ज्ञान - विज्ञान मण्डलेषु संस्कृतभाषायाः योगदानं कियन्मात्रमिति सर्वान् बोधयितुमुद्दिश्य संस्कृत अध्यापकानां संरम्भः।
Tuesday, January 24, 2012
Sunday, January 22, 2012
Sanskrit stories for children
बालकथामञ्जरी ७
मेषपालबालकः
कस्मिंश्चित् ग्रामे कश्चित् मेषपालः आसीत् । सः प्रतिदिनं मेषाणां यूथं चारणाय वनमनयत् । कदाचित् सः स्वस्य पुत्रं मेषाणां चारणाय प्रैषयत् । चपलः सः बालः वनं गत्वा विनोदाय ''व्याघ्रः आगच्छति, व्याघ्रः आगच्छति'' इति उच्चैः आक्रोशत् । बालस्य शब्दमाकर्ण्य प्रातिवेशिकाः जनाः आयुधानि गृहीत्वा बालस्य समीपमधावन् । तत्र व्याघ्रः नासीत् । बालः आगतान् तान् दृष्ट्वा अहसत् । ''अयं बालः चपलः मुधा आक्रोशत्'' इत्युक्त्वा ते न्यवर्तन्त ।
अथ अपरेद्युः सत्यमेव व्याघ्रः आगच्छत् । भीतः बालः पूर्ववत् ''व्याघ्रः, व्याघ्रः'' इति आक्रोशत् । ''बालः अस्मान् वञ्चयितुमाक्रोशति'' इति मन्यमानाः जनाः नागच्छन् । व्याघ्रः कतिपयान् मेषान् अभक्षयत् । बालः भीत्वा दूरं पलायत ।
पश्यत ! असत्यवचनस्य फलम् । विनोदायापि असत्यं कदापि मा वदत । ''सत्यं वद धर्मं चर'' इति वेदः अस्मान् उपदिशति ।
Wednesday, January 18, 2012
SANSKRIT BLOGS AND SITES
വിവിധ സൈറ്റുകളിലേക്കുള്ള ലിങ്കുകള്
Saturday, January 7, 2012
Sanskrit stories for children
बालकथामञ्जरी ६
उपायः कार्यसाधकः
कस्मिंश्चित् न्यग्रोधपादपे वायसदम्पती अवसताम् । तस्यैव वृक्षस्य कोटरे कश्चन कृष्णसर्पः अपि आसीत् । सः काक्याः अण्डानि अभक्षयत् ।
तौ वायसगम्पती नितरामदूयेताम् । तौ प्रियमित्रं शृगालमुपगम्य सर्पवधार्थम् उपायमपृच्छताम् । शृगालः अवदत् - '' युवां विषादं मा कुरु । युवां नगरं गच्छेताम् । तत्र कस्यापि धनिकस्य नृपतेः राज्ञ्याः वा बहुमूल्यं किमपि वस्तु गृहीत्वा सर्पकोटरे प्रक्षिपताम् । नूनं सर्पस्य नाशः भविष्यति ।'' इति ।
तदाकर्ण्य काकः काकी च प्रतिष्ठेताम् । काकी नगरे कस्याश्चन वाप्याः समीपे किमपि कनकसूत्रमपश्यत् । तत्र वाप्यां राज्ञी स्नानं कुर्वती आसीत् । काकी सद्य एव कनकसूत्रमादाय स्वनीडं प्रीतिष्ठत ।तद्दृष्वा राजकिङ्कराः दण्डं गृहीत्वा तामन्वगच्छन् । काकी तु कनकसूत्रं सर्पकोटरे निक्षिप्य दूरमगच्छत् । किङ्कराः वृक्षमासाद्य कोटरमपश्यन् । तदा कृष्णसर्पः फणं प्रसार्य बहिरागच्छत्।
ते किङ्कराः सर्पं दण्डेन प्राहरन् । सर्पः दण्डस्य प्रहारेण मृतः अभवत् । किङ्कराः च कनकसूत्रमादाय न्यवर्तन्त ।
बालाः पश्यत, यत् परक्रमेण अशक्यं तत् उपायेन शक्यमभवत् ।
Friday, January 6, 2012
Sanskrit stories for children
बालकथामञ्जरी ५
जम्बुकः जम्बुकः एव ।
कदाचित् कश्चन सिंहः आहाराय वने अभ्रमत् ।परन्तु सः एकमपि मृगं नालभत ।अन्ते सः कमपि जम्बुकशिशुम् अपश्यत् ।सः तं स्वस्य गुहामनयत् । ततः प्रियतमां सिंहीम् अवदत् - '' प्रिये अयं जम्बुकशिशुः अद्य तव आहारो भविष्यति '' इति । तं शिशुं विलोक्य सा अकथयत् - '' नाथ, अहमिमां शिशुं हन्तुं न इच्छामि । मम पुत्राभ्यां सह एनं पालयिष्यामि । अयं तयोः अग्रजो भविष्यति ।एषः ताभ्यां सह क्रीडतु '' इति।
ते त्रयः शिशवः क्रमेण अवर्धन्त । सहैव ते व्यहरन् । अयं जात्या जम्बुकः इति सिंहशिशू न अवगच्छताम् ।
एकदा वने कमपि गजं दृष्ट्वा तौ सिंहबालौ अवदताम् - ''अयं गजः अस्माकं शत्रुः । इमं मारयिष्यामः '' इति ।परन्तु जम्बुकबालकः गजं दृष्ट्वा भीतः पलायत ।गृहं गत्वा सिंहबालौ मात्रे न्यवेदयतताम् - '' मातः, अयमावयोः अग्रजः भीरुः । गजं दृष्ट्वा भीतः गृहं प्रति अधावत् '' इति ।जम्बुकबालः अनुजयोः निन्दया क्रुद्धः ताभ्यां द्रोग्धुं उद्युक्तः अभवत् ।तदा सिंही तमेकान्ते आहूय अवदत् - '' त्वं ताभ्यां सह कलहं मा कुरु ।तौ सिंहबालौ त्वं शृगालबालः ।कलहे तौ त्वं मारयिष्यतः '' इति ।तदाकर्ण्य जम्बुकबालः तूष्णीम् अतिष्ठत् । यथावसरं पलाय्य शृगालयूथम् एव प्राविशत् च ।
जम्बुकः जम्बुकः एव । सः कदापि सिंहः न भवति ।
Sanskrit stories for children
बालकथामञ्जरी ४
बुद्धिर्यस्य बलं तस्य
कस्मिंश्चन अरण्ये भासुरको नाम सिंहः आसीत् । सः प्रतिदिनं बहून् मृगान् हत्वा अभक्षयत् । एकदा सर्वे मृगाः सिहस्य समीपं गत्वा अकथयन् - '' मृगराज, प्रतिदिनमेको मृगः त्वामुपगमिष्यति । तथा त्वं क्लेशेन विना भक्षणं लप्स्यसे ।'' इति । सिंहः प्रत्यवदत् - '' एवमस्तु '' इति ।
ततः प्रभृति प्रतिदिनम् एकैकः मृगः सिंहस्य समीपमगच्छत् । सिंहः तं हत्वा अखादत् । एकदा शशकस्य वारः आसीत् । सः विलम्ब्य मृगराजस्य समीपमगच्छत् । तत्र गत्वा सः क्षुधया कुपितं सिंहं प्रणम्य अवदत् - '' प्रभो अस्मिन् वने अन्यः कश्चन सिंहः अस्ति । सः मां भक्षयितुम् ऐच्छत् । अहमेव मृगराजः इति सः कथयति इति।'' शशकस्य वचनमाकर्ण्य क्रुद्धः भासुरकः '' सः सिंहः क्व वर्तते '' इति अपृच्छत् ।
शशकः भासुरकं कस्यचित् कूपस्य समीपम् अनयत् । भासुरकः कूपस्य जले स्वस्य प्रतिबिंबमपश्यत्। सः प्रतिबिंबम् अन्यं सिंहम् अमन्यत । अतः तं हन्तुं कूपे उदप्लवत । सः जले मग्नः अम्रियत । अत एव इदं वचनम् -
बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।
वने सिंहो मदोन्मत्तः शशकेन निपातितः ।।
Sanskrit stories for children
बालकथामञ्जरी ३
लवकुशौ
सीता श्रीरामचन्द्रस्य पत्नी आसीत् । सा वाल्मीकेः आश्रमे द्वौ पुत्रौ प्रासूयत । तौ शुक्लपक्षे चन्द्र इव क्रमेण अवर्धेताम् । तयोः बाललीलां पश्यन्ती सीता कालम् अनयत् । वाल्मीकिः तयोः एकस्य लवः इति अपरस्य कुशः इति च नामधेयम् अकरोत् ।
तौ क्रमेण वर्धमानौ वाल्मीकेः सकाशात् सर्वाः विद्याः अशिक्षेताम् । धनुर्वेदे अपि तौ निपुणौ अभवताम्।
एकदा लवः अन्यैः मुनिकुमारैः सह क्रीडायां व्यापृतः आसीत् । तदा सः कमपि अश्वम् अपश्यत् । '' अयं यागाश्वः । भवन्तः इमम् आश्रमं नयन्तु '' इति लवः मुनिकुमारान् अवदत् । अश्वरक्षकाः सैन्याः अश्वं मुनिकुमारैः नीयमानम् अपश्यन् । '' अश्वं मुञ्चत, अन्यत्र मा नयत '' इति ते मुनिकुमारान् अवदन् । यदा कुमाराः अश्वं न अमुञ्चन् तदा ते सेनापतये चन्द्रकेतवे न्यवेदयन् । चन्द्रकेतुः आगत्य '' अश्वं मुञ्चत '' इति अवदत् । '' यदि युष्माकं शक्तिरस्ति तर्हि आवां जित्वा अश्वं नयत '' इति लवः कुशश्च प्रत्यवदताम् ।
'' मुनिकुमारौ अश्वं विसृजतां साहसं मा कुरुतम् '' इति चन्द्रकेतुः तौ उपादिशत् । परन्तु लवकुशौ युद्धाय सन्नद्धौ अभवताम् । युद्धे तौ चन्द्रकेतुं तस्य महतीं सेनां च अजयताम् ।
(बालानां लोट् लकारज्ञानार्थं कथेयमुपयुज्यते)
Sanskrit stories for children
बालकथामञ्जरी २
स्वभावकृपणः
कस्मिंश्चित् नगरे स्वभावकृपणः नाम ब्राह्मणः अवसत् । सः भिक्षया लब्धैः सक्तुभिः कलशम् अपूरयत्।सः ब्राह्मणः तं कलशं गृहे क्वचित् निक्षिप्य तस्य समीपे शयितः आसीत् ।शयानः सः एवम् अचिन्तयत् - '' अयं घटः सक्तुभिः पूर्णः । दुर्भिक्षकाले अस्य विक्रयेण अहं रूप्याकाणां शतं लप्स्ये । तेन धनेन द्वे अजे क्रेष्यामि। तयोः अजयोः सन्ततिभिः यूथं भविष्यति । अजायूथेन गाः सम्पादयिष्यामि । गोभिः महिषीः, महिषीभिः बडवाः। बडवाभ्यः प्रभूताः अश्वाः उत्पत्स्यन्ते ।अहं तेषां विक्रयणेन प्रभूतं धनं लप्स्ये । धनेन तेन एकं चतुःश्शालकं गृहं रचयिष्यामि । तदा कश्चित् ब्राह्मणः मह्यं कन्यां दास्यति ।सा काले पुत्रं प्रसोष्यते । तस्य सोमशर्म इति नामधेयं करिष्यामि । सः क्रमेण पाणिभ्यां जानुभ्यां च चरति । सः पुस्तकरायणे मग्नस्य मम समीपं आगमिष्यति । तदा अहं बालकं क्रोधात् अपनेतुं ब्राह्मणीं निर्देक्ष्यामि । गृहकार्ये व्यापृता सा मम वचनं न आकर्णयिष्यति ।तदा अहं समुत्थाय तां पादेन प्रहरिष्यामि ।'' एवं चिन्तायां निलीनः सः उत्थाय पादेन प्राहरत्। तेन प्रहारेण सः सक्तुपूर्णःघटः भग्नः । सक्तुभिः ब्राह्मणः पाण्डुरः अभवत् ।
अनागतवतीं चिन्ताम् असंभाव्यां करोति यः ।
स एव पाण्डुरः शेते सोमशर्मपिता यथा ।।
(बालानां भविष्यकालप्रयोगज्ञानाय अपि कथेयमुपयुज्यते)
Thursday, January 5, 2012
KSTF Ernakulam Dist meet on 7.01.12, 10 am at GGHSS Aluva. 9349865399
Monday, January 2, 2012
25/01/2012 High Schools
27/01/2012 U. P. Schools
Sunday, January 1, 2012
Sanskrit Stories for children
बालकथामञ्जरी - १
दुष्टसंगतिः
एकदा द्वौ बालौ विद्यालयम् अगच्छताम् । तयोः एकः आसीत् माधवः । सः सुगुणः आसीत् । अपरः आसीत् शेखरः। स तु दुर्गुणः । मार्गे तौ कमपि पथिकम् अपश्यताम् । दुर्गुणः शेखरः पथिकं दृष्ट्वा एवम् अचिन्तयत् - ''अहं पथिकस्य उपरि पाषाणखण्डं क्षिपामि ।ततः शीघ्रं पलाये'' इति ।
एवं विचिन्त्य सः पाषाणघण्डेन पथिकं प्राहरत् । ततः सः पलायत । पाषाणेन प्रहृतः पथिकः झटिति मुखं परावर्तयत्। तदा सः सुगुणं माधवं एव अपश्यत् । शेखरः कुत्रचित् निलीनः आसीत् ।
माधवः एव पाषाणम् अक्षिपत् इति पथिकः अमन्यत । अतः क्रुद्धः सः निरपराधं माधवम् अताडयत् । एवं माधवः दुष्टस्य शेखरस्य संसर्गेण दण्डम् अलभत । अत एव उच्यते -
।। न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित् ।।