roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Wednesday, September 21, 2011

आरन्मुलदर्पणः


टंकणं एवं चित्रसंयोजनं
डो. विजय् कुमार् एम्


'आरन्मुलदर्पणः' केरलस्य अतिविशिष्टा अत्यपूर्वा च कलासृष्टिः । आरन्मुलदेशस्थस्य कस्यचन 'कुटुम्बस्य कुलकर्म भवति एतत्। तेषां स्वायत्तं वैदग्ध्यं च तस्य निदानं भवति । भषायां 'वेल्लोट्' नामकस्य लोहसङ्करस्य योजनेन, तस्य अग्नौ दीपनेन, एवंपौपुन्येन घर्षणेन च दर्पणः सम्पद्यते । अस्य निर्माणचातुरी अनुपमा एवं अत्युत्तमा च । 'आरन्मुलर्पणः' देशविदेशेषु प्रसिद्धः भवति।