roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Tuesday, September 20, 2011

केरलीयकलारूपाणि २. - तुल्लल्

टंकणं एवं चित्रसंयोजनं
डो. विजय् कुमार् एम्

सामान्यजनानां
मध्ये प्रचुरप्रचारमाप्तं कलारूपं भवति तुल्लल् । तस्य ओट्टन्, शीतङ्गन्, परयन् इति त्रैविध्यमस्ति । नृत्तनृत्यनाट्यादीनां मिश्रणं कलारूपे∫
स्मिन् दृश्यते । पदार्थाभिनयः वाक्यार्थाभिनयश्चात्र प्रचलति । तत्तु भावरसादीनाविष्करोति ताललयादीननुसरति च । विशेषरूपेण वस्त्राणि किरीटकटहादीनि च धृत्वा नर्तकः नृत्यति

तुल्लल् कलाकारः एव प्रथमं गानालापनं करोति । अन्यः अनुगायति तालक्रममाचरति च । मुरजवादने समर्थः अन्यः मुरजवादनं करोति । तुल्लल् कलाकारः गानालापनसमय एव मुद्राभिः मुखेन च अभिनयति

ओट्टन् आदिषु वेषभूषादिविषये विशेषो∫स्ति । ओट्टन्मध्ये तरङ्गिणी, शीतङ्कन् मध्ये कृशमध्या, वक्त्रं, कलकाञ्ची, काकली, परयन् मध्ये मल्लिका इत्यादीनि भाषावृत्तानि प्राधान्येन प्रयुज्यन्ते ।

।। शीतङ्कन् तुल्लल् ।।




।। ओट्टन् तुल्लल् ।।



।। परयन् तुल्लल् ।।