roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Monday, October 29, 2012

'वैज्ञानिकयुगे संस्कृतम्' विचारसत्रम्





तृश्शिवपेरूर् - केरलसंस्कृत अक्कादमी तथा केरल संस्कृताध्यापक फेडरेषन् 
 द्वारा 'वैज्ञानिकयुगे संस्कृतम्' इत्यस्मिन् विषये आयोजितम् 
एकदिनविचारसत्रम् तृश्शूर् विवेकोदयं बालकोच्चविद्यालयसभाङ्गणे 
समचलत्। ईश्वरप्रार्थनया सह प्रारब्धे कार्यक्रमे डो. एम्. वि. नटेशन् वर्यः 
स्वागतभाषणं, डो. पि.सि. मुरलीमाधवन् वर्यः आमुखभाषणं
 चाकुरुताम्। कार्यक्रमस्योद्घाटकत्वेन विराजितः डो. एन्.पि.उण्णि
 महोदयाः। अवसरेsस्मिन् आध्यक्षमावहत् डो. के.टि. माधवन् वर्यः च।
     सत्रेsस्मिन् विशालं विपुलं च विषयं प्रतिपादितवान् 

डो. एन्.के सुन्दरेश्वरन् वर्यः, यः कालिक्कट् सर्वकलाशालायां 
संस्कृतविभागाध्यक्षः वर्तते। संवृत्ते प्रबन्धे महती चर्चा च 
संस्कृताध्यापकैः छात्रैश्च अकारि। बहवः संस्कृताध्यापकाः संस्कृतप्रेमिणः
 च सत्रेsस्मिन् भागं स्वीकृतवन्तः। संस्कृतस्य सांप्रतिकस्थितिं विज्ञाय 
तस्य प्रगतये आधुनिकैः किं कर्तुं शक्यते तथा संस्कृतस्य नूतनसाध्यताः
 काः इत्यादिषु विषयेषु चर्चाः संवृत्ताः।
     केरल संस्कृत अक्कादमी सर्वकारस्य अधीने प्रवर्तमाना समितिः 

भवेदिति अक्कादम्याः इदानीन्तन कार्यदर्शी डो. पि.सि.
 मुरलीमाधवन् महोदयः स्वमतं प्राकटयत्।
     आयुर्वेदस्य कायबालोर्ध्वाङ्गादीनि अष्टाङ्गान्यधिकृत्य तथा गणितशास्त्रे

 संस्कृतस्य विशिष्य भारतस्य योगदानविषये च डो. सुन्दरेशन् वर्येण स्वप्रभाषणे 
विशिष्टा श्रद्धा प्रवृत्ता। संगमग्राममाधवकृतगणितप्रक्रियायां 'पै'
 इत्यस्य मूल्यप्रतिपादकश्लोकमुद्धृत्य गणितशास्त्रस्य संबन्धः अनेन प्रतिपादितः।
     श्री अशोकन् पुरनाट्टुकरा महोदयस्य कृतज्ञताभाषणेन सह 

कार्यक्रमस्य समापनमभवत्।