द्विकर्मकधातवः
डो. विजय् कुमार् एम्.
दुह्, याच्, पच्, दण्ड्, रुध्, प्रच्छ्, चि, ब्रू, शास्, जि, मथ्, मुष्, नी, हृ, कृष्, वह्, एते षोडशधातवः द्विकर्मकधातवः।
(ദുഹ്, യാച്, പച്, ദണ്ഡ്, രുധ്, പ്രച്ഛ്, ചി, ബ്രൂ, ശാസ്, ജി, മഥ്, മുഷ്, നീ, ഹൃ, കൃഷ്, വഹ്, ഇവയാണ് ദ്വികര്മകധാതുക്കള്.)
वाक्येषु कर्म कदाचित् एकं, कदाचित् द्वे च भवति । यथा - बालः वृक्षात् फलं पातयति । अत्र फलम् इति एकमेव कर्म तत्र द्वितीया च । अपरमुदाहरणं पश्यामः - भल्लूकः वृक्षं फलं अवचिनोति। अत्र वृक्षं, फलं इति द्वे कर्मणी । कुतः ? अवचिनोति इत्यत्र वर्तमानः चि धातुः उपर्युक्त द्विकर्मकधातुषु अन्तर्भवति ।अतः अत्र द्वयोः कर्मणोः अपि द्वितीया विभक्तिः ।
വാക്യങ്ങളില് കര്മം ഒന്നോ രണ്ടോ ഉണ്ടാകാം. ഉദാഹരണത്തിന് - ബാലഃ വൃക്ഷാത് ഫലം പാതയതി. ഇവിടെ ഫലം എന്ന് ഒരു കര്മം മാത്രമേ ഉള്ളൂ. അവിടെ ദ്വിതീയാ വിഭക്തിയും വന്നു. ഇനി മറ്റൊരുദാഹണം നോക്കാം. ഭല്ലൂകഃ വൃക്ഷം ഫലം അവചിനോതി. ഇവിടെ വൃക്ഷം, ഫലം എന്ന രണ്ട് കര്മങ്ങള് ഉണ്ട്. എന്തുകൊണ്ട് ? അവചിനോതി എന്നതിലെ ചി ധാതു മുകളില് പ്രതിപാദിച്ച ദ്വികര്മകധാതുക്കളില് അന്തര്ഭവിക്കുന്നതാണ്. അതുകൊണ്ടാണ് ഇവിടെ രണ്ട് കര്മങ്ങള്ക്കും ദ്വിതീയാവിഭക്തി വന്നത്. )
दुहादि षोडशधातूनाम् उदाहरणानि
दुह् -
अजपालः अजां पयः दोग्धि ।
राजा पृथिवीं कामान् दोग्धि ।
याच् -
याचकः प्रभुं भिक्षां याचते ।
भृत्यः कुपितं प्रभुं दयां याचते ।
(अत्र कुपितं इत्येतत् यद्यपि द्वितीया भवति तथापि प्रभुपदस्य विशेषणत्वेनैव गण्यते।)
पच् -
पाचकः तण्डुलान् ओदनं पचति ।
रामः शाकान् व्यञ्जनं पचते ।
दण्ड् -
सर्वकारः आज्ञालङ्खिनं पञ्चशतं दण्डयति ।
राजा चोरं द्विशतं दण्डयति ।
रुध् -
अजपालः अजां वृक्षं अवरुणद्धि ।
अश्वपालः अश्वं मन्दुरां रुणद्धि ।
प्रच्छ् -
शिष्यः गुरुं धर्मं पृच्छति ।
पथिकः माणवकं पन्थानं पृच्छति ।
चि -
भल्लूकः वक्षं फलानि अवचिनोति ।
बालिका लतां पुष्पाणि चिनोति ।
ब्रू -
तातः तनयं हितं ब्रूते ।
कृष्णः दुर्योधनं सन्धिं ब्रूते ।
शास् -
राजा जनान् धर्मं शास्ति ।
पुराणानि जनान् पुण्यं शासति ।
जि -
चैत्रः मैत्रं शतं जयति ।
पाण्डवाः कुरून् युद्धं जयति ।
मथ् -
देवासुरसङ्खः क्षीरनिधिं सुधां मथ्नाति ।
गोपिका दधि नवनीतं मथ्नाति ।
मुष् -
चोरः वणिजः शतं मुष्णाति ।
मार्जारः महानसं मोदकं मुष्णाति ।
नी -
कश्चित् अजां ग्रामं नयति ।
पिता पुत्रं विद्यालयं नयति ।
हृ -
रावणः सीतां लङ्कां हरति ।
चोरः गां स्वगृहं हरति ।
कृष् -
नृपतिः सपत्नं कारागृहं कर्षति ।
गजः बृहद्दारु ग्रामं नयति ।
वह् -
गर्दभः भारं ग्रामं वहति ।
राधा जलं गृहं वहति ।
कर्मद्वयं अवश्यं वा न वा
द्विकर्मकधातूनां प्रयोगे सर्वत्रापि द्वे कर्मणी स्यातां इति नियमः नास्ति । यथा - चोरः
सुवर्णं अपहरति ।अत्र सुवर्णं इत्येकमेव कर्म हृ इति द्विकर्मकधातुना सह
प्रयुक्तः ।यत्र तु अपादानादि कारकाणि अपादानादित्वेन अविवक्षितानि
प्रयुज्यन्ते तत्रैव द्वे कर्मणी स्याताम् । कर्म च द्वितीयायामेव ।
(ദ്വികര്മകധാതുക്കള് പ്രയോഗിക്കുമ്പോള് എല്ലായ്പ്പോളും രണ്ട് കര്മങ്ങള് വേണമെന്ന് നിര്ബന്ധമില്ല. ഉദാഹരണമായി
ചോരഃ സുവര്ണം അപഹരതി എന്ന വാക്യത്തില് സുവര്ണം എന്ന ഒരു കര്മം മാത്രമേ
ഹൃ എന്ന ദ്വികര്മകധാതുവിനോടോപ്പം പ്രയോഗിച്ചിട്ടുള്ളൂ. എവിടെയാണോ അപാദാനാദി കാരകങ്ങള് അപാദാനാദികളായി വിവക്ഷിക്കാത്തത് അവിടെയാണ് രണ്ട് കര്മങ്ങള് വരുന്നത്)
प्रधानकर्म अप्रधानकर्म च
द्वयोः कर्मणोः मध्ये एकं प्रधानम् अपरं अप्रधानं च भवति । कर्ता किं उद्दिश्य कर्म क्रियते तदेव प्रधानकर्म ।वामनः
बलिं वसुधां याचते इत्यस्मिन् वाक्ये वलिं प्रति वसुधायाः यचना एव वामनेन
क्रियते इत्यतः वसुधायाः प्रधानकर्मत्वं वलेः अप्रधानकर्मत्वं च।
(രണ്ട് കര്മങ്ങളില് ഒന്ന് പ്രധാനവും മറ്റൊന്ന് അപ്രധാനവുമാണ്. കര്താവ് ആരെ-എന്തിനെ ഉദ്ദേശിച്ചാണോ കര്മം ചെയ്യുന്നത് അതാണ് പ്രധാനകര്മം. വാമനഃ ബലിം വസുധാം യാചതേ എന്ന വാക്യത്തില് ബലിയോട് വാമനന് ഭൂമിയെയാണ് യാചിക്കുന്നത് എന്നതുകൊണ്ട് ഭൂമി പ്രധാനകര്മവും, ബലി അപ്രധാനകര്മവും ആകുന്നു)
द्विकर्मकधातूनां कर्तरि कर्मणि प्रयोगः
दुह्, याच्, पच्, दण्ड्, रुध्, प्रच्छ्, चि, ब्रू, शास्, जि, मथ्, मुष् इत्यादि द्वादशधातूनां कर्मणिप्रयोगे अप्रधानकर्म एव प्रथमा विभक्तौ भवति । यथा -
कर्तरिप्रयोगः - गोपालिका गां पयः दोग्धि ।
कर्मणिप्रयोगः - गोपालिकया गौः पयः दुह्यते ।
अत्र गौः इत्येतदेव अप्रधानकर्म ।अतः कर्मणि प्रयोगे तस्मात् प्रथमा विभक्तिः
(ദുഹ് മുതല് മുഷ് വരെയുള്ള ൧൨ ധാതുക്കളുടെ കര്മണിപ്രയോഗത്തില് അപ്രധാനകര്മം പ്രഥമാവിഭക്തിയിലേക്ക് മാറുന്നു. ഉദാ. ശ്രദ്ധിക്കുക. ഇവിടെ ഗോവ് അപ്രധാനകര്മമായതുകൊണ്ട് അത് പ്രഥമാവിഭക്തിയിലേക്ക് മാറുന്നു.)
नी, हृ, कृष्, वह् इत्यादि चतुर्णां धातूनां कर्मणिप्रयोगे प्रधानकर्म एव प्रथमायां भवति । यथा -
कर्तरिप्रयोगः - कश्चित् अजां ग्रामं नयति ।
कर्मणिप्रयोगः - कोनचित् अजा ग्रामं नीयते ।
अत्र अजायाः प्रधानकर्मत्वमित्यतः तस्य प्रथमायां प्रयोगः ।
(നീ മുതല് വഹ് വരെയുള്ള നാല് ധാതുക്കളുടെ കര്മണിപ്രയോഗത്തില് പ്രധാനകര്മം പ്രഥമാവിഭക്തിയിലേക്ക് മാറുന്നു. ഉദാ. ശ്രദ്ധിക്കുക. ഇവിടെ അജശബ്ദം പ്രധാനകര്മമായതുകൊണ്ട് അത് പ്രഥമാവിഭക്തിയിലേക്ക് മാറുന്നു.)
द्विकर्मकप्रयोगयुक्तान् वाक्यान् चित्वा लिखतु
१. रामः गीतां कवितां च पठति ।
२. बालः सुन्दरीं बालिकां निरीक्षते ।
३. माता पुत्रं विद्यालयं नयति ।
४. अध्यापकः शिष्यं गृहं आह्वयति ।
५. रामः धनिकं धनं याचते ।
६. याचकः लड्डुकं अपूपं च निर्माति ।
७. पथिकः काशीं पूनानगरं च गच्छति ।
८. भल्लूकः वृक्षं फलानि अवचिनोति ।
९. चोरः बहुमूल्यं सुवर्णं अपहरति ।
१०. कृषकः निम्बं बीजपूरं च रोपयति ।
११. उपाध्यायः वटुं धर्मं ब्रूते ।
१२. गोपालिका गां पयो दोग्धि ।
१३. वटुः बलिं वसुधां याचते ।
१४. पार्थिवः प्रतारकान् शतं दण्डयति ।
१५. गोपालकः गां व्रजम् अवरुमद्धि ।