roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Wednesday, September 21, 2011

आरन्मुलदर्पणः


टंकणं एवं चित्रसंयोजनं
डो. विजय् कुमार् एम्


'आरन्मुलदर्पणः' केरलस्य अतिविशिष्टा अत्यपूर्वा च कलासृष्टिः । आरन्मुलदेशस्थस्य कस्यचन 'कुटुम्बस्य कुलकर्म भवति एतत्। तेषां स्वायत्तं वैदग्ध्यं च तस्य निदानं भवति । भषायां 'वेल्लोट्' नामकस्य लोहसङ्करस्य योजनेन, तस्य अग्नौ दीपनेन, एवंपौपुन्येन घर्षणेन च दर्पणः सम्पद्यते । अस्य निर्माणचातुरी अनुपमा एवं अत्युत्तमा च । 'आरन्मुलर्पणः' देशविदेशेषु प्रसिद्धः भवति।

Tuesday, September 20, 2011

केरलीयकलारूपाणि २. - तुल्लल्

टंकणं एवं चित्रसंयोजनं
डो. विजय् कुमार् एम्

सामान्यजनानां
मध्ये प्रचुरप्रचारमाप्तं कलारूपं भवति तुल्लल् । तस्य ओट्टन्, शीतङ्गन्, परयन् इति त्रैविध्यमस्ति । नृत्तनृत्यनाट्यादीनां मिश्रणं कलारूपे∫
स्मिन् दृश्यते । पदार्थाभिनयः वाक्यार्थाभिनयश्चात्र प्रचलति । तत्तु भावरसादीनाविष्करोति ताललयादीननुसरति च । विशेषरूपेण वस्त्राणि किरीटकटहादीनि च धृत्वा नर्तकः नृत्यति

तुल्लल् कलाकारः एव प्रथमं गानालापनं करोति । अन्यः अनुगायति तालक्रममाचरति च । मुरजवादने समर्थः अन्यः मुरजवादनं करोति । तुल्लल् कलाकारः गानालापनसमय एव मुद्राभिः मुखेन च अभिनयति

ओट्टन् आदिषु वेषभूषादिविषये विशेषो∫स्ति । ओट्टन्मध्ये तरङ्गिणी, शीतङ्कन् मध्ये कृशमध्या, वक्त्रं, कलकाञ्ची, काकली, परयन् मध्ये मल्लिका इत्यादीनि भाषावृत्तानि प्राधान्येन प्रयुज्यन्ते ।

।। शीतङ्कन् तुल्लल् ।।




।। ओट्टन् तुल्लल् ।।



।। परयन् तुल्लल् ।।

Monday, September 19, 2011

केरलीयकलारूपाणि १. - मरत्तुकलिः

पूरक्कलि नामकस्य कलारूपस्य अन्तिमं भागं भवति मरत्तुकलिः । अत्र देशद्वयस्य द्वौ आचार्यौ वादप्रतिवादं कुरुतः । अयं वाक्यार्थविचाररूपः भवति । पॊळिच्चुपाट्ट् नामकेन सगानेन कलारूपस्यास्य अवतरणं समाप्यते ।

Sunday, September 18, 2011

गजेन्द्रमोक्षः

केरले विद्यमानेषु भित्तिचित्रेषु अतिमहत् भवति कृष्मपुरं राजभवने विराजमानः गजेन्द्रमोक्षः। एष्याभूखण्डे उपलभ्यमानेषु भित्तिचित्रेषु इदम् अतिबृहत् भवति। वञ्चिराजवंशे जातः मार्ताण्डवर्मा इदं भवनं निर्मापितवानिति श्रूयते। अस्मिन् चित्रे महाभागवतपुराणे प्रतिपादिता गजेन्द्रमोक्षकथा विविधैः वर्णैः उल्लिखिता। अपूर्वसौन्दर्ययुक्तां कलासृष्टिमिमां पश्यतु --



मेत्तन् मणिः

तिरुवनन्तपुरे (अनन्तपुरी) श्रीपद्मनाभस्वामि देवालयस्य समीपे अट्टगृहे वर्तते मेत्तन् मणि नामिका भित्तिघटिका । 'कुलत्तूरान् ' नामकः शिल्पी एव अस्याः निर्माता इति श्रूयते महाशिल्पी 'सूत्रं आशारी' इत्यपि श्रूयते अस्याः निर्माणकौशलं अतिविश्ष्टमेव घटिकायां दारुनिर्मितं मनुजमुखं तथा मेषद्वयं वर्तते एकैकहोरानन्तरं मेषद्वयं मनुजकपोले शीर्षेण कुट्टयति तदा मनुजमुखात् घण्टानादः बहिर्गच्छति मेत्तन् मणिं द्रष्टुं बहवः सञ्चारिणः आगच्छन्ति पश्यतु.....