ज्ञान - विज्ञान मण्डलेषु संस्कृतभाषायाः योगदानं कियन्मात्रमिति सर्वान् बोधयितुमुद्दिश्य संस्कृत अध्यापकानां संरम्भः।
Thursday, October 13, 2011
केरलीयकलारूपाणि ११. - कलरिप्पयट्ट्
केरलीयकलारूपाणि १०. - मार्गंकली
केरलेषु सुरियानिविभागस्थानां क्रैस्तवानां मध्ये प्रचुरप्रचारमाप्तं नृत्तरूपं भवति मार्गं कली । क्रिस्तोः मार्गस्य (क्रिस्तुधर्मस्य) प्राचारणाय भारतमागतस्य तोमाश्लाहामहाभागस्य भारतप्रवेशः प्रवर्तनानि चात्र प्रस्तूयन्ते । प्रज्वलितं दीपं परितः मण्डलाकारेण स्थित्वा द्वादशस्त्रियः पुरुषाः वा गानपुरस्सरं नृत्यन्ति । स्त्रीपुरुषाः तस्मिन्नवसरे क्रैस्तवानां परम्परागतवेषं धरन्ति च ।
केरलीयकलारूपाणि ९. - कैकोट्टिक्कली
केरलस्त्रीणां मध्ये प्रचलितं प्राचीनं नृत्तरूपं भवति कैकोट्टिक्कली । अङ्कणे स्त्रियः भद्रदीपं परितः मण्डलाकारेण स्थित्वा पुराणकथापात्राण्यधिकृत्य रचितानि गानानि आलपन्त्यः सहस्तताडनं नृत्यन्ति। प्रथमं गणपतेः सरस्वत्याश्च स्तोत्राणि आलपन्ति। ततः अन्यानि गानानि च । कुम्मि अपि प्रस्तावमर्हति । इरयिम्मन् तम्पि महाशयेन रचितं 'वीर वीराट कुमार विभो' इति पदं अस्मिन् कलारूपे उपयुज्यमानं सुप्रसिद्धं भवति ।
केरलीयकलारूपाणि ८. - मोहिनियाट्टम्
केरलीयकलारूपाणि ७. - पूरक्कलि
उत्तरकेरले प्रचुरप्रचारमाप्तं कलारूपं भवति पूरक्कलिः । तस्मिन् इष्टदेवतावन्दनं, दीपवन्दनं, च प्रचलन्ति । विविधजातिस्थानां, जनानां पूरक्कलिमध्ये स्थानमस्ति । रम्भादिभिः देवकन्यकाभिः देवलोके, अहल्यादिपञ्चकन्याभिः भूमौ, भूदेव्यादिभिः षड्भिः नारीभिः पाताललोके च कृतायाः वसन्तपूजायाः मधुरमङ्गलस्मरणमेव पूरक्कली इत्यस्य प्रामाण्यमिति केचिद्वदन्ति । पुरुषाणामायोधनकलापाटवं प्रदर्शयितुमपि अत्र अवसरः अस्ति ।
मानसोल्लासद्वारा बुद्धिविकासं जनयति पूरक्कलिः । सरागालापनैः सतालनर्तनैश्च इयं कला प्रेक्षकान् नितरां रञ्जयति । पूरक्कलिः अनुष्ठानपरा नृत्यप्रधाना च भवति ।कलारूपो∫यं उत्तरकेरलेषु 'काव्' इति भगतीमन्दिरेषु प्रदर्श्यते ।इदानीं युवजनोत्सववद्यामपि अविभायज्यघटकत्वेन इदं कलारूपं अवतार्यते ।
केरलीयकलारूपाणि ६. - कथाकेलिः
डो. विजय् कुमार् एम्.
देशे विदेशे च प्रसिद्धिमाप्ता कथाकेलिः केरलीयदृश्यकलाविशेषाणां मकुटायमाना विराजते । तौर्यत्रिकस्य सामञ्जस्यं मेलनमत्र दृश्यते । चेण्टा, मद्दलम्, इलत्तालम्, इटय्क्का, चेङ्ङिला, इत्यादयः वाद्यविशेषाः कथाकेल्याः अवतरणसमये उपयुज्यन्ते ।
अस्य कलारूपस्य परिष्कर्ता आसीत् वेट्टत्तु तम्पुरान् । कोट्टयत्तु तम्पुरान् महाभागो∫पि अस्याः कलायाः परिष्करणे बद्धश्रद्धः आसीत्। क्रिस्तोः परं सप्तदशे शतके कोट्टारक्करतम्पुरान् महाशयेन प्रारब्धं रामनाट्टमेव अस्य कलारूपस्य प्राग्रूपमिति पण्डिताः वदन्ति ।
कथाकेल्याः साहित्यम् आट्टक्कथा इति व्यवह्रियते कैरल्याम्। तत्र कथासन्दर्भाः श्लोकरूपेण सम्भाषणानि पदरूपेण कथांशसङ्ग्रहः दण्डकरूपेण च निबद्धाः दृश्यन्ते। मुख्यगायकः पोन्नानि इति अनुगायकः शिङ्किटी इति च व्यवह्रियते। गानानुसारं पदानामर्थान् मुद्राभिः, रसान् मुखोपाङ्गचलनैश्च आविष्करोति नटः ।
कथापात्राणां स्वभावानुसारमेव आहार्यता निर्णीता । तत्र पच्चा, कत्ति, ताटि, करि, मिनुक्क्, इत्येवमादयः, आहार्यविशेषाः स्वीकृताः सन्ति। तेषामपि पात्रानुसारं वैविध्यमस्ति । मुद्राणां हस्तलक्षणदीपिकायां निर्दिष्टाः आधारमुद्राः एव अवलम्ब्यन्ते। उण्णायिवार्यर्, कोट्टयत्तु तम्पुरान्, कोट्टारक्कर तम्पुरान्, इरयिम्मन् तम्पि इत्येवमादयः महात्मानः आट्टक्कथारचनायां प्रसिद्धाः। वैदेशिकाः अपि कलारूपस्यास्य पठने प्रचारे च सोत्सुकाः दृश्यन्ते ।
कथाकेल्याः वटक्कन् चिट्टा तेक्कन् चिट्टा इति प्रकारद्वयं वर्तते । तत्र वटक्कन् चिट्टा इत्यस्य कल्लटिक्कोटन् सम्प्रदायः इति तेक्कन् चिट्टा इत्यस्य कप्लिङ्ङाटन् सम्प्रदायः इति च नामान्तरम् ।
कथाकेल्यां प्राधान्येन (१) केली, (२) अरङ्ङुकेली, (३) तोटयम्, (४) वन्दनश्लोकः, (५) पुरप्पाट्, (६) मेळप्पदम्, (७) कथाभिनयम्, (८) धनाशि च सन्ति । कथाभिनयस्य चोल्लियाट्ट्म्, इळकियीट्टम् इति प्रकारद्वयमस्ति। गायकस्य गानक्रमानुसारं नटः प्रतिपदं मुद्राभिः अभिनयं करोति । अयं अभिनयप्रकारः चोल्लियाट्टम् इति कथ्यते । ततः पूर्वं, परं वा नटः स्वमनोधर्मानुसारम् अभिनयति । अस्यैव इळकियाट्टम् इति नाम ।
चतुर्विधाः अभिनयप्रकाराः सन्ति । आङ्गिकम्, वाचिकम्, आहार्यम्, सात्विकम् इति । अभिनयदर्पणे एवमुक्तं भवति -
यतो हस्तस्ततो दृष्टिः यतो दृष्टिस्ततो मनः ।
यतो मनस्ततो भावो यतो भावस्ततो रसः ।।
श्रृङ्गारः, करुणः, वीरः, रौद्रः, हासः, भयानकः, बीभत्सः, अद्भुतः, शान्तः, चेति नवरसाः भवन्ति । एषां रसानां स्थायिभावाः रतिः शोकः, उत्साहः, क्रोधः, हास्यं, भयं, जुगुप्सा, विस्मयः, निर्वेदः च भवन्ति । नवरसेषु श्रृङ्गारः रसराजः इति कीर्त्यते।
कथाकेल्यां धीरोदात्तनायकानामेव 'पच्च' इति वेषविशेषः कल्पितः (यथा नलः, अर्जुनः....) । रजोगुणयुक्तानां नायकानां 'कत्ति' (यथा रावणः, दुर्योधनः....),। तमोगुणप्रधानानामसुराणां मनुष्याणां च 'ताटि' (यथा बकः, दुःश्शासनः....) किरातानां 'करि' च । मुनीनां स्त्रीणाञ्च 'मिनुक्क्' च कल्पितः। इमे वेषप्रकाराः पूर्णतया परिपाल्यन्ते । 'कत्ति' इत्यस्य कथापात्राणां 'कुरुंकत्ति', 'नेटुंकत्ति' इति प्रकारभेदौ वर्तते। 'ताटि' इत्यस्य 'वेळुत्तताटि' (हनूमान्), 'करुत्तताटि' (कलिः), 'चुवन्नताटि' (दुश्शासनः) इति विभागत्रयं वर्तते । एवं 'करि' इत्यस्यापि भेदद्वयमस्ति । पुरुषाणां कृते स्त्रियः कृते च (यथा किरातः, शूर्पणखा च) ।नारदवसिष्ठादीनां मुनीनां महर्षिकेशः, चिबुकं च उपयुज्यते । स्त्रीकथापात्राणां 'मिनुक्क्' । 'मण्णान्', भीरुः, विद्युज्जिह्वः, इत्यादि विलक्षणकथापात्राणि कथाकेल्याः आहार्यवैचित्र्यतां प्रस्फुटयन्ति ।
केरलीयकलारूपणि ५. - कूटियाट्टम्
केरलीयकलारूपाणि ४. - पाठकम्
डो. विजय् कुमार् एम्.
चाक्यार्कूत्त् नामकस्य कलारूस्य संवादरूपो∫यं (അനുകരണം) पाठकं नाम आराधनालयकालारूपम् । अस्य प्रयोक्तारः नम्प्यार् समुदायस्थाः । किन्तु इदानीं कलामेनां सर्वे अवतारयन्ति । पाठके, चाक्यार्कूत्त् कलारूपे विद्यमानं परिहासवचनं , तर्जनवचनं (മറ്റൊരാളുടെ നേര്ക്ക് വിരല് ചൂണ്ടി പറയല്) च न विद्यते । अस्मिन् कलारूपे नटस्य वेषः अतीव सरलं भवति । ललाटमङ्कयित्वा (കുറിതൊട്ട്) , शिरसि पाटलसुवेष्टं धृत्वा (ചുവന്ന മുടി ധരിച്ച്), कण्ठे मालां धृत्वा, कटिप्रदेशे पाटलाम्बरं च धृत्वा (അരയില് ചുവന്ന പട്ട് ധരിച്ച്) नटः वेद्यां प्रविशति । मानवानां स्वभावसंस्करणमेव कलारूपस्यास्य उद्देश्यः ।
केरलीयकलारूपाणि ३. - चाक्यार्कूत्त्
कैरल्यां कूत्त् इति पदं कर्दनम् (ശബ്ദിക്കല്) इति संस्कृतपदस्य तद्भवं भवतीति पण्डिताः वदन्ति । एवं चाक्यार् इति कैरलीपदस्य श्लाघ्यवाक् (നല്ല വാക്ക് ഉച്ചരിക്കുന്നവന്) इत्यर्थः । पुराणेतिहासादिषु विद्यमानाः कथाः सविस्तरं प्रतिपादयति चाक्यारः । वाचिकाभिनयप्रधानं कलारूपं भवति कूत्त् । सभायामुपस्थितान् प्रेक्षकानपि कथापात्रत्वेन परिकल्प्य मनुष्यसाधारणानि दौर्बल्यानि समकालिकजीवितेषु दृश्यमानान् प्रश्नान् च सरसया रीत्या सः प्रतिपादयति । तस्य हास्यप्रयोगसामर्थ्यं विशेषतः प्रस्तावमर्हति ।
दीपालङ्कृतं रङ्गं प्राप्य नम्प्यार् 'मिषाव्' इति वाद्ये प्रथमं तालक्रममाचरति । ततः चाक्यारः प्रविश्य चारि इति विश्रुतं नृत्तमाचरति। पुनश्च पीठिकायाः अवतारणानन्तरं चम्पूग्रन्थेभ्यः अथवा प्रबन्धेभ्यः स्वीकृतान् श्लोकान् सविशेषया रीत्या आलपति । द्वितीयपादस्य चतुर्थपादस्य च आलापनानन्तरं मिषाव् इत्यस्मिन् तालं वादयति नम्प्यारः तदनन्तरं श्लोकार्थम् अन्वयक्रमेण विवृण्वन् चाक्यारः स्वपाटवं प्रदर्शयति ।
(प्राचीनपाठपुस्तकाद् उद्धृतः अयं भागः)
Thursday, October 6, 2011
दिशानिर्णयः
प्राह्नान्ते शङ्कुच्छाया यदा यत्र वृत्तरेखायां पतति तदा तत्र अङ्कनं कुर्यात् (B)।एवं अपराह्ने∫पि (C)।
