दयानन्दसरस्वती
सनातने
वैदिकधर्मे कालव्यत्ययादुपचिताः
केचिदनाचाराः अन्धविश्वासाश्च
। एते तु पावनस्य वैदिकधर्मस्य
प्रामुख्यापनयनाय प्रत्यक्षहेतवः
अवर्तन्त । ईदृश्यां अवस्थायां
प्रायेण जनाः अपथसञ्चारिणो
धर्मभ्रष्टाश्च भवेयुः ।
एतां धर्मच्युतिं प्रतिरोद्धुं
दयानन्दसरस्वत्या आर्यसमाजः
स्थापितः ।
अयं
महात्मा चतुर्विंशत्युत्तराष्टशताधिकसहस्रतमे
क्रिस्ताब्दे (१८२४)
गुर्जरदेशे
जनिमलभत । अस्य पिता अम्बाशङ्करो
नाम धनिकः । पित्रा मूलशङ्कर
इत्याहूतस्य तस्य दीक्षानाम
दयानन्दसरस्वतीति । कुशाग्रधिषणो∫सौ
दयानन्दः बाल्य एव वेदानध्यैत,
विशिष्य
यजुषि परं वैदुष्यमविन्दत
। अयं शैशवादारभ्य निरीक्षणे
विमर्शे च निपुण आसीत् । बाल्य
एव अयं भारते प्रसृतां
वर्णव्यवस्थां तन्मूलामुच्चनीचभावानां
विग्रहाराधनाम् अस्पृश्यतां
च दूरीकर्तुमुपायान्
चिन्तयन्नासीत् ।
जातुचिदसौ
पित्रा सार्धं भगवतो नीलकण्ठस्य
आराधनाय रात्रौ कमपि शिवालयमगमत्
। तत्र बहवः शिवभक्ताश्चागमन्
। प्रहरेषु गतेषु भूयांसो∫पि
भक्ताः निद्रया देव्या
परिष्वक्ताः वेद्यामशेरत ।
किन्तु तत्रैकाकी जाग्रन्मूलशङ्करः
शिवनामानि जपन्नवर्तत । अभूच्च
श्रीनिलयेभूतपूर्वः कश्चन
चलनविशेषः । सकुतुकदृष्टिना
बालेन सोयं चलनहेतुः कश्चिन्मूषिकः
इति अवगतम् । ततश्चासौ मूषिकः
शिवबिम्बमध्यास्त । दृष्ट्वा
चेदं अयं निद्राणं स्वपितरं
प्राबोधयत्। प्रचलायितः
सो∫पि बाले
सुते मूलशङ्करे मतिं न चकार,
यथापूर्वं
सुष्वाव च । यदृच्छया दृष्टिपथमागतया
अनया घटनया, बालो
मनसि निश्चिकाय यच्छिवाधिष्ठिता
शक्तिः शिवविग्रहे न प्रवर्तत
इति । सैव घटना एनं विग्रहाराधनां
प्रतिषेद्धुं प्रेरयामास ।
दिनेषु
गतेषु कदाचिदस्य सोदरी विषूचिकया
मृतिमायात् । मातुलो∫पि
कालेनैतेन दिवं गतः । प्रचलितेन
आचारेण मृत्युकालेषु बन्धुभिः
कृतं रोदनमपि मूलशङ्करं
क्षुब्धहृदयमकरोत् ।
अनन्तरं
जनसमाजे रूढमूलान् दुराचारान्
उन्मूलयितुं धर्मतत्त्वानि
परिष्कर्तुं च कृतनिश्चयो∫सौ
एकविंशे वयसि स्वगृहान्
परित्यज्य वव्राज । देशाद्
देशमटन् अन्ते स हिमवतः
सानुप्रदेशमवाप । तत्र तत्र
अभिमुखमापतितान् जनचूषकान्
पुरोहितान् अभ्ययुङ्क्त च
सत्यम् । तेन सन्दृष्टाः
सर्वे∫पि
अभियुक्तं सत्यं प्रदर्शयितुं
भृशमसमर्था बभूवुः ।
ततः
स नर्मदाकूले योगिनः
पूर्णाननन्दसरस्वत्याः
शिष्यतां प्रपेदे । चतुर्विंशे
वयसि दयानन्दसरस्वतीति
दीक्षाभिधानं च स्वीचकार ।
ततस्तिस्रःसमाः मथुरायां
विरजानन्दस्य यमिनः शिष्यत्वं
चाविन्दतेति कथ्यते ।
अथ
दयानन्दसरस्वती स्वकीयान्
सिद्धान्तान् संगृह्य
सत्यार्थप्रकाशमिति ग्रन्थं
निरमात् । केचिद् एतं ग्रन्थं
निरोद्धुं सर्वकारमभ्यर्थितवन्तः
। एतस्मिन्नवसरे स्वसिद्धान्तानां
प्रचारणाय आर्यसमाजमपि
स्थापयामास । जातिभेदं,
शैववैष्णवादि
भेदञ्च पुरस्कृत्य प्रचलिता
उच्चनीचभावना,
सनातनधर्मावलम्बिनामनैक्यं,
नूतनानामाशयानामङ्गीकारे
वैमुख्यम् , इत्यादिभिः
जर्जरितप्राये हिन्दुसमाजे
नवतामूर्जस्वलतां च प्रसारयितुकामो
योगवर्यो∫यं
जीवितात् पलायनमकृत्वा
कर्मनिष्ठयैव कालं निनाय।
सतीप्रथा, पशुबलिः,
शैशवविहाहः
देवताप्रीत्यर्थं शिशूनां
गङ्गायां निक्षेपः,
स्त्रीणां
देवदासीत्वेन समर्पणम्,
आभरणविभूषितानां
स्त्रीणां पुरोहितेभ्यो
दानम् इत्यादयो दुराचाराः
देशे∫स्मिन्
तत्र तत्र प्रचलिता अवर्तन्त
। तेषाम् उन्मूलनायाहर्निशं
यतमानो∫यं
याथास्थितिकानां शत्रुतामार्जयामास
। वाग्वादैः प्रतिवादिनो
जेतुं धार्मिकान् सामूहिकांश्च
स्वसिद्धान्तान् प्रचारयितुं
च सः प्रतिदिग्देशं पर्यटति
स्म । एवं पदचारेण चरन्नयं
योगी राज्ञां देशाधिपानामातिथ्येन
तत्र तत्र वसन् आत्मना स्थापितस्य
आर्यसमाजस्य बलं पोषयामास
।
अयं
योगिवर्यः त्र्यशीत्यधिकाष्टादशशततमे
क्रिस्त्वब्दे (१८८३)
अक्तूबर्
मासस्य त्रिंशे दिने निजां
प्रकृतिमापेदे ।