बालकथामञ्जरी ३
लवकुशौ
सीता श्रीरामचन्द्रस्य पत्नी आसीत् । सा वाल्मीकेः आश्रमे द्वौ पुत्रौ प्रासूयत । तौ शुक्लपक्षे चन्द्र इव क्रमेण अवर्धेताम् । तयोः बाललीलां पश्यन्ती सीता कालम् अनयत् । वाल्मीकिः तयोः एकस्य लवः इति अपरस्य कुशः इति च नामधेयम् अकरोत् ।
तौ क्रमेण वर्धमानौ वाल्मीकेः सकाशात् सर्वाः विद्याः अशिक्षेताम् । धनुर्वेदे अपि तौ निपुणौ अभवताम्।
एकदा लवः अन्यैः मुनिकुमारैः सह क्रीडायां व्यापृतः आसीत् । तदा सः कमपि अश्वम् अपश्यत् । '' अयं यागाश्वः । भवन्तः इमम् आश्रमं नयन्तु '' इति लवः मुनिकुमारान् अवदत् । अश्वरक्षकाः सैन्याः अश्वं मुनिकुमारैः नीयमानम् अपश्यन् । '' अश्वं मुञ्चत, अन्यत्र मा नयत '' इति ते मुनिकुमारान् अवदन् । यदा कुमाराः अश्वं न अमुञ्चन् तदा ते सेनापतये चन्द्रकेतवे न्यवेदयन् । चन्द्रकेतुः आगत्य '' अश्वं मुञ्चत '' इति अवदत् । '' यदि युष्माकं शक्तिरस्ति तर्हि आवां जित्वा अश्वं नयत '' इति लवः कुशश्च प्रत्यवदताम् ।
'' मुनिकुमारौ अश्वं विसृजतां साहसं मा कुरुतम् '' इति चन्द्रकेतुः तौ उपादिशत् । परन्तु लवकुशौ युद्धाय सन्नद्धौ अभवताम् । युद्धे तौ चन्द्रकेतुं तस्य महतीं सेनां च अजयताम् ।
(बालानां लोट् लकारज्ञानार्थं कथेयमुपयुज्यते)