roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Monday, October 22, 2012

प्रोफ. आर्. वासुदेवन् पोट्टिमहोदयाय डि.लिट्ट् बिरुदम् ।

जयतु जयतु संस्कृतवाणी
वन्दे गुरु परम्पराम्


- श्री शङ्कराचार्यसंस्कृतसर्वकलाशाला
 प्रमुखसंस्कृतपण्डितवरेण्याय
 प्रोफ. आर्. वासुदेवन् पोट्टिमहोदयाय
 तस्य संस्कृतभाषायै समर्पितं सम्पूर्णं
 धैषणिकजीवनं पुरस्कृत्य पुरस्कृत्य डि.लिट्
 बिरुदं प्रदास्यति।  


     दक्षिणकर्णाटके एकोनत्रिंशत्यधिक-एकोनविशतितमे 
क्रिस्त्वब्दे (1929) वि.रामन् पोट्टि महोदयस्य पुत्रत्वेन 
प्रोप. आर् वासुदेवन् पोट्टि जनिमलभत। सः महाभागः 
तिरुवनन्तपुरं संस्कृतपाठशालायामेवं तिरुवनन्तपुरं
संस्कृतकलाशालायाञ्च अध्ययनमकरोत्।
 सप्तचत्वारिंशत्यधिकैकोनविंशतिशततमे क्रिस्त्वब्दे(1947)
 व्याकरणशास्त्रे महोपाध्यायाख्यं बिरुदं स्वीकृत्य तदनन्तरं 
संस्कृत-मलयाल-हिन्दी भाषासु एम्.ए बिरुदं स्वायत्तीकृतवान्।

    पण्डितश्रेष्ठः के यज्ञनारायणशास्त्री, के शिवसुब्रह्मण्यशास्त्री,
 प्रोफ. हरिहरशास्त्री, प्रोफ. बालरामपणिक्कर् इत्यादयः बहवः
 विद्वद्वराः तस्य गुरव आसन्।
     विद्याभ्यासानन्तरं नेटुमङ्ङाट् सर्वकार-उच्चतर-विद्यालये
 अध्यापकत्वेन स्वस्य औद्यागिकजीवितम् आरब्धवान्। ततः 
सर्वकार-संस्कृतकलाशालायां तिरुवनन्तपुरे एवं तृप्पूणित्तुरायाञ्च 
प्रवक्तृत्वेन च कार्यमकरोत्। अधुना औद्योगिकजीवितात् विरम्य
 संस्कृतकार्ये निरतः सन् तिरुवनन्तपरे वसति।
     अयं जनः राष्ट्रीय-साहित्य-अक्कादम्यां संस्कृतस्य प्रतिनिधिरासीत्।
विद्यालयस्तरीय-संस्कृत-पाठपुस्तकसमित्यामध्यक्षः,कैरल्यां
सर्वविज्ञानकोशस्य निर्माणावसरे उपसम्पादकश्चासीत्।
 श्रीशङ्कराचार्य-संस्कृतसर्वकलाशालायां कालट्यां डीन्,  
होनररि प्रोफसर् चासीत्।
      अस्य बहवः ग्रन्थाः निबन्धाञ्च प्रसिद्धीकृताः। 
सिद्धान्तकौमुद्याः कारकप्रकरणस्य कैरलीव्याख्या 
केरलसाहित्य-अक्कादमि पुरस्कारेण पुरस्कृता।
बालहितैषिणी नामिका लघुसिद्धान्तकौमुद्याः कैरलीव्याख्या
शास्त्रवादावली चेति ग्रन्थद्वयं प्रचुरप्रचारमाप।
     भारतस्य राष्ट्रपतिना बहुमतेन तेन अधोक्षजपुरस्कारः,
अमृतकीर्तिपुरस्कारः, वाचस्पतिपुरस्कारः
.के. मुन्षीपुरस्कारः इत्यादयः अनेके 
पुरस्काराः अनेन प्राप्ताः। व्याकरणपाण्डित्यमालक्ष्य
 श्रृङ्गेरि-शारदापीठस्य सुवर्णकङ्कणप्रदानेन सः सम्मानितः।
 तिरुप्पति-राष्ट्रीय-संस्कृतविद्यापीठेन महामहोपाध्याख्येन
 बहुमतिबिरुदेन, चेन्नै-संस्कृतमहाविद्यालयेन दर्शनकलानिधिरिति
 उपाधिना च समलङ्कृतो वर्तते।