवमस्तु '' इति ।
ततः प्रभृति प्रतिदिनम् एकैकः मृगः सिंहस्य समीपमगच्छत् । सिंहः तं हत्वा अखादत् । एकदा शशकस्य वारः आसीत् । सः विलम्ब्य मृगराजस्य समीपमगच्छत् । तत्र गत्वा सः क्षुधया कुपितं सिंहं प्रणम्य अवदत् - '' प्रभो अस्मिन् वने अन्यः कश्चन सिंहः अस्ति । सः मां भक्षयितुम् ऐच्छत् । अहमेव मृगराजः इति सः कथयति इति।'' शशकस्य वचनमाकर्ण्य क्रुद्धः भासुरकः '' सः सिंहः क्व वर्तते '' इति अपृच्छत् ।
शशकः भासुरकं कस्यचित् कूपस्य समीपम् अनयत् । भासुरकः कूपस्य जले स्वस्य प्रतिबिंबमपश्यत्। सः प्रतिबिंबम् अन्यं सिंहम् अमन्यत । अतः तं हन्तुं कूपे उदप्लवत । सः जले मग्नः अम्रियत । अत एव इदं वचनम् -
बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।
वने सिंहो मदोन्मत्तः शशकेन निपातितः ।।