roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Thursday, October 6, 2011

प्राणायामः

।। प्राणायामः ।।

डो. विजय् कुमार्. एम्

योगपरिशीलनपद्धतिः अष्टाङ्गैः युक्ता भवति । अष्टाङ्गानि तावत् यम, नियम, आसन, प्राणायाम, प्रत्याहर, धारणा, ध्यान, समाधिश्च। एतेषु अष्टाङ्गेषु चतुर्थः भवति प्राणायामः । पातञ्जलयोगसूत्रे प्राणायामस्य लक्षणं एवमुक्तं भवति -
''तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः'' (साधनापादः, सूत्रं ४९) इति।
तस्मिन् सति - आसनसिद्धेरनन्तरं, श्वासोच्छ्वासयोः गतिविच्छेदः - प्रतिषेधः अथवा स्तब्धीकरणं प्राणायामः इत्युच्यते ।प्राणानामायामः प्राणायामः । आ – समन्तात्, यामः - नियमनं (नियन्त्रणं) प्राणायामः इत्यर्थः ।

Wednesday, October 5, 2011

निलानदी

निलानदी
डो. विजय् कुमार् एम्

केरलराज्यस्य चरित्रमण्डले एवं सांस्कृतिकमण्डले च नितरां प्रसिद्धा भवति निला। प्राचिनकाले मामाङ्कमहोत्सवः अस्याः तटे एव आघुष्यमाणः आसीत् । अत एव इयं नदी कविभिः बहुधा वर्णिता। अस्याः तीरे बहवः महात्मानः जनिमलभत । इयं नदी सुदीर्घा विस्तृता च भवति। न केवलं मनुष्याणां अपितु, तटे वर्तमानानां सर्वेषां जीवजालानां जीवनदायिका च भवति। अस्याः तीरे अनेकानि हरिताभानि सस्यक्षेत्राणि देवमन्दिराणि च विद्यते । स्वतः शान्ता इयं नदी वर्षकाले स्वीयं रौद्रभावं प्रकटयति । पश्यतु ....
नद्याः अयं रौद्रभावः केवलं वर्षकाले एव द्रष्टुं शक्यते । वर्षकालानन्तरं सा शान्तरूपापान्ना प्रवहति ।
वसन्ते, ग्रीष्मे च इयं नदी अत्यन्तं शुष्का भविष्यति । सेतुबन्धनेन तस्याः गतिः निरुद्धा । पुनः जलस्य दुरुपयोगेनापि सा शोषिता । जलपूर्णा सा इदानीं सिकतमया भवति । पश्यतु .....

महच्चरितमाला ८. - वर्धमानमहावीरः

डो. विजय् कुमार् एम्

वर्धमानमहावीरः

अहिंसां परमं धर्मं मन्वते जैनाः । जैनधर्मस्य स्थापकाः तीर्थङ्कराः इत्युच्यन्ते । चतुर्विंशति तीर्थङ्कराः आसन्निति जैनानां विश्वासः । तेष्वन्तिमो वर्धमानमहावीरः मगधेषु वैशालीनगरप्रान्ते कुण्डग्रामे सिद्धार्थनाम्नः पितुः जन्म लेभे । मातास्य त्रिशाला नाम क्षत्रियाणी । वर्धमानस्य बाल्यमधिकृत्य किमपि न ज्ञायते । यशोदां नाम राजकन्यकां परिणीय त्रिंशे वयसि गृहस्थाश्रमं त्यक्त्वा परिवव्राज । नग्नो भूत्वा द्वादशसंवत्सरांस्तीव्रं तपस्तेपे । त्रयोदशे वर्षे ऋजुबालुकानद्या उत्तरे तीरे जृम्भिकाग्रामे स केवलज्ञानमलभत । तदा प्रभृति केवली इति जिन इति च तस्य नामनी अजायेताम् । अनन्तरं त्रिंशतं वर्षान् स्वोपज्ञं धर्मं प्रचारयामास । द्विसप्ततितमे वयसि क्रिस्तोः पूर्वं ५२७ तमे वर्षे कार्तिकमासे अमावास्यां रात्रौ निर्वाणमलभत च।

वर्धमानमहाविरस्य अनुयायिनः जैनाः इति निर्ग्रन्था इति च उच्यन्ते । श्वेतांबराः इति दिगंबरा इति द्वौ विभागौ जैनानाम् । दिगम्बराः मनयः नग्नाश्चरन्ति । श्वेतांबरास्तु श्वेतं वस्त्रं धृत्वा । अहिंसा, सत्यं, अस्तेयः, ब्रह्मचर्यं, अपरिग्रहश्च जैनैराद्रियन्ते । अपरिग्रहस्यैव परा काष्ठा वस्त्रत्यागः । सम्यक् विश्वासेन, सम्यक् ज्ञानेन, सम्यक् कर्मणा च मनुष्याः संसाराद्विमुक्ताः भवन्ति । त्रीणीमानि रत्नत्रयमित्युच्यन्ते । जैनधर्मो रत्नत्रये प्रतिष्ठितः ।

(प्राचीनपाठपुस्तकादुद्धृतः अयं भागः)

महच्चरितमाला ७. - पतञ्जलिः


डो. विजय् कुमार् एम्

पतञ्जलिः

सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः ।

स्वमतानि च वर्ण्यन्ते भष्यं भाष्यविदो विदुः ।।

पाणिनिकृतं शब्दानुशासनं, तस्मिन् कात्यायनेन कृतं परिष्कारं च अवलम्ब्य यः प्रसन्नगम्भीरं महाम्भोधिसमं महाभाष्यं व्यलेखि स एव महर्षिः पतञ्जलिः । महाभ्ष्यस्य गद्यशैली ह्रस्वसमासयुक्ता सरला च भवति । पुरातनकाले सर्वत्र जनपदेषु संस्कृतमाश्रित्यैव पामरसाधारणजनाः व्यवाहारः कृतवन्तः इत्यत्र महाभाष्यमेव निदानं भवति । पाणिनिकात्यायनपतञ्जलिषु यथोत्तरं मुनीनां प्रामाण्यम् इति सुविदितं वचनं पतञ्जलेः प्रामाण्यपारम्यं प्रकाशयति ।

महाभाष्ये वर्तमान, गोनर्दीय इति अभिधानात् गोनर्दः अस्य जन्मग्राम इत्यवगम्यते । गोणिकापुत्र इति निर्देशात् तस्य मातुः मान गोणिका इत्यपि ऊह्यते । चिदंबरे पुत्रकाम्यया श्रीशङ्करं भजन्त्या गोणिकाया अञ्जलिपुटे एकदा अल्पप्राणः सर्पशिशुः द्युतलादापातयत् ।योयं शङ्करभूषणः फणी गोणिकया पुत्रत्वेनाङ्गीकृतः पतञ्जलिरिति प्रथां भेजे इत्यस्ति ऐतिह्यम् । पण्डिताः क्रिस्तोः पुर्वं द्वितीयं शतकं कलयन्ति पतञ्जलेः जीवितकालम् । पतञ्जलिप्रणीतं ग्रन्थत्रयं समुपलभ्यते, व्याकरणमहाभाष्यम्, निदानसूत्रम्, योगसूत्रं च । अतएवोच्यते -

योगेन चित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन ।

योपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोस्मि ।।

(प्राचीन पुस्तकादुद्धृतः)

महच्चरितमाला ६. - वररुचिः (कात्यायनः)


डो. विजय् कुमार् एम्.

वररुचिः (कात्यायनः)

वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् ।

पाणिनिं सूत्रकारं च प्रणतोस्मि मुनित्रयम् ।।

पाणिनीयसूत्राणाम् उक्तानुक्तदुरुक्तचिन्तापराणि वार्तिकानि वररुचिना विरचितानि । ज्योतिर्वेत्ता, स्मृतिकारः, काव्यकर्ता चायं वररुचिः याज्ञवल्क्यमुनेस्तनयः इति केचिद्वदन्ति । अस्य वररुचेः अपरमभिधानं भवति कात्ययन इति । अयं क्रिस्तोः पूर्वं तृतीये शतके लब्धजन्माभूदिति श्रूयते । कण्ठाभरणम्, वसन्ततिलकम्, स्वर्गारोहणमित्येतेषु काव्येषु स्वीयं कविकौशलं प्रकाशयन् अयं कात्यायनः सुत्रपरिष्करणपरैः स्ववार्तिकैः कियतीं शोभां पाणिनीये पुपोष इति शब्दतत्त्वविदः एव जानन्ति ।

न केवलं व्याकरणं पुपोष दाक्षीसुतस्येरितवार्तिकैर्यः ।

काव्येपि भूयोनुचकार तं वै कात्यायनोसौ कविकर्मदक्षः



प्राचीनपुस्तकस्थः भागः ।



महच्चरितमाला ५. - महर्षिः पाणिनिः


डो. विजय् कुमार् एम्

महर्षिः पाणिनिः

येनाक्षरसमाम्नायमधिगम्य मुनीश्वरात् ।

कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ।।

विपुलस्य संस्कृतवाङ्मयस्य महदाधारभूतं यदस्ति समग्रमेकं व्याकरणं तस्य प्रणेता भगवान् पाणिनिरिति सुविदितमेव विदुषाम् । षण्णामपि वेदाङ्गानां मध्ये मुख्यतया प्रस्तूयमानं, अत एव वेदानां वदनम्, वाग्देवीसदनं च भवति इदं व्याकरणम् । अत एव तदनधीतवद्भिः काणादे, वेदान्ते, भाषाशास्त्रे, शास्त्रान्तरे वा प्रवेशो दुरधिगमः । पाणिनिप्रोक्तं व्याकरणं सर्वशास्त्रेपकारकमित्यतः सर्वैरङ्गीकृतम् च।

शाकटायनापिशालीप्रभृतयः पूर्वसूरयः वैदिकस्य लौकिकस्य च संस्कृतस्य व्याकरणं कृतवन्तः, प्रातःस्मरणीयाश्च भवन्ति । तथापि पाणिनिरिति नामैव वैयाकरणानाम् इतरेषां च रसनाग्रे सदा नृत्यति । कुतः इति चेत् मुनिरयं वितत्य स्थितं व्याकरणं तत्पिपठिषूणाम् उपकाराय यथाविभागं संजिघृक्ष । सूत्रैः शास्त्रमिदं लघुतरं चकार । इमानि सूत्राणि घटनावैचित्र्येण पठतां श्रृण्वतामपि बुद्धौ विनाविलम्बं प्रतिष्ठां लभन्ते । वृक्षस्य बीजः इव सूत्रेषु शास्त्रतत्त्वानां गुम्फनं मनीषिणां मोदाय भवन्ति ।

तथा चोक्तम् -

अल्पाक्षरमसन्दिग्धं सारवत् विश्वतोमुखम् ।

अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ।।

अविकलं शब्दशास्त्रं चिकीर्षुः पाणिनिः प्रथमं महेश्वरमुपासाञ्चक्रे । प्रीतश्च नटराजः नृत्तावसाने स्वीयां ठक्कां नवपञ्चवारं ननाद । डमरुनिःसृता माहेश्वरसूत्राख्या नादपरम्परा मुनेर्मनीषामुदमीलयत् । एतानि माहेश्वरसूत्राणि आधारीकृत्य पाणिनिः सूत्रपाठं निर्ममे इति किल वैयाकरणानां विश्वासः । अचिरादेव अस्य शास्त्रस्य विद्वज्जनसम्मतिः समजनि ।

गान्धारेषु सिन्धुकुमानद्योः सङ्गमसमीपस्थिते शालातुरग्रामे लब्धजन्मायं महात्मा पणिगोत्रजः । क्रिस्तोः पूर्वं पञ्चमे शतके अयं वैयाकरणाग्रणीः जीवितमधारयदिति पण्डिताः मन्यन्ते । जाम्बवतीजयम् इत्येकं काव्यं पाणिनिप्रणीतं गणयन्ति गवेषकाः ।

महच्चरितमाला ४. - श्रीनारायणगुरुः

डो. विजय् कुमार् एम्

श्री नारायणगुरुः

लोकचक्रे चलति कदाचिल्लब्धजन्मानो भवन्ति लोकोपकारिणो महान्तः । तेषामचिन्त्यहेतुकानि अलोकसामान्यानि धर्मव्यवस्थापकानि कर्माणि कैश्चिदेव सम्यगवगम्यन्ते ।

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।

अभ्युत्थानमधर्मस्यय तदात्मानं सृजाम्यहम् ।।

इति भगवद्वचनमनुस्मारयन्तस्ते माहात्मानः अधर्ममुन्मूल्य धर्मसंस्थापनाय कृतावताराः कीर्त्यन्ते । कर्मणा स्वीयेनैव महत्तामुपगतास्ते महात्मानः कालान्तरेपि स्मर्यन्ते, आद्रियन्ते च । तादृशेषु नित्यस्मरणीयेषु आध्यात्मिकाचार्येषु जनहृदयन्यस्तपादः कश्चिदासीत् श्रीनारायणगुरुदेवः ।

तदात्वे अस्पृश्यत्वेनावर्ण्यत्वेनाधःकृतत्वेन वा परिगणिते कस्मिंश्चित् समाजे एकत्रिंशदधिकैकसहस्रतमे (१०३१) कोलम्बाब्दे श्रावणमासि श्रीनारायणोवतीर्णः । अनन्तपुर्यां नातिदूरस्थे चेम्पषन्तिग्रामे वयल्वारं भवनमस्य जन्मगृहम् । अस्य माता कुट्टियम्मा पिता च माटनाशान् इति प्रथितो विद्वांश्च ।

बालस्य नारायणस्य अक्षरविद्यासमारंभः चेम्पषन्तिमुत्तुप्पिल्ल इति विश्रुतेन पण्डितेन कारयामासे । ततः क्रमेण स निशातधिषणो बालः संस्कृतभाषां पठितुं नियुक्तः, मलयालम्, तमिल्, संस्कृतमिति भाषात्रयेपि कालेनाल्पेनैव निष्णातोभवत्। ततः संस्कृतभाषायां शास्त्रार्थावगमार्थं कुमार एव सः मातुलेन कृष्णन् वैद्यन् नामकेन पुतुप्पल्लिवारणप्पल्लिनामकम् उदारशीलानां भवनमुपनीतः । तत्र चेरुवण्णूराचार्यस्य रामन्पिल्ल महाशयस्य अन्तेवासित्वेन कालं नयन्नसौ नारायणः बहूनि काव्यानि शास्त्राणि चाधीतवान् । अयं च पठनावसरेषु इतरान् सर्वानपि सतीर्थ्यान् स्वशेमुष्या अनायासमधरीचकार । कुमार एषासौ व्रतनिष्ठः विविक्तसंस्थश्चासीत् ।

पित्रोर्मृतयोः यदृच्छया कृतपरिणयोपि नैष्ठिकः सः गृहं हित्वा निर्जगाम । श्रीनारायणः स्वस्य एकोनत्रिंशे वयसि परिव्राजकत्वमापाद्यत । कदाचिदसौ कानिचिद्दिनानि पेरुनल्लि भवने संस्कृतग्रन्थनिरीक्षणार्थं वसन् परमभट्टारकश्रीविद्याधिराजस्य सौहृदमार्जितवान् । एतौ द्वावपि तपस्विनौ कञ्चित्कालं सन्ततसहवर्तिनावास्ताम् । तौ योगाचार्यं तैक्काट्टार्यनामानमुपेत्य हठादीर्योगविद्याः काश्चिद् अधीयतुः । शिष्टांश्च श्रीनारायणो मरुत्वाद्रिमेत्य तत्र स्वयं परिशीलितवान् । मरुत्वाद्रेरधित्यकायां पिल्लत्तटनामकमस्ति किमपि बिलम् । तत्र स दर्भास्तीर्यासनः तपस्तेपे । फलेन, पर्णेन, जलेन, वायुना च शरीरस्य स्थितिं कल्पयन् दिनान्यनयत् । अनन्तरं तपसो निवृत्तश्च दक्षिणभारते बहून् देशानटन् अवधूतोसौ अम्माळ् योगिन्या नागर्कोविल् देशस्थया आशीभिरनुगृहीतः । अवधूतत्वेन कालं यापयन्नसौ तदात्वे अधःकृतानामवशानाञ्च जनानां समाजेषु सञ्चरन् तेषां समुद्धरणोपायान् चिन्तयन्नासीत्। ऐस्लामिकाः क्रैसेतवाश्च तं बह्वमन्यन्त ।

नारायणावधुतः कदाचित् अरुविप्पुरं इति नाम्ना पश्चाद् विश्रुतं वनप्रदेशं प्राप । तं च पश्चात् शिवलिङ्गस्वामीति प्रथितः कश्चित्तपस्वी शिष्यतया प्रपेदे । क्रमेण बहवो जनाः सर्वतस्तत्र समागताः । एवम् अरुविप्पुरं किञ्चन तीर्थस्थानं समभवत्। यदद्ध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते । तत्र च श्रीनारायणगुरुदेवेन शिवलिङ्गाकारः शिलाखण्डः प्रतिष्ठापितः। तत्र शिवमन्दिरे लिखितमेतत् ।

जातिभेदं मतद्वेषं विना यत्र नराः समे ।

सोदरत्वेन तिष्ठन्ति मातृकास्थानमप्यदः ।।

श्रीनारायणगुरुदेवः कैरल्यां गैर्वाण्याञ्च स्तोत्राणि गीतानि च व्यरचयत् । तेष्वन्यतमं अतिविश्रुतं कुण्डलिनीगीतम् । दैवशतकम्, अद्वैतदीपिका, जननीनवरत्नमञ्जरी, आत्मोपदेशशतकम्, दर्शनमाला, मुनिचर्यापञ्चकम्, ब्रह्मविद्यापञ्चकम् इत्यादयश्च मुख्याः अस्य कृतयः । धर्मचिन्तकः आदर्शवादी अवशसमाजोद्धारकः समुदायपरिष्कर्ता समदर्शी च गरुदेवः आलुवानामके स्थाने अद्वैताश्रमं स्थापयामास । किञ्च श्रीनारायणधर्मसंघनामकं समाजं चातनोत् । एका जातिः एको धर्मः एकोदेवः सर्वेषामिति मानवानामित्ययं गुरुदेवस्य सिद्धान्तः । विद्यया प्रबुद्ध्यत्वम्, संघटिताः शक्ता भवत, उद्योगेन संपद्यध्वम्, - इत्ययं गुरूपदेशः अधःकृतानामुद्धारणमन्त्रः दिशि दिशि प्रतिध्वनितो बभूव। जातिवर्णभेदध्वंसको धर्मस्थापकश्च श्रीनारायणपरमहंसः आन्त्ररोगेणातुरः बहुमार्गकैः भिषग्भिः चिकित्सितोपि स्वास्थ्यं न लेभे । किञ्च कोलम्बाब्दे चतुरधिकैकादशशततमे (११०४) कन्यायां मासि पञ्चमे दिने सः परमं पदं प्रपेदे ।

महच्चरितमाला ३. - भगत्सिंहः

डो. विजय् कुमार् एम्
भगत्सिंहः


भरतस्य स्वातन्त्र्यसमरनायकेषु बहवः सेनान्यो येन केनापि हेतुना मृता वा मारिता वा अभवन् । तथा भारतस्वातन्त्र्याय नीतसमरेषु वीरपुरुषेषु अत एवाङ्गलाधिकृतैर्मारितेषु प्रथमगणनीयः आसीद् भगत्सिंहः । ''विप्लवो विजयताम्'' इति मुद्रावाक्यमपि प्रथमतः भारते भगत्सिंहेनैव उच्चारितम् ।

भगत्सिंहः सप्ताधिकैकोनविंशतिशततमे (१९०७) क्रिस्त्वब्दे पञ्चाबदेशे समजायत । अस्य पिता तु राष्ट्रीयवृत्तिः आसीत् । माता विद्यावती च । पुत्रस्य जन्मवेलायां पिता कृष्णसिंहः कारायां बद्धः आसीत् । भगत्सिंहः बाल्ये कृशः शान्तश्चासीत् ।

आडंबरविमुखोयं बालः आर्यसमाजस्य पाठशालायां ततो लाहोरस्थायां राष्ट्रीयमहाविद्याशालायां च क्रमशः अपठत् । असौ पञ्चदशवर्षदेशीयः एव आङ्गलेभ्यो मातृभूमिं रक्षितुम् ऐच्छत् । स विविधदेशसंबन्धिनः क्रान्तिसाहित्यप्रातिपदिकान् ग्रन्थान् सञ्चित्य पठन् क्रमेण कश्चित् महान् विप्लवकारी समपद्यत । राष्ट्रीयप्रस्थानात्पुत्रं निवर्तयितुकामः पिता बहुधा कृतप्रयत्नोपि कृतार्थतां नाप ।

स्वातन्त्र्यसमरप्रयुक्तानां यूनां कापि सभा षड्विंशत्यैकोनविंशतिशततमे (१९२६) क्रिस्त्वब्दे काण्पूरदेशे प्रावर्तत । तत्र युवभिः भगत्सिंहो नेतृत्वेन अङ्गीकृतः । स विविधेषु जनपदेषु प्रवर्तमानान् आङ्गलविरोधिनः संयोज्य स्वीयां प्रतिरोधशक्तिं पुपोष । एतस्मिन्नवसरे चन्द्रशेखरआसादादिभिः विप्लवकारिभिः सह मैत्रीं च बबन्ध । भारतसमाजवादिगणतन्त्रसभा इति कस्याश्चन परिषदः आविर्भावोपि विप्लवकारिणां बलं पोषयामास ।

अथ पञ्चाबदेशे भगत्सिंहः कैश्चित्तरुणैः साकं नवयुवकभारतसभाम् अतनोत् । आङ्गलानभियोद्धुमायुधं ग्रहीतुमपि सभैषा निश्चिकाय । भगत्सिंहस्य प्रभाषणनैपुण्यम्, असाधारणी त्यागशीलता च जनानाचकर्ष । सैमण् कम्मीषन् नामकाङ्गलसङ्घम् अभियोद्धुकामानां जनानां नेता लाला लज्पत् रायी नामकः रक्षिपुरुषाणां ताडनेन मृतः । सान्डेसन् नामको मर्दननिर्देशकः रक्षिपुरुषनायकः भगत्सिंहेन तदैव प्रत्यभिज्ञातः पश्चान्नालिकाशस्त्रेणैव निहतः । आङ्गलाधिकृताः भगत्सिंहादीन् विप्लवकारिणः वैतानिकांश्च जनान् युगपत् पीडयितुं बम्भ्रम्यमाणरक्षिदलं कमपि सेवननियमं च आविश्चक्रुः । केन्द्रीयनियमनिर्माणसभायां नियमाङ्गीकारसमय एव बोम्बस्फोटनं सञ्जातं, प्रसारिता च काचिल्लघुलेखा उद्घुष्टं च ''विप्लवो विजयताम्'' इति मुद्रावाक्यम्

तदानीमेवापराद्धत्वेन गृहीतो भगत्सिंहः कारायां निक्षिप्तः । व्यवहारानन्तरं प्रड्विवाकेनासौ आयुःपर्यन्तं द्वीपान्तरवासाय दण्डनं लब्धः । व्यवहारे च अन्यस्मिन्नयं मृत्युदण्डमेव प्रापितः । एवं एकोनत्रिंशदधिकैकोनविंशतिशततमे (१९३१) क्रिस्त्वब्दे मार्च् मासि त्रयोविंशे दिने भगत्सिंहः आङ्गलाधिकृतैः उद्बन्धनेन मारितः । कथेयं भारतीयानां हृदयं सदा पर्याकुलयत्येव ।

भगत्सिंहमधिकृत्य कृताः वीरगाथातल्लजाः उत्तरभारतग्रामान् नगराणि च अद्यापि मुखरयन्ति ।

भगत्सिंहस्य मरणानन्तरं प्रसिद्धीकृतम् वृत्तान्तपत्रम्

(प्राचीनपाठपुस्तकादुद्धृतोयं गद्यांशः)

महच्चरितमाला २. - स्वामि विवेकानन्दः

डो. विजय् कुमार् एम्
स्वामि विवेकानन्दः

कोल्कत्तायाम् एकस्मिन् समुन्नतकुले त्रिषष्ट्युत्तर अष्टादशशततमे १८६३ क्रिस्त्वब्दे विवेकान्द इति पश्चात् प्रसिद्धः नरेन्द्रनाथः जनिमलभत । पिता विश्वनाथदत्तः माता भुवनेश्वरीदेवी चासीत् । पितुः राज्यस्नेहः मातुः आध्यात्मिकचिन्ता च शैशवे एव नरेन्द्रे समिमिलति स्म । बालो नरेन्द्रः सर्वेषु विषयेषु प्रवीणः आसीत् । आध्यात्मिककार्येषु संशयग्रस्तः नरेन्द्रः श्रीरामकृष्णपरमहंसस्य शिष्यत्वं स्वीचकार । षडशीत्यधिकाष्टादशशततमे (१८८६) क्रैस्ताब्दे श्रीरामकृष्णः समाधिं प्राप । तदनन्तरं नरेन्द्रः सुहृद्भिः सह सन्यासं स्वीकृत्य स्वामि विवेकानन्दः इति नाम स्वीचकार । अतः परं विवेकानन्दः भारते सर्वत्र पर्यटति स्म । अस्मिन् समये केरलदेशे श्रीनारायणगुरिचट्टम्पिस्वामिप्रभृतिभिः आध्यात्मिकाचार्यैः सह तस्य मेलनमपि अभवत्। सर्वधर्मसमन्वयादेव मानवमैत्री इति विवेकानन्दस्य सन्देशः । द्युत्तरनवशताधिकसहस्रतमे वर्षो सोयं भारतस्य सुपुत्रः समाधिं प्राप ।

त्रिनवत्यधिकाष्टादशशततमे (१८९३) क्रिस्ताब्दे चिक्कागो नगरे प्रचलिते सर्वधर्मसमेमलने सिवामिना कृतं प्रभाषणं विश्वविख्यातमेव । सन्तोषस्यावसरोयं यत् स्वामिनः विश्वविख्यातचिक्कागोप्रभाषणस्य शब्दरेखा इदानीमपि उपलभ्यत इति। अपूर्वामिमां शब्दरेखां शृणोतु, भारतस्य सांस्कारिकपैतृके अभिमानिनः च भवन्तु ।

स्वामि विवेकानन्दस्य चिक्कगोप्रभाषणस्य शब्दरेखा

उत्तिष्ठत, जाग्रत, प्राप्यवरान्निबोधत इति जनान् उदबोधयत् अयं युगप्रभावः ।

(प्राचीनहस्तपुस्तकादुद्धृतोयं गद्यांशः)


महच्चरितमाला १. - जवहर्लाल् नेह्रू

डो. विजय् कुमार् एम्.
जवहर्लाल् नेह्रू

भरतस्य नाम्ना सह नेह्रू महोदयस्य नाम अविच्छिन्नरूपेण संबद्धः विद्यते । स्वतन्त्रभारतस्य प्रथमः प्रधानमन्त्री आसीत् नेह्रू महोदयाः । विश्वराजनीतेः रङ्गमञ्चेपि नेह्रू महोदयस्य स्थानं गौरवमयं भवति ।

प्रयागस्थमीरगञ्जमुहल्लानिवासिनः प्रख्यातनाम्नः वाक्कीलस्य योग्यपितुः श्री मोतीलाल्नेह्रूमहोदयस्यायं योग्यपुत्रः एकोननवत्युत्तरेष्टादशशततमे ईशवीये वर्षे (१८८९) जन्म लेभे । पितुः श्री मोतीलाल् महोदयस्य समृद्धतयास्य बाल्यकालः राजकुमार इव महता प्रमोदेन व्यतीतः । अस्मिन् संस्कृतेथ गुणसम्पन्ने च वातावरणे समुत्पन्नस्य जवहर्लालस्य मनसि बाल्यकालादेव महान्तः संस्काराः पदं चक्रिरे ।

तस्य प्रारम्भिकी शिक्षा गृहे एव वैदेशिकशिक्षाशास्त्रिणां तत्त्वावधाने प्रारभ्यत, येनाल्पेनैव कालेनास्य ज्ञानवृद्धिः जाता। श्री एनीबसन्ट् महाभागायाः सम्पर्केणास्य रुचिः 'थियोसफि'नामनि आध्यात्मिकप्रस्थाने सञ्जाता ।

यदायं पञ्चदशवर्षीयस्तदासौ इङ्गण्डेध्ययनाय पित्रा प्रेषितः । तत्र हैरोस्कुलात् विद्यालयपरीक्षायामुत्तीर्य कैम्ब्रिड्ज् विश्वविद्यालयान्तर्गते ट्रिनिटि महाविद्यालये प्राविशत् । ततः १९१० तमे ईशवीयाब्दे एम्. . परीक्षायामुदतरत् । तदनन्तरं स लण्डननगर्यां विधानपरीक्षामपि उत्तीर्य लब्धोपाधिर्भारतं प्रत्ययौ । पितुर्विशालो न्यायव्यवसायस्तस्मै नारोचत । 'भारतजननी विदेशबन्धनैः कथं विमुक्ता भवेदिति' समस्याहर्निशं तस्य शिरोवेदनामकरोत्

फलतः महानुभावोयं राष्ट्रीयान्दोळने भागं ग्रहीतुमारब्धवान् । गोखलेमहोदयस्य सभापत्ये पाट्नाकांग्रेसाधिवेशने भागं गृहीतवान्। तदानीन्तने 'होम् रूल्' संज्ञके आन्दोलनेप्ययं भागमनयत् तथा भारतीयानां सहायतायै आफ्रिकायां महातेमना गान्धिमहोदयेन प्रवर्तमानमान्दोलनं बलवत्तरं कर्तुं संगृह्यार्धलक्षमितं धनकोषं तत्र प्रेषितवान्, येनास्य प्रभावः नितरामवर्धत ।

राष्ट्रीयान्दोलने भागं गृह्णन्नप्ययं विधिव्यवसायमप्यकरोत् ।किन्तु देशभक्तिवशीकृतहृदयोयं विधिव्यवसायं सर्वात्मना कर्तुं नापारयत्, पश्चात्तु स व्यवसायस्त्यक्तोपि ।

१९१६ तमे ईशवीयाब्दे श्रीमती कमलादेवी अस्यार्धाङ्गिनीपदमभूषयत् । तस्यैव पाणिग्रहणस्यावसरेयं काश्मीरेषु भ्रमणं कृतवान्। अत्रैव वर्षे लख्नऊकांग्रेसावसरे महात्मना गान्धी महोदयेन सहास्य साक्षात्परिचयो जातः । एतदनन्तरं देशे तास्ताः 'जालियन् वाला बाग्' 'मार्शल् ला' प्रभृतयो घटनाः जाताः, याः अस्य गतिविधिं सर्वधा क्रान्तिमयीमकुर्वन् ।

तदैव प्रथममहायुद्धावसरे ब्रिटीश् सर्वकारः 'रौलत् आक्ट्' नाम दमनकारि विधानं भारतीयानां पुरस्तात् प्रास्तौत् । तद्विरोधाय श्री गान्धीमहोदयोसहयोगसत्याग्रहमारभत । तस्मिन् स्वपित्रा सह जवहर्लालोप्यकूर्दत । एवं च वैभवस्यामोदकरं मनोमोहनं चाकर्षणं शाश्वतकालं यावत् परित्यज्य देशस्यायं महान् पुत्रः राष्ट्रसेवायामात्मानं नियोजयामास । मोतीलाल्नेह्रूमहोदयः प्राक् तस्य विचारधारायः प्रबलविरोधी आसीत् । परं कियत्कालानन्तरं सोपि पूर्णं सहयोगमददात् । १९२१ तमे ईशवीयाब्दे सम्राट्कुमारस्य स्वागतं विरुन्धन् अयं कारावासदण्डं लब्धवान् । तदनन्तरं त्वयं कारावासमसकृत् प्राप्तम् ।

१९२६ तमे ईशवीयाब्दे रुग्णायाः स्वधर्मपत्न्याः चिकित्सार्थमयं पुनर्विदेशं गतः, यत्र विदेशीयविशेषज्ञैः सहास्य विशेषविमर्शो जातः । अत्रैव यात्रायामयं समाजवाद-नासीवादप्रभृतिविचारधाराणां गम्भीरमध्ययनं कृतवान् ।

अयमेव सर्वप्रथमं १९३० तमे ईशवीयाब्दे जनवर्याः षड्विंशे दिवसे इरावत्यास्तटे लवपुरे स्वातन्त्रस्य महतीं घोषणामकरोत् । स्वतन्त्रतायाश्चिह्नं त्रिवर्णध्वजं तत्र निचखान । १९३२ तमे ईशवीयाब्दे पुनरयं किसान आन्दोलनस्य सम्बन्धे कारावासं भेजे । कारागारस्थितेनानेन 'डिस्कवरी आफ् इण्डिया' प्रभृतीनि स्वीयानि प्रसिद्धानि पुस्तकानि प्रणीतानि। कारावासस्थितस्यैवास्य प्रिया भार्याधिकास्वस्था भूत्वा विदेशं गता, यत्र सा पतिसाहचर्यं प्राप्याल्पेनैव कालेन मृता ।

१९४२ तमे ईशवीयब्दे भारतत्यागान्दोलनेप्ययं प्रधानतमो योद्धा आसीत् । कारावासस्थितोयं स्वाध्यायलेखनयोः समयमनैषीत् । तत्रैव प्रणीताः 'विश्वेतिहासदर्शनम्', 'आत्मकथा' प्रभृति ग्रन्थाः महान्तं रचयितारमेनं विश्वलेखकरूपेण प्रतिष्ठापितवन्तः । एवं स्वातन्त्र्यानन्तरं भारतस्य प्रथं प्रधानमन्त्रिपदेप्ययम् आरूढितवान् ।