roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Thursday, October 13, 2011

केरलीयकलारूपाणि ३. - चाक्यार्कूत्त्

कैरल्यां कूत्त् इति पदं कर्दनम् (ശബ്ദിക്കല്‍) इति संस्कृतपदस्य तद्भवं भवतीति पण्डिताः वदन्ति । एवं चाक्यार् इति कैरलीपदस्य श्लाघ्यवाक् (നല്ല വാക്ക് ഉച്ചരിക്കുന്നവന്‍) इत्यर्थः । पुराणेतिहासादिषु विद्यमानाः कथाः सविस्तरं प्रतिपादयति चाक्यारः । वाचिकाभिनयप्रधानं कलारूपं भवति कूत्त् । सभायामुपस्थितान् प्रेक्षकानपि कथापात्रत्वेन परिकल्प्य मनुष्यसाधारणानि दौर्बल्यानि समकालिकजीवितेषु दृश्यमानान् प्रश्नान् च सरसया रीत्या सः प्रतिपादयति । तस्य हास्यप्रयोगसामर्थ्यं विशेषतः प्रस्तावमर्हति ।

दीपालङ्कृतं रङ्गं प्राप्य नम्प्यार् 'मिषाव्' इति वाद्ये प्रथमं तालक्रममाचरति ततः चाक्यारः प्रविश्य चारि इति विश्रुतं नृत्तमाचरति। पुनश्च पीठिकायाः अवतारणानन्तरं चम्पूग्रन्थेभ्यः अथवा प्रबन्धेभ्यः स्वीकृतान् श्लोकान् सविशेषया रीत्या आलपति द्वितीयपादस्य चतुर्थपादस्य आलापनानन्तरं मिषाव् इत्यस्मिन् तालं वादयति नम्प्यारः तदनन्तरं श्लोकार्थम् अन्वयक्रमेण विवृण्वन् चाक्यारः स्वपाटवं प्रदर्शयति

(प्राचीनपाठपुस्तकाद् उद्धृतः अयं भागः)

Thursday, October 6, 2011

दिशानिर्णयः

दिशानिर्णयः
डो. विजय् कुमार् एम्

गृहनिर्माणार्थं समीकृते भूमौ शङ्कुस्थापनानन्तरं (a) शङ्कुदैर्घ्ययुगलसम्मितं आरं कृत्वा वृत्तमारचयेत् ।
വീട്പണിയുന്നതിനായി നിരപ്പാക്കിയ ഭൂമിയില്‍ കുറ്റിയടിച്ച് (a) ആ കുറ്റിയുടെ ഇരട്ടി ആരത്തില്‍ ഒരു വൃത്തം വരയ്ക്കുക.








प्राह्नान्ते शङ्कुच्छाया यदा यत्र वृत्तरेखायां पतति तदा तत्र अङ्कनं कुर्यात्
(B)।एवं अपराह्ने∫पि (C)
രാവിലെ കുറ്റിയുടെ നിഴലിന്റെ അഗ്രഭാഗം എപ്പോഴാണോ വൃത്തത്തില്‍ മുട്ടുന്നത് അപ്പോള്‍ അവിടെ അടയാളമിടുക(B). ഇതുപോലെ വൈകുന്നേരവും അടയാളമിടുക (C).

प्राणायामः

।। प्राणायामः ।।

डो. विजय् कुमार्. एम्

योगपरिशीलनपद्धतिः अष्टाङ्गैः युक्ता भवति । अष्टाङ्गानि तावत् यम, नियम, आसन, प्राणायाम, प्रत्याहर, धारणा, ध्यान, समाधिश्च। एतेषु अष्टाङ्गेषु चतुर्थः भवति प्राणायामः । पातञ्जलयोगसूत्रे प्राणायामस्य लक्षणं एवमुक्तं भवति -
''तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः'' (साधनापादः, सूत्रं ४९) इति।
तस्मिन् सति - आसनसिद्धेरनन्तरं, श्वासोच्छ्वासयोः गतिविच्छेदः - प्रतिषेधः अथवा स्तब्धीकरणं प्राणायामः इत्युच्यते ।प्राणानामायामः प्राणायामः । आ – समन्तात्, यामः - नियमनं (नियन्त्रणं) प्राणायामः इत्यर्थः ।

Wednesday, October 5, 2011

निलानदी

निलानदी
डो. विजय् कुमार् एम्

केरलराज्यस्य चरित्रमण्डले एवं सांस्कृतिकमण्डले च नितरां प्रसिद्धा भवति निला। प्राचिनकाले मामाङ्कमहोत्सवः अस्याः तटे एव आघुष्यमाणः आसीत् । अत एव इयं नदी कविभिः बहुधा वर्णिता। अस्याः तीरे बहवः महात्मानः जनिमलभत । इयं नदी सुदीर्घा विस्तृता च भवति। न केवलं मनुष्याणां अपितु, तटे वर्तमानानां सर्वेषां जीवजालानां जीवनदायिका च भवति। अस्याः तीरे अनेकानि हरिताभानि सस्यक्षेत्राणि देवमन्दिराणि च विद्यते । स्वतः शान्ता इयं नदी वर्षकाले स्वीयं रौद्रभावं प्रकटयति । पश्यतु ....
नद्याः अयं रौद्रभावः केवलं वर्षकाले एव द्रष्टुं शक्यते । वर्षकालानन्तरं सा शान्तरूपापान्ना प्रवहति ।
वसन्ते, ग्रीष्मे च इयं नदी अत्यन्तं शुष्का भविष्यति । सेतुबन्धनेन तस्याः गतिः निरुद्धा । पुनः जलस्य दुरुपयोगेनापि सा शोषिता । जलपूर्णा सा इदानीं सिकतमया भवति । पश्यतु .....

महच्चरितमाला ८. - वर्धमानमहावीरः

डो. विजय् कुमार् एम्

वर्धमानमहावीरः

अहिंसां परमं धर्मं मन्वते जैनाः । जैनधर्मस्य स्थापकाः तीर्थङ्कराः इत्युच्यन्ते । चतुर्विंशति तीर्थङ्कराः आसन्निति जैनानां विश्वासः । तेष्वन्तिमो वर्धमानमहावीरः मगधेषु वैशालीनगरप्रान्ते कुण्डग्रामे सिद्धार्थनाम्नः पितुः जन्म लेभे । मातास्य त्रिशाला नाम क्षत्रियाणी । वर्धमानस्य बाल्यमधिकृत्य किमपि न ज्ञायते । यशोदां नाम राजकन्यकां परिणीय त्रिंशे वयसि गृहस्थाश्रमं त्यक्त्वा परिवव्राज । नग्नो भूत्वा द्वादशसंवत्सरांस्तीव्रं तपस्तेपे । त्रयोदशे वर्षे ऋजुबालुकानद्या उत्तरे तीरे जृम्भिकाग्रामे स केवलज्ञानमलभत । तदा प्रभृति केवली इति जिन इति च तस्य नामनी अजायेताम् । अनन्तरं त्रिंशतं वर्षान् स्वोपज्ञं धर्मं प्रचारयामास । द्विसप्ततितमे वयसि क्रिस्तोः पूर्वं ५२७ तमे वर्षे कार्तिकमासे अमावास्यां रात्रौ निर्वाणमलभत च।

वर्धमानमहाविरस्य अनुयायिनः जैनाः इति निर्ग्रन्था इति च उच्यन्ते । श्वेतांबराः इति दिगंबरा इति द्वौ विभागौ जैनानाम् । दिगम्बराः मनयः नग्नाश्चरन्ति । श्वेतांबरास्तु श्वेतं वस्त्रं धृत्वा । अहिंसा, सत्यं, अस्तेयः, ब्रह्मचर्यं, अपरिग्रहश्च जैनैराद्रियन्ते । अपरिग्रहस्यैव परा काष्ठा वस्त्रत्यागः । सम्यक् विश्वासेन, सम्यक् ज्ञानेन, सम्यक् कर्मणा च मनुष्याः संसाराद्विमुक्ताः भवन्ति । त्रीणीमानि रत्नत्रयमित्युच्यन्ते । जैनधर्मो रत्नत्रये प्रतिष्ठितः ।

(प्राचीनपाठपुस्तकादुद्धृतः अयं भागः)

महच्चरितमाला ७. - पतञ्जलिः


डो. विजय् कुमार् एम्

पतञ्जलिः

सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः ।

स्वमतानि च वर्ण्यन्ते भष्यं भाष्यविदो विदुः ।।

पाणिनिकृतं शब्दानुशासनं, तस्मिन् कात्यायनेन कृतं परिष्कारं च अवलम्ब्य यः प्रसन्नगम्भीरं महाम्भोधिसमं महाभाष्यं व्यलेखि स एव महर्षिः पतञ्जलिः । महाभ्ष्यस्य गद्यशैली ह्रस्वसमासयुक्ता सरला च भवति । पुरातनकाले सर्वत्र जनपदेषु संस्कृतमाश्रित्यैव पामरसाधारणजनाः व्यवाहारः कृतवन्तः इत्यत्र महाभाष्यमेव निदानं भवति । पाणिनिकात्यायनपतञ्जलिषु यथोत्तरं मुनीनां प्रामाण्यम् इति सुविदितं वचनं पतञ्जलेः प्रामाण्यपारम्यं प्रकाशयति ।

महाभाष्ये वर्तमान, गोनर्दीय इति अभिधानात् गोनर्दः अस्य जन्मग्राम इत्यवगम्यते । गोणिकापुत्र इति निर्देशात् तस्य मातुः मान गोणिका इत्यपि ऊह्यते । चिदंबरे पुत्रकाम्यया श्रीशङ्करं भजन्त्या गोणिकाया अञ्जलिपुटे एकदा अल्पप्राणः सर्पशिशुः द्युतलादापातयत् ।योयं शङ्करभूषणः फणी गोणिकया पुत्रत्वेनाङ्गीकृतः पतञ्जलिरिति प्रथां भेजे इत्यस्ति ऐतिह्यम् । पण्डिताः क्रिस्तोः पुर्वं द्वितीयं शतकं कलयन्ति पतञ्जलेः जीवितकालम् । पतञ्जलिप्रणीतं ग्रन्थत्रयं समुपलभ्यते, व्याकरणमहाभाष्यम्, निदानसूत्रम्, योगसूत्रं च । अतएवोच्यते -

योगेन चित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन ।

योपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोस्मि ।।

(प्राचीन पुस्तकादुद्धृतः)

महच्चरितमाला ६. - वररुचिः (कात्यायनः)


डो. विजय् कुमार् एम्.

वररुचिः (कात्यायनः)

वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् ।

पाणिनिं सूत्रकारं च प्रणतोस्मि मुनित्रयम् ।।

पाणिनीयसूत्राणाम् उक्तानुक्तदुरुक्तचिन्तापराणि वार्तिकानि वररुचिना विरचितानि । ज्योतिर्वेत्ता, स्मृतिकारः, काव्यकर्ता चायं वररुचिः याज्ञवल्क्यमुनेस्तनयः इति केचिद्वदन्ति । अस्य वररुचेः अपरमभिधानं भवति कात्ययन इति । अयं क्रिस्तोः पूर्वं तृतीये शतके लब्धजन्माभूदिति श्रूयते । कण्ठाभरणम्, वसन्ततिलकम्, स्वर्गारोहणमित्येतेषु काव्येषु स्वीयं कविकौशलं प्रकाशयन् अयं कात्यायनः सुत्रपरिष्करणपरैः स्ववार्तिकैः कियतीं शोभां पाणिनीये पुपोष इति शब्दतत्त्वविदः एव जानन्ति ।

न केवलं व्याकरणं पुपोष दाक्षीसुतस्येरितवार्तिकैर्यः ।

काव्येपि भूयोनुचकार तं वै कात्यायनोसौ कविकर्मदक्षः



प्राचीनपुस्तकस्थः भागः ।



महच्चरितमाला ५. - महर्षिः पाणिनिः


डो. विजय् कुमार् एम्

महर्षिः पाणिनिः

येनाक्षरसमाम्नायमधिगम्य मुनीश्वरात् ।

कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ।।

विपुलस्य संस्कृतवाङ्मयस्य महदाधारभूतं यदस्ति समग्रमेकं व्याकरणं तस्य प्रणेता भगवान् पाणिनिरिति सुविदितमेव विदुषाम् । षण्णामपि वेदाङ्गानां मध्ये मुख्यतया प्रस्तूयमानं, अत एव वेदानां वदनम्, वाग्देवीसदनं च भवति इदं व्याकरणम् । अत एव तदनधीतवद्भिः काणादे, वेदान्ते, भाषाशास्त्रे, शास्त्रान्तरे वा प्रवेशो दुरधिगमः । पाणिनिप्रोक्तं व्याकरणं सर्वशास्त्रेपकारकमित्यतः सर्वैरङ्गीकृतम् च।

शाकटायनापिशालीप्रभृतयः पूर्वसूरयः वैदिकस्य लौकिकस्य च संस्कृतस्य व्याकरणं कृतवन्तः, प्रातःस्मरणीयाश्च भवन्ति । तथापि पाणिनिरिति नामैव वैयाकरणानाम् इतरेषां च रसनाग्रे सदा नृत्यति । कुतः इति चेत् मुनिरयं वितत्य स्थितं व्याकरणं तत्पिपठिषूणाम् उपकाराय यथाविभागं संजिघृक्ष । सूत्रैः शास्त्रमिदं लघुतरं चकार । इमानि सूत्राणि घटनावैचित्र्येण पठतां श्रृण्वतामपि बुद्धौ विनाविलम्बं प्रतिष्ठां लभन्ते । वृक्षस्य बीजः इव सूत्रेषु शास्त्रतत्त्वानां गुम्फनं मनीषिणां मोदाय भवन्ति ।

तथा चोक्तम् -

अल्पाक्षरमसन्दिग्धं सारवत् विश्वतोमुखम् ।

अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ।।

अविकलं शब्दशास्त्रं चिकीर्षुः पाणिनिः प्रथमं महेश्वरमुपासाञ्चक्रे । प्रीतश्च नटराजः नृत्तावसाने स्वीयां ठक्कां नवपञ्चवारं ननाद । डमरुनिःसृता माहेश्वरसूत्राख्या नादपरम्परा मुनेर्मनीषामुदमीलयत् । एतानि माहेश्वरसूत्राणि आधारीकृत्य पाणिनिः सूत्रपाठं निर्ममे इति किल वैयाकरणानां विश्वासः । अचिरादेव अस्य शास्त्रस्य विद्वज्जनसम्मतिः समजनि ।

गान्धारेषु सिन्धुकुमानद्योः सङ्गमसमीपस्थिते शालातुरग्रामे लब्धजन्मायं महात्मा पणिगोत्रजः । क्रिस्तोः पूर्वं पञ्चमे शतके अयं वैयाकरणाग्रणीः जीवितमधारयदिति पण्डिताः मन्यन्ते । जाम्बवतीजयम् इत्येकं काव्यं पाणिनिप्रणीतं गणयन्ति गवेषकाः ।

महच्चरितमाला ४. - श्रीनारायणगुरुः

डो. विजय् कुमार् एम्

श्री नारायणगुरुः

लोकचक्रे चलति कदाचिल्लब्धजन्मानो भवन्ति लोकोपकारिणो महान्तः । तेषामचिन्त्यहेतुकानि अलोकसामान्यानि धर्मव्यवस्थापकानि कर्माणि कैश्चिदेव सम्यगवगम्यन्ते ।

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।

अभ्युत्थानमधर्मस्यय तदात्मानं सृजाम्यहम् ।।

इति भगवद्वचनमनुस्मारयन्तस्ते माहात्मानः अधर्ममुन्मूल्य धर्मसंस्थापनाय कृतावताराः कीर्त्यन्ते । कर्मणा स्वीयेनैव महत्तामुपगतास्ते महात्मानः कालान्तरेपि स्मर्यन्ते, आद्रियन्ते च । तादृशेषु नित्यस्मरणीयेषु आध्यात्मिकाचार्येषु जनहृदयन्यस्तपादः कश्चिदासीत् श्रीनारायणगुरुदेवः ।

तदात्वे अस्पृश्यत्वेनावर्ण्यत्वेनाधःकृतत्वेन वा परिगणिते कस्मिंश्चित् समाजे एकत्रिंशदधिकैकसहस्रतमे (१०३१) कोलम्बाब्दे श्रावणमासि श्रीनारायणोवतीर्णः । अनन्तपुर्यां नातिदूरस्थे चेम्पषन्तिग्रामे वयल्वारं भवनमस्य जन्मगृहम् । अस्य माता कुट्टियम्मा पिता च माटनाशान् इति प्रथितो विद्वांश्च ।

बालस्य नारायणस्य अक्षरविद्यासमारंभः चेम्पषन्तिमुत्तुप्पिल्ल इति विश्रुतेन पण्डितेन कारयामासे । ततः क्रमेण स निशातधिषणो बालः संस्कृतभाषां पठितुं नियुक्तः, मलयालम्, तमिल्, संस्कृतमिति भाषात्रयेपि कालेनाल्पेनैव निष्णातोभवत्। ततः संस्कृतभाषायां शास्त्रार्थावगमार्थं कुमार एव सः मातुलेन कृष्णन् वैद्यन् नामकेन पुतुप्पल्लिवारणप्पल्लिनामकम् उदारशीलानां भवनमुपनीतः । तत्र चेरुवण्णूराचार्यस्य रामन्पिल्ल महाशयस्य अन्तेवासित्वेन कालं नयन्नसौ नारायणः बहूनि काव्यानि शास्त्राणि चाधीतवान् । अयं च पठनावसरेषु इतरान् सर्वानपि सतीर्थ्यान् स्वशेमुष्या अनायासमधरीचकार । कुमार एषासौ व्रतनिष्ठः विविक्तसंस्थश्चासीत् ।

पित्रोर्मृतयोः यदृच्छया कृतपरिणयोपि नैष्ठिकः सः गृहं हित्वा निर्जगाम । श्रीनारायणः स्वस्य एकोनत्रिंशे वयसि परिव्राजकत्वमापाद्यत । कदाचिदसौ कानिचिद्दिनानि पेरुनल्लि भवने संस्कृतग्रन्थनिरीक्षणार्थं वसन् परमभट्टारकश्रीविद्याधिराजस्य सौहृदमार्जितवान् । एतौ द्वावपि तपस्विनौ कञ्चित्कालं सन्ततसहवर्तिनावास्ताम् । तौ योगाचार्यं तैक्काट्टार्यनामानमुपेत्य हठादीर्योगविद्याः काश्चिद् अधीयतुः । शिष्टांश्च श्रीनारायणो मरुत्वाद्रिमेत्य तत्र स्वयं परिशीलितवान् । मरुत्वाद्रेरधित्यकायां पिल्लत्तटनामकमस्ति किमपि बिलम् । तत्र स दर्भास्तीर्यासनः तपस्तेपे । फलेन, पर्णेन, जलेन, वायुना च शरीरस्य स्थितिं कल्पयन् दिनान्यनयत् । अनन्तरं तपसो निवृत्तश्च दक्षिणभारते बहून् देशानटन् अवधूतोसौ अम्माळ् योगिन्या नागर्कोविल् देशस्थया आशीभिरनुगृहीतः । अवधूतत्वेन कालं यापयन्नसौ तदात्वे अधःकृतानामवशानाञ्च जनानां समाजेषु सञ्चरन् तेषां समुद्धरणोपायान् चिन्तयन्नासीत्। ऐस्लामिकाः क्रैसेतवाश्च तं बह्वमन्यन्त ।

नारायणावधुतः कदाचित् अरुविप्पुरं इति नाम्ना पश्चाद् विश्रुतं वनप्रदेशं प्राप । तं च पश्चात् शिवलिङ्गस्वामीति प्रथितः कश्चित्तपस्वी शिष्यतया प्रपेदे । क्रमेण बहवो जनाः सर्वतस्तत्र समागताः । एवम् अरुविप्पुरं किञ्चन तीर्थस्थानं समभवत्। यदद्ध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते । तत्र च श्रीनारायणगुरुदेवेन शिवलिङ्गाकारः शिलाखण्डः प्रतिष्ठापितः। तत्र शिवमन्दिरे लिखितमेतत् ।

जातिभेदं मतद्वेषं विना यत्र नराः समे ।

सोदरत्वेन तिष्ठन्ति मातृकास्थानमप्यदः ।।

श्रीनारायणगुरुदेवः कैरल्यां गैर्वाण्याञ्च स्तोत्राणि गीतानि च व्यरचयत् । तेष्वन्यतमं अतिविश्रुतं कुण्डलिनीगीतम् । दैवशतकम्, अद्वैतदीपिका, जननीनवरत्नमञ्जरी, आत्मोपदेशशतकम्, दर्शनमाला, मुनिचर्यापञ्चकम्, ब्रह्मविद्यापञ्चकम् इत्यादयश्च मुख्याः अस्य कृतयः । धर्मचिन्तकः आदर्शवादी अवशसमाजोद्धारकः समुदायपरिष्कर्ता समदर्शी च गरुदेवः आलुवानामके स्थाने अद्वैताश्रमं स्थापयामास । किञ्च श्रीनारायणधर्मसंघनामकं समाजं चातनोत् । एका जातिः एको धर्मः एकोदेवः सर्वेषामिति मानवानामित्ययं गुरुदेवस्य सिद्धान्तः । विद्यया प्रबुद्ध्यत्वम्, संघटिताः शक्ता भवत, उद्योगेन संपद्यध्वम्, - इत्ययं गुरूपदेशः अधःकृतानामुद्धारणमन्त्रः दिशि दिशि प्रतिध्वनितो बभूव। जातिवर्णभेदध्वंसको धर्मस्थापकश्च श्रीनारायणपरमहंसः आन्त्ररोगेणातुरः बहुमार्गकैः भिषग्भिः चिकित्सितोपि स्वास्थ्यं न लेभे । किञ्च कोलम्बाब्दे चतुरधिकैकादशशततमे (११०४) कन्यायां मासि पञ्चमे दिने सः परमं पदं प्रपेदे ।

महच्चरितमाला ३. - भगत्सिंहः

डो. विजय् कुमार् एम्
भगत्सिंहः


भरतस्य स्वातन्त्र्यसमरनायकेषु बहवः सेनान्यो येन केनापि हेतुना मृता वा मारिता वा अभवन् । तथा भारतस्वातन्त्र्याय नीतसमरेषु वीरपुरुषेषु अत एवाङ्गलाधिकृतैर्मारितेषु प्रथमगणनीयः आसीद् भगत्सिंहः । ''विप्लवो विजयताम्'' इति मुद्रावाक्यमपि प्रथमतः भारते भगत्सिंहेनैव उच्चारितम् ।

भगत्सिंहः सप्ताधिकैकोनविंशतिशततमे (१९०७) क्रिस्त्वब्दे पञ्चाबदेशे समजायत । अस्य पिता तु राष्ट्रीयवृत्तिः आसीत् । माता विद्यावती च । पुत्रस्य जन्मवेलायां पिता कृष्णसिंहः कारायां बद्धः आसीत् । भगत्सिंहः बाल्ये कृशः शान्तश्चासीत् ।

आडंबरविमुखोयं बालः आर्यसमाजस्य पाठशालायां ततो लाहोरस्थायां राष्ट्रीयमहाविद्याशालायां च क्रमशः अपठत् । असौ पञ्चदशवर्षदेशीयः एव आङ्गलेभ्यो मातृभूमिं रक्षितुम् ऐच्छत् । स विविधदेशसंबन्धिनः क्रान्तिसाहित्यप्रातिपदिकान् ग्रन्थान् सञ्चित्य पठन् क्रमेण कश्चित् महान् विप्लवकारी समपद्यत । राष्ट्रीयप्रस्थानात्पुत्रं निवर्तयितुकामः पिता बहुधा कृतप्रयत्नोपि कृतार्थतां नाप ।

स्वातन्त्र्यसमरप्रयुक्तानां यूनां कापि सभा षड्विंशत्यैकोनविंशतिशततमे (१९२६) क्रिस्त्वब्दे काण्पूरदेशे प्रावर्तत । तत्र युवभिः भगत्सिंहो नेतृत्वेन अङ्गीकृतः । स विविधेषु जनपदेषु प्रवर्तमानान् आङ्गलविरोधिनः संयोज्य स्वीयां प्रतिरोधशक्तिं पुपोष । एतस्मिन्नवसरे चन्द्रशेखरआसादादिभिः विप्लवकारिभिः सह मैत्रीं च बबन्ध । भारतसमाजवादिगणतन्त्रसभा इति कस्याश्चन परिषदः आविर्भावोपि विप्लवकारिणां बलं पोषयामास ।

अथ पञ्चाबदेशे भगत्सिंहः कैश्चित्तरुणैः साकं नवयुवकभारतसभाम् अतनोत् । आङ्गलानभियोद्धुमायुधं ग्रहीतुमपि सभैषा निश्चिकाय । भगत्सिंहस्य प्रभाषणनैपुण्यम्, असाधारणी त्यागशीलता च जनानाचकर्ष । सैमण् कम्मीषन् नामकाङ्गलसङ्घम् अभियोद्धुकामानां जनानां नेता लाला लज्पत् रायी नामकः रक्षिपुरुषाणां ताडनेन मृतः । सान्डेसन् नामको मर्दननिर्देशकः रक्षिपुरुषनायकः भगत्सिंहेन तदैव प्रत्यभिज्ञातः पश्चान्नालिकाशस्त्रेणैव निहतः । आङ्गलाधिकृताः भगत्सिंहादीन् विप्लवकारिणः वैतानिकांश्च जनान् युगपत् पीडयितुं बम्भ्रम्यमाणरक्षिदलं कमपि सेवननियमं च आविश्चक्रुः । केन्द्रीयनियमनिर्माणसभायां नियमाङ्गीकारसमय एव बोम्बस्फोटनं सञ्जातं, प्रसारिता च काचिल्लघुलेखा उद्घुष्टं च ''विप्लवो विजयताम्'' इति मुद्रावाक्यम्

तदानीमेवापराद्धत्वेन गृहीतो भगत्सिंहः कारायां निक्षिप्तः । व्यवहारानन्तरं प्रड्विवाकेनासौ आयुःपर्यन्तं द्वीपान्तरवासाय दण्डनं लब्धः । व्यवहारे च अन्यस्मिन्नयं मृत्युदण्डमेव प्रापितः । एवं एकोनत्रिंशदधिकैकोनविंशतिशततमे (१९३१) क्रिस्त्वब्दे मार्च् मासि त्रयोविंशे दिने भगत्सिंहः आङ्गलाधिकृतैः उद्बन्धनेन मारितः । कथेयं भारतीयानां हृदयं सदा पर्याकुलयत्येव ।

भगत्सिंहमधिकृत्य कृताः वीरगाथातल्लजाः उत्तरभारतग्रामान् नगराणि च अद्यापि मुखरयन्ति ।

भगत्सिंहस्य मरणानन्तरं प्रसिद्धीकृतम् वृत्तान्तपत्रम्

(प्राचीनपाठपुस्तकादुद्धृतोयं गद्यांशः)