roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Thursday, October 13, 2011

केरलीयकलारूपाणि ११. - कलरिप्पयट्ट्

आयोधनप्रधानं कलारूपं भवति कलरिप्पयट्ट् अस्य अनुष्ठानेन मानसिकं शारीरिकं आरोग्यं वर्धयितुं शक्यते खळूरि इति संस्कृतपदस्य तद्भवं भवति कलरि इति कलरिप्पयट्ट् एकं प्राचीनं तथा प्रसिद्धं आयोधनकलारूपं भवति अस्यां पद्धत्याम् ईषद्विशेषेण विविधाः विभागाः दृश्यन्ते कालीस्तवरूपेषु कालिप्पाट्ट् गानेषु कलरिकलारूपाण्यधिकृत्य सूचनाः उपलभ्यन्ते कलरिप्पयट्ट् केवलं आयोधनप्रधानम् अपि तु कलाप्रधानं अस्याः कलायाः प्रभावः कोल्कलि, पूरक्कलि इत्येवमादिषु कलारूपेषु अपि द्रष्टुं शक्यते अस्याः कलायाः प्राधान्यं सर्वैरङ्गीक्रियते

केरलीयकलारूपाणि १०. - मार्गंकली

केरलेषु सुरियानिविभागस्थानां क्रैस्तवानां मध्ये प्रचुरप्रचारमाप्तं नृत्तरूपं भवति मार्गं कली । क्रिस्तोः मार्गस्य (क्रिस्तुधर्मस्य) प्राचारणाय भारतमागतस्य तोमाश्लाहामहाभागस्य भारतप्रवेशः प्रवर्तनानि चात्र प्रस्तूयन्ते । प्रज्वलितं दीपं परितः मण्डलाकारेण स्थित्वा द्वादशस्त्रियः पुरुषाः वा गानपुरस्सरं नृत्यन्ति । स्त्रीपुरुषाः तस्मिन्नवसरे क्रैस्तवानां परम्परागतवेषं धरन्ति च ।


केरलीयकलारूपाणि ९. - कैकोट्टिक्कली

केरलस्त्रीणां मध्ये प्रचलितं प्राचीनं नृत्तरूपं भवति कैकोट्टिक्कली । अङ्कणे स्त्रियः भद्रदीपं परितः मण्डलाकारेण स्थित्वा पुराणकथापात्राण्यधिकृत्य रचितानि गानानि आलपन्त्यः सहस्तताडनं नृत्यन्ति। प्रथमं गणपतेः सरस्वत्याश्च स्तोत्राणि आलपन्ति। ततः अन्यानि गानानि च । कुम्मि अपि प्रस्तावमर्हति । इरयिम्मन् तम्पि महाशयेन रचितं 'वीर वीराट कुमार विभो' इति पदं अस्मिन् कलारूपे उपयुज्यमानं सुप्रसिद्धं भवति ।


केरलीयकलारूपाणि ८. - मोहिनियाट्टम्

केरलेषु पुरातनकालादारभ्य मोहिनियाट्टनामकस्य नृत्तविशेषस्य प्राचुर्यं दृश्यते पूर्वकाले देवालयेषु प्रचालितं दासियाट्टमपिमोहिनियाट्टस्य प्रकारभेद इति श्रूयते अस्मिन् नर्तकी पदानामर्थान् भावस्फुरणैः हस्तमुद्राभिः विशदीकृत्य अभिनयपूर्वंनृत्यति इदानीन्तनकालेपि मोहिनियाट्टस्य प्राचुर्यं दृश्यते समीपकालं यावत् मोहिन्याट्टे केवलं श्रृङ्गारस्य भक्तिरसस्य प्रामुख्यमासीत् किन्त्वधुना नवरसानामपि प्रामुख्यं वर्तते

वञ्चिराजवंशे १८१३ तमे वर्षे जातः गर्भश्रीमानिति प्रसिद्धिमाप्तः स्वातिमहाराजः अस्याः कलायाः प्रचारणविषये तत्परःआसीत् तेन विरचितानि पदानि मोहिनियाट्टवेदिकासु मुखरिताः वर्तन्ते महाकविः वल्लत्तोळ्, कलामण्डलंकल्याणिक्कुट्टियम्मा अस्य कलारूपस्य आधुनिकपरिष्कर्तारौ भवतः

केरलीयकलारूपाणि ७. - पूरक्कलि

उत्तरकेरले प्रचुरप्रचारमाप्तं कलारूपं भवति पूरक्कलिः । तस्मिन् इष्टदेवतावन्दनं, दीपवन्दनं, च प्रचलन्ति । विविधजातिस्थानां, जनानां पूरक्कलिमध्ये स्थानमस्ति । रम्भादिभिः देवकन्यकाभिः देवलोके, अहल्यादिपञ्चकन्याभिः भूमौ, भूदेव्यादिभिः षड्भिः नारीभिः पाताललोके च कृतायाः वसन्तपूजायाः मधुरमङ्गलस्मरणमेव पूरक्कली इत्यस्य प्रामाण्यमिति केचिद्वदन्ति । पुरुषाणामायोधनकलापाटवं प्रदर्शयितुमपि अत्र अवसरः अस्ति ।

मानसोल्लासद्वारा बुद्धिविकासं जनयति पूरक्कलिः । सरागालापनैः सतालनर्तनैश्च इयं कला प्रेक्षकान् नितरां रञ्जयति । पूरक्कलिः अनुष्ठानपरा नृत्यप्रधाना च भवति ।कलारूपोयं उत्तरकेरलेषु 'काव्' इति भगतीमन्दिरेषु प्रदर्श्यते ।इदानीं युवजनोत्सववद्यामपि अविभायज्यघटकत्वेन इदं कलारूपं अवतार्यते ।

केरलीयकलारूपाणि ६. - कथाकेलिः

डो. विजय् कुमार् एम्.

देशे विदेशे च प्रसिद्धिमाप्ता कथाकेलिः केरलीयदृश्यकलाविशेषाणां मकुटायमाना विराजते । तौर्यत्रिकस्य सामञ्जस्यं मेलनमत्र दृश्यते । चेण्टा, मद्दलम्, इलत्तालम्, इटय्क्का, चेङ्ङिला, इत्यादयः वाद्यविशेषाः कथाकेल्याः अवतरणसमये उपयुज्यन्ते ।

अस्य कलारूपस्य परिष्कर्ता आसीत् वेट्टत्तु तम्पुरान् । कोट्टयत्तु तम्पुरान् महाभागोपि अस्याः कलायाः परिष्करणे बद्धश्रद्धः आसीत्। क्रिस्तोः परं सप्तदशे शतके कोट्टारक्करतम्पुरान् महाशयेन प्रारब्धं रामनाट्टमेव अस्य कलारूपस्य प्राग्रूपमिति पण्डिताः वदन्ति ।

कथाकेल्याः साहित्यम् आट्टक्कथा इति व्यवह्रियते कैरल्याम्। तत्र कथासन्दर्भाः श्लोकरूपेण सम्भाषणानि पदरूपेण कथांशसङ्ग्रहः दण्डकरूपेण च निबद्धाः दृश्यन्ते। मुख्यगायकः पोन्नानि इति अनुगायकः शिङ्किटी इति च व्यवह्रियते। गानानुसारं पदानामर्थान् मुद्राभिः, रसान् मुखोपाङ्गचलनैश्च आविष्करोति नटः ।

कथापात्राणां स्वभावानुसारमेव आहार्यता निर्णीता । तत्र पच्चा, कत्ति, ताटि, करि, मिनुक्क्, इत्येवमादयः, आहार्यविशेषाः स्वीकृताः सन्ति। तेषामपि पात्रानुसारं वैविध्यमस्ति । मुद्राणां हस्तलक्षणदीपिकायां निर्दिष्टाः आधारमुद्राः एव अवलम्ब्यन्ते। उण्णायिवार्यर्, कोट्टयत्तु तम्पुरान्, कोट्टारक्कर तम्पुरान्, इरयिम्मन् तम्पि इत्येवमादयः महात्मानः आट्टक्कथारचनायां प्रसिद्धाः। वैदेशिकाः अपि कलारूपस्यास्य पठने प्रचारे च सोत्सुकाः दृश्यन्ते ।

कथाकेल्याः वटक्कन् चिट्टा तेक्कन् चिट्टा इति प्रकारद्वयं वर्तते । तत्र वटक्कन् चिट्टा इत्यस्य कल्लटिक्कोटन् सम्प्रदायः इति तेक्कन् चिट्टा इत्यस्य कप्लिङ्ङाटन् सम्प्रदायः इति च नामान्तरम् ।

कथाकेल्यां प्राधान्येन () केली, () अरङ्ङुकेली, () तोटयम्, () वन्दनश्लोकः, () पुरप्पाट्, () मेळप्पदम्, () कथाभिनयम्, () धनाशि च सन्ति । कथाभिनयस्य चोल्लियाट्ट्म्, इळकियीट्टम् इति प्रकारद्वयमस्ति। गायकस्य गानक्रमानुसारं नटः प्रतिपदं मुद्राभिः अभिनयं करोति । अयं अभिनयप्रकारः चोल्लियाट्टम् इति कथ्यते । ततः पूर्वं, परं वा नटः स्वमनोधर्मानुसारम् अभिनयति । अस्यैव इळकियाट्टम् इति नाम ।

चतुर्विधाः अभिनयप्रकाराः सन्ति । आङ्गिकम्, वाचिकम्, आहार्यम्, सात्विकम् इति । अभिनयदर्पणे एवमुक्तं भवति -

यतो हस्तस्ततो दृष्टिः यतो दृष्टिस्ततो मनः ।

यतो मनस्ततो भावो यतो भावस्ततो रसः ।।

श्रृङ्गारः, करुणः, वीरः, रौद्रः, हासः, भयानकः, बीभत्सः, अद्भुतः, शान्तः, चेति नवरसाः भवन्ति । एषां रसानां स्थायिभावाः रतिः शोकः, उत्साहः, क्रोधः, हास्यं, भयं, जुगुप्सा, विस्मयः, निर्वेदः च भवन्ति । नवरसेषु श्रृङ्गारः रसराजः इति कीर्त्यते।

कथाकेल्यां धीरोदात्तनायकानामेव 'पच्च' इति वेषविशेषः कल्पितः (यथा नलः, अर्जुनः....) । रजोगुणयुक्तानां नायकानां 'कत्ति' (यथा रावणः, दुर्योधनः....),। तमोगुणप्रधानानामसुराणां मनुष्याणां च 'ताटि' (यथा बकः, दुःश्शासनः....) किरातानां 'करि' च । मुनीनां स्त्रीणाञ्च 'मिनुक्क्' च कल्पितः। इमे वेषप्रकाराः पूर्णतया परिपाल्यन्ते । 'कत्ति' इत्यस्य कथापात्राणां 'कुरुंकत्ति', 'नेटुंकत्ति' इति प्रकारभेदौ वर्तते। 'ताटि' इत्यस्य 'वेळुत्तताटि' (हनूमान्), 'करुत्तताटि' (कलिः), 'चुवन्नताटि' (दुश्शासनः) इति विभागत्रयं वर्तते । एवं 'करि' इत्यस्यापि भेदद्वयमस्ति । पुरुषाणां कृते स्त्रियः कृते च (यथा किरातः, शूर्पणखा च) ।नारदवसिष्ठादीनां मुनीनां महर्षिकेशः, चिबुकं च उपयुज्यते । स्त्रीकथापात्राणां 'मिनुक्क्' 'मण्णान्', भीरुः, विद्युज्जिह्वः, इत्यादि विलक्षणकथापात्राणि कथाकेल्याः आहार्यवैचित्र्यतां प्रस्फुटयन्ति ।

केरलीयकलारूपणि ५. - कूटियाट्टम्


कूटियाट्टम् नामकं कलारूपं संस्कृतनाटकाभिनयस्य प्रकारभेदः एव । चाक्यारः, नङ्ङ्यार् च कथापात्राणां वेषं धृत्वा सभामध्ये नाटकाभिनयं कुरुतः इत्यतः अस्य कूटियाट्टम् इति नाम कैरल्यां समजनि इति केचिद्वदन्ति। मिलित्वा (കൂടി) नटनं (ആട്ടം) भवति कूटियाट्टम् इत्यर्थः । सात्विकः, आङ्गिकः, वाचिकः, आहार्यः इति चतुर्विधानामभिनयानां मेलनेन कूटियाट्टमिति व्यवहारः इति अन्ये वदन्ति। मिषाव्, तालम्, इटय्क्का, शङ्घः, कोम्प्, कुषल् इत्यादयः वाद्यविशेषाः अस्मिन् तालप्रघोषणाय प्रयुज्यन्ते । कुलशेखरवर्मणः कालादारभ्य प्रचुरप्रचारमाप्तमिदं कलारूपं इदानीं युवजनोत्सववेदिकास्वपि द्रष्टुं शक्यते।

केरलीयकलारूपाणि ४. - पाठकम्

डो. विजय् कुमार् एम्.

चाक्यार्कूत्त् नामकस्य कलारूस्य संवादरूपोयं (അനുകരണം) पाठकं नाम आराधनालयकालारूपम् । अस्य प्रयोक्तारः नम्प्यार् समुदायस्थाः । किन्तु इदानीं कलामेनां सर्वे अवतारयन्ति । पाठके, चाक्यार्कूत्त् कलारूपे विद्यमानं परिहासवचनं , तर्जनवचनं (മറ്റൊരാളുടെ നേര്‍ക്ക് വിരല്‍ ചൂണ്ടി പറയല്‍) च न विद्यते । अस्मिन् कलारूपे नटस्य वेषः अतीव सरलं भवति । ललाटमङ्कयित्वा (കുറിതൊട്ട്) , शिरसि पाटलसुवेष्टं धृत्वा (ചുവന്ന മുടി ധരിച്ച്), कण्ठे मालां धृत्वा, कटिप्रदेशे पाटलाम्बरं च धृत्वा (അരയില്‍ ചുവന്ന പട്ട് ധരിച്ച്) नटः वेद्यां प्रविशति । मानवानां स्वभावसंस्करणमेव कलारूपस्यास्य उद्देश्यः ।


केरलीयकलारूपाणि ३. - चाक्यार्कूत्त्

कैरल्यां कूत्त् इति पदं कर्दनम् (ശബ്ദിക്കല്‍) इति संस्कृतपदस्य तद्भवं भवतीति पण्डिताः वदन्ति । एवं चाक्यार् इति कैरलीपदस्य श्लाघ्यवाक् (നല്ല വാക്ക് ഉച്ചരിക്കുന്നവന്‍) इत्यर्थः । पुराणेतिहासादिषु विद्यमानाः कथाः सविस्तरं प्रतिपादयति चाक्यारः । वाचिकाभिनयप्रधानं कलारूपं भवति कूत्त् । सभायामुपस्थितान् प्रेक्षकानपि कथापात्रत्वेन परिकल्प्य मनुष्यसाधारणानि दौर्बल्यानि समकालिकजीवितेषु दृश्यमानान् प्रश्नान् च सरसया रीत्या सः प्रतिपादयति । तस्य हास्यप्रयोगसामर्थ्यं विशेषतः प्रस्तावमर्हति ।

दीपालङ्कृतं रङ्गं प्राप्य नम्प्यार् 'मिषाव्' इति वाद्ये प्रथमं तालक्रममाचरति ततः चाक्यारः प्रविश्य चारि इति विश्रुतं नृत्तमाचरति। पुनश्च पीठिकायाः अवतारणानन्तरं चम्पूग्रन्थेभ्यः अथवा प्रबन्धेभ्यः स्वीकृतान् श्लोकान् सविशेषया रीत्या आलपति द्वितीयपादस्य चतुर्थपादस्य आलापनानन्तरं मिषाव् इत्यस्मिन् तालं वादयति नम्प्यारः तदनन्तरं श्लोकार्थम् अन्वयक्रमेण विवृण्वन् चाक्यारः स्वपाटवं प्रदर्शयति

(प्राचीनपाठपुस्तकाद् उद्धृतः अयं भागः)

Thursday, October 6, 2011

दिशानिर्णयः

दिशानिर्णयः
डो. विजय् कुमार् एम्

गृहनिर्माणार्थं समीकृते भूमौ शङ्कुस्थापनानन्तरं (a) शङ्कुदैर्घ्ययुगलसम्मितं आरं कृत्वा वृत्तमारचयेत् ।
വീട്പണിയുന്നതിനായി നിരപ്പാക്കിയ ഭൂമിയില്‍ കുറ്റിയടിച്ച് (a) ആ കുറ്റിയുടെ ഇരട്ടി ആരത്തില്‍ ഒരു വൃത്തം വരയ്ക്കുക.








प्राह्नान्ते शङ्कुच्छाया यदा यत्र वृत्तरेखायां पतति तदा तत्र अङ्कनं कुर्यात्
(B)।एवं अपराह्ने∫पि (C)
രാവിലെ കുറ്റിയുടെ നിഴലിന്റെ അഗ്രഭാഗം എപ്പോഴാണോ വൃത്തത്തില്‍ മുട്ടുന്നത് അപ്പോള്‍ അവിടെ അടയാളമിടുക(B). ഇതുപോലെ വൈകുന്നേരവും അടയാളമിടുക (C).