roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Friday, January 6, 2012

Sanskrit stories for children

बालकथामञ्जरी

स्वभावकृपणः

कस्मिंश्चित् नगरे स्वभावकृपणः नाम ब्राह्मणः अवसत् । सः भिक्षया लब्धैः सक्तुभिः कलशम् अपूरयत्।सः ब्राह्मणः तं कलशं गृहे क्वचित् निक्षिप्य तस्य समीपे शयितः आसीत् ।शयानः सः एवम् अचिन्तयत् - '' अयं घटः सक्तुभिः पूर्णः । दुर्भिक्षकाले अस्य विक्रयेण अहं रूप्याकाणां शतं लप्स्ये । तेन धनेन द्वे अजे क्रेष्यामि। तयोः अजयोः सन्ततिभिः यूथं भविष्यति । अजायूथेन गाः सम्पादयिष्यामि । गोभिः महिषीः, महिषीभिः बडवाः। बडवाभ्यः प्रभूताः अश्वाः उत्पत्स्यन्ते ।अहं तेषां विक्रयणेन प्रभूतं धनं लप्स्ये । धनेन तेन एकं चतुःश्शालकं गृहं रचयिष्यामि । तदा कश्चित् ब्राह्मणः मह्यं कन्यां दास्यति ।सा काले पुत्रं प्रसोष्यते । तस्य सोमशर्म इति नामधेयं करिष्यामि । सः क्रमेण पाणिभ्यां जानुभ्यां च चरति । सः पुस्तकरायणे मग्नस्य मम समीपं आगमिष्यति । तदा अहं बालकं क्रोधात् अपनेतुं ब्राह्मणीं निर्देक्ष्यामि । गृहकार्ये व्यापृता सा मम वचनं न आकर्णयिष्यति ।तदा अहं समुत्थाय तां पादेन प्रहरिष्यामि ।'' एवं चिन्तायां निलीनः सः उत्थाय पादेन प्राहरत्। तेन प्रहारेण सः सक्तुपूर्णःघटः भग्नः । सक्तुभिः ब्राह्मणः पाण्डुरः अभवत् ।

अनागतवतीं चिन्ताम् असंभाव्यां करोति यः ।

स एव पाण्डुरः शेते सोमशर्मपिता यथा ।।

(बालानां भविष्यकालप्रयोगज्ञानाय अपि कथेयमुपयुज्यते)